Skip to main content
Search
MBh
Mahābhārata • Parva 3 (Vanaparva (Araṇyaka)) • Adhyāya 16

Araṇyakaparva (Vanaparva) Adhyāya 16

अरण्यकपर्व • अध्यायः 16

Araṇyakaparva (Vanaparva) Adhyāya 16 of the classical Mahābhārata with 24 verses.

Total: 24 Verses • Citations: MBh 3.16.1–24 • 250 Lexicon Terms
वासुदेव महाबाहो विस्तरेण महामते । सौभस्य वधमाचक्ष्व न हि तृप्यामि कथ्यतः ॥
हतं श्रुत्वा महाबाहो मया श्रौतश्रवं नृपम् । उपायाद्भरतश्रेष्ठ शाल्वो द्वारवतीं पुरीम् ॥
अरुन्धत्तां सुदुष्टात्मा सर्वतः पाण्डुनन्दन । शाल्वो वैहायसं चापि तत्पुरं व्यूह्य विष्ठितः ॥
तत्रस्थोऽथ महीपालो योधयामास तां पुरीम् । अभिसारेण सर्वेण तत्र युद्धमवर्तत ॥
पुरी समन्ताद्विहिता सपताका सतोरणा । सचक्रा सहुडा चैव सयन्त्रखनका तथा ॥
सोपतल्पप्रतोलीका साट्टाट्टालकगोपुरा । सकचग्रहणी चैव सोल्कालातावपोथिका ॥
सोष्ट्रिका भरतश्रेष्ठ सभेरीपणवानका । समित्तृणकुशा राजन्सशतघ्नीकलाङ्गला ॥
सभुशुण्ड्यश्मलगुडा सायुधा सपरश्वधा । लोहचर्मवती चापि साग्निः सहुडशृङ्गिका ॥
शास्त्रदृष्टेन विधिना संयुक्ता भरतर्षभ । द्रव्यैरनेकैर्विविधैर्गदसाम्बोद्धवादिभिः ॥
पुरुषैः कुरुशार्दूल समर्थैः प्रतिबाधने । अभिख्यातकुलैर्वीरैर्दृष्टवीर्यैश्च संयुगे ॥
मध्यमेन च गुल्मेन रक्षिता सारसंज्ञिता । उत्क्षिप्तगुल्मैश्च तथा हयैश्चैव पदातिभिः ॥
आघोषितं च नगरे न पातव्या सुरेति ह । प्रमादं परिरक्षद्भिरुग्रसेनोद्धवादिभिः ॥
प्रमत्तेष्वभिघातं हि कुर्याच्छाल्वो नराधिपः । इति कृत्वाप्रमत्तास्ते सर्वे वृष्ण्यन्धकाः स्थिताः ॥
आनर्ताश्च तथा सर्वे नटनर्तकगायनाः । बहिर्विवासिताः सर्वे रक्षद्भिर्वित्तसंचयान् ॥
संक्रमा भेदिताः सर्वे नावश्च प्रतिषेधिताः । परिखाश्चापि कौरव्य कीलैः सुनिचिताः कृताः ॥
उदपानाः कुरुश्रेष्ठ तथैवाप्यम्बरीषकाः । समन्तात्क्रोशमात्रं च कारिता विषमा च भूः ॥
प्रकृत्या विषमं दुर्गं प्रकृत्या च सुरक्षितम् । प्रकृत्या चायुधोपेतं विशेषेण तदानघ ॥
सुरक्षितं सुगुप्तं च सर्वायुधसमन्वितम् । तत्पुरं भरतश्रेष्ठ यथेन्द्रभवनं तथा ॥
न चामुद्रोऽभिनिर्याति न चामुद्रः प्रवेश्यते । वृष्ण्यन्धकपुरे राजंस्तदा सौभसमागमे ॥
अनु रथ्यासु सर्वासु चत्वरेषु च कौरव । बलं बभूव राजेन्द्र प्रभूतगजवाजिमत् ॥
दत्तवेतनभक्तं च दत्तायुधपरिच्छदम् । कृतापदानं च तदा बलमासीन्महाभुज ॥
न कुप्यवेतनी कश्चिन्न चातिक्रान्तवेतनी । नानुग्रहभृतः कश्चिन्न चादृष्टपराक्रमः ॥
एवं सुविहिता राजन्द्वारका भूरिदक्षिणैः । आहुकेन सुगुप्ता च राज्ञा राजीवलोचन ॥
← Previous (Ch. 312) Full Table of Contents Next (Ch. 314) →