Skip to main content
Search
MBh
Mahābhārata • Parva 3 (Vanaparva (Araṇyaka)) • Adhyāya 25

Araṇyakaparva (Vanaparva) Adhyāya 25

अरण्यकपर्व • अध्यायः 25

Araṇyakaparva (Vanaparva) Adhyāya 25 of the classical Mahābhārata with 27 verses.

Total: 27 Verses • Citations: MBh 3.25.1–27 • 250 Lexicon Terms
ततस्तेषु प्रयातेषु कौन्तेयः सत्यसंगरः । अभ्यभाषत धर्मात्मा भ्रातॄन्सर्वान्युधिष्ठिरः ॥
द्वादशेमाः समास्माभिर्वस्तव्यं निर्जने वने । समीक्षध्वं महारण्ये देशं बहुमृगद्विजम् ॥
बहुपुष्पफलं रम्यं शिवं पुण्यजनोचितम् । यत्रेमाः शरदः सर्वाः सुखं प्रतिवसेमहि ॥
एवमुक्ते प्रत्युवाच धर्मराजं धनंजयः । गुरुवन्मानवगुरुं मानयित्वा मनस्विनम् ॥
भवानेव महर्षीणां वृद्धानां पर्युपासिता । अज्ञातं मानुषे लोके भवतो नास्ति किंचन ॥
त्वया ह्युपासिता नित्यं ब्राह्मणा भरतर्षभ । द्वैपायनप्रभृतयो नारदश्च महातपाः ॥
यः सर्वलोकद्वाराणि नित्यं संचरते वशी । देवलोकाद्ब्रह्मलोकं गन्धर्वाप्सरसामपि ॥
सर्वा गतीर्विजानासि ब्राह्मणानां न संशयः । प्रभावांश्चैव वेत्थ त्वं सर्वेषामेव पार्थिव ॥
त्वमेव राजञ्जानासि श्रेयःकारणमेव च । यत्रेच्छसि महाराज निवासं तत्र कुर्महे ॥
इदं द्वैतवनं नाम सरः पुण्यजनोचितम् । बहुपुष्पफलं रम्यं नानाद्विजनिषेवितम् ॥
अत्रेमा द्वादश समा विहरेमेति रोचये । यदि तेऽनुमतं राजन्किं वान्यन्मन्यते भवान् ॥
ममाप्येतन्मतं पार्थ त्वया यत्समुदाहृतम् । गच्छाम पुण्यं विख्यातं महद्द्वैतवनं सरः ॥
ततस्ते प्रययुः सर्वे पाण्डवा धर्मचारिणः । ब्राह्मणैर्बहुभिः सार्धं पुण्यं द्वैतवनं सरः ॥
ब्राह्मणाः साग्निहोत्राश्च तथैव च निरग्नयः । स्वाध्यायिनो भिक्षवश्च सजपा वनवासिनः ॥
बहवो ब्राह्मणास्तत्र परिवव्रुर्युधिष्ठिरम् । तपस्विनः सत्यशीलाः शतशः संशितव्रताः ॥
ते यात्वा पाण्डवास्तत्र बहुभिर्ब्राह्मणैः सह । पुण्यं द्वैतवनं रम्यं विविशुर्भरतर्षभाः ॥
तच्छालतालाम्रमधूकनीप; कदम्बसर्जार्जुनकर्णिकारैः । तपात्यये पुष्पधरैरुपेतं; महावनं राष्ट्रपतिर्ददर्श ॥
महाद्रुमाणां शिखरेषु तस्थु;र्मनोरमां वाचमुदीरयन्तः । मयूरदात्यूहचकोरसंघा;स्तस्मिन्वने काननकोकिलाश्च ॥
करेणुयूथैः सह यूथपानां; मदोत्कटानामचलप्रभाणाम् । महान्ति यूथानि महाद्विपानां; तस्मिन्वने राष्ट्रपतिर्ददर्श ॥
मनोरमां भोगवतीमुपेत्य; धृतात्मनां चीरजटाधराणाम् । तस्मिन्वने धर्मभृतां निवासे; ददर्श सिद्धर्षिगणाननेकान् ॥
ततः स यानादवरुह्य राजा; सभ्रातृकः सजनः काननं तत् । विवेश धर्मात्मवतां वरिष्ठ;स्त्रिविष्टपं शक्र इवामितौजाः ॥
तं सत्यसंधं सहिताभिपेतु;र्दिदृक्षवश्चारणसिद्धसंघाः । वनौकसश्चापि नरेन्द्रसिंहं; मनस्विनं संपरिवार्य तस्थुः ॥
स तत्र सिद्धानभिवाद्य सर्वा;न्प्रत्यर्चितो राजवद्देववच्च । विवेश सर्वैः सहितो द्विजाग्र्यैः; कृताञ्जलिर्धर्मभृतां वरिष्ठः ॥
स पुण्यशीलः पितृवन्महात्मा; तपस्विभिर्धर्मपरैरुपेत्य । प्रत्यर्चितः पुष्पधरस्य मूले; महाद्रुमस्योपविवेश राजा ॥
भीमश्च कृष्णा च धनंजयश्च; यमौ च ते चानुचरा नरेन्द्रम् । विमुच्य वाहानवरुह्य सर्वे; तत्रोपतस्थुर्भरतप्रबर्हाः ॥
लतावतानावनतः स पाण्डवै;र्महाद्रुमः पञ्चभिरुग्रधन्विभिः । बभौ निवासोपगतैर्महात्मभि;र्महागिरिर्वारणयूथपैरिव ॥
← Previous (Ch. 321) Full Table of Contents Next (Ch. 323) →