Skip to main content
Search
MBh
Mahābhārata • Parva 3 (Vanaparva (Araṇyaka)) • Adhyāya 21

Araṇyakaparva (Vanaparva) Adhyāya 21

अरण्यकपर्व • अध्यायः 21

Araṇyakaparva (Vanaparva) Adhyāya 21 of the classical Mahābhārata with 39 verses.

Total: 39 Verses • Citations: MBh 3.21.1–39 • 250 Lexicon Terms
आनर्तनगरं मुक्तं ततोऽहमगमं तदा । महाक्रतौ राजसूये निवृत्ते नृपते तव ॥
अपश्यं द्वारकां चाहं महाराज हतत्विषम् । निःस्वाध्यायवषट्कारां निर्भूषणवरस्त्रियम् ॥
अनभिज्ञेयरूपाणि द्वारकोपवनानि च । दृष्ट्वा शङ्कोपपन्नोऽहमपृच्छं हृदिकात्मजम् ॥
अस्वस्थनरनारीकमिदं वृष्णिपुरं भृशम् । किमिदं नरशार्दूल श्रोतुमिच्छामहे वयम् ॥
एवमुक्तस्तु स मया विस्तरेणेदमब्रवीत् । रोधं मोक्षं च शाल्वेन हार्दिक्यो राजसत्तम ॥
ततोऽहं कौरवश्रेष्ठ श्रुत्वा सर्वमशेषतः । विनाशे शाल्वराजस्य तदैवाकरवं मतिम् ॥
ततोऽहं भरतश्रेष्ठ समाश्वास्य पुरे जनम् । राजानमाहुकं चैव तथैवानकदुन्दुभिम् । सर्ववृष्णिप्रवीरांश्च हर्षयन्नब्रुवं तदा ॥
अप्रमादः सदा कार्यो नगरे यादवर्षभाः । शाल्वराजविनाशाय प्रयातं मां निबोधत ॥
नाहत्वा तं निवर्तिष्ये पुरीं द्वारवतीं प्रति । सशाल्वं सौभनगरं हत्वा द्रष्टास्मि वः पुनः । त्रिसामा हन्यतामेषा दुन्दुभिः शत्रुभीषणी ॥
ते मयाश्वासिता वीरा यथावद्भरतर्षभ । सर्वे मामब्रुवन्हृष्टाः प्रयाहि जहि शात्रवान् ॥
तैः प्रहृष्टात्मभिर्वीरैराशीर्भिरभिनन्दितः । वाचयित्वा द्विजश्रेष्ठान्प्रणम्य शिरसाहुकम् ॥
सैन्यसुग्रीवयुक्तेन रथेनानादयन्दिशः । प्रध्माप्य शङ्खप्रवरं पाञ्चजन्यमहं नृप ॥
प्रयातोऽस्मि नरव्याघ्र बलेन महता वृतः । कॢप्तेन चतुरङ्गेण बलेन जितकाशिना ॥
समतीत्य बहून्देशान्गिरींश्च बहुपादपान् । सरांसि सरितश्चैव मार्त्तिकावतमासदम् ॥
तत्राश्रौषं नरव्याघ्र शाल्वं नगरमन्तिकात् । प्रयातं सौभमास्थाय तमहं पृष्ठतोऽन्वयाम् ॥
ततः सागरमासाद्य कुक्षौ तस्य महोर्मिणः । समुद्रनाभ्यां शाल्वोऽभूत्सौभमास्थाय शत्रुहन् ॥
स समालोक्य दूरान्मां स्मयन्निव युधिष्ठिर । आह्वयामास दुष्टात्मा युद्धायैव मुहुर्मुहुः ॥
तस्य शार्ङ्गविनिर्मुक्तैर्बहुभिर्मर्मभेदिभिः । पुरं नासाद्यत शरैस्ततो मां रोष आविशत् ॥
स चापि पापप्रकृतिर्दैतेयापसदो नृप । मय्यवर्षत दुर्धर्षः शरधाराः सहस्रशः ॥
सैनिकान्मम सूतं च हयांश्च समवाकिरत् । अचिन्तयन्तस्तु शरान्वयं युध्याम भारत ॥
ततः शतसहस्राणि शराणां नतपर्वणाम् । चिक्षिपुः समरे वीरा मयि शाल्वपदानुगाः ॥
ते हयान्मे रथं चैव तदा दारुकमेव च । छादयामासुरसुरा बाणैर्मर्मविभेदिभिः ॥
न हया न रथो वीर न यन्ता मम दारुकः । अदृश्यन्त शरैश्छन्नास्तथाहं सैनिकाश्च मे ॥
ततोऽहमपि कौरव्य शराणामयुतान्बहून् । अभिमन्त्रितानां धनुषा दिव्येन विधिनाक्षिपम् ॥
न तत्र विषयस्त्वासीन्मम सैन्यस्य भारत । खे विषक्तं हि तत्सौभं क्रोशमात्र इवाभवत् ॥
ततस्ते प्रेक्षकाः सर्वे रङ्गवाट इव स्थिताः । हर्षयामासुरुच्चैर्मां सिंहनादतलस्वनैः ॥
मत्कार्मुकविनिर्मुक्ता दानवानां महारणे । अङ्गेषु रुधिराक्तास्ते विविशुः शलभा इव ॥
ततो हलहलाशब्दः सौभमध्ये व्यवर्धत । वध्यतां विशिखैस्तीक्ष्णैः पततां च महार्णवे ॥
ते निकृत्तभुजस्कन्धाः कबन्धाकृतिदर्शनाः । नदन्तो भैरवान्नादन्निपतन्ति स्म दानवाः ॥
ततो गोक्षीरकुन्देन्दुमृणालरजतप्रभम् । जलजं पाञ्चजन्यं वै प्राणेनाहमपूरयम् ॥
तान्दृष्ट्वा पतितांस्तत्र शाल्वः सौभपतिस्तदा । मायायुद्धेन महता योधयामास मां युधि ॥
ततो हुडहुडाः प्रासाः शक्तिशूलपरश्वधाः । पट्टिशाश्च भुशुण्ड्यश्च प्रापतन्ननिशं मयि ॥
तानहं माययैवाशु प्रतिगृह्य व्यनाशयम् । तस्यां हतायां मायायां गिरिशृङ्गैरयोधयत् ॥
ततोऽभवत्तम इव प्रभातमिव चाभवत् । दुर्दिनं सुदिनं चैव शीतमुष्णं च भारत ॥
एवं मायां विकुर्वाणो योधयामास मां रिपुः । विज्ञाय तदहं सर्वं माययैव व्यनाशयम् । यथाकालं तु युद्धेन व्यधमं सर्वतः शरैः ॥
ततो व्योम महाराज शतसूर्यमिवाभवत् । शतचन्द्रं च कौन्तेय सहस्रायुततारकम् ॥
ततो नाज्ञायत तदा दिवारात्रं तथा दिशः । ततोऽहं मोहमापन्नः प्रज्ञास्त्रं समयोजयम् । ततस्तदस्त्रमस्त्रेण विधूतं शरतूलवत् ॥
तथा तदभवद्युद्धं तुमुलं लोमहर्षणम् । लब्धालोकश्च राजेन्द्र पुनः शत्रुमयोधयम् ॥
← Previous (Ch. 317) Full Table of Contents Next (Ch. 319) →