Skip to main content
Search
MBh
Mahābhārata • Parva 3 (Vanaparva (Araṇyaka)) • Adhyāya 14

Araṇyakaparva (Vanaparva) Adhyāya 14

अरण्यकपर्व • अध्यायः 14

Araṇyakaparva (Vanaparva) Adhyāya 14 of the classical Mahābhārata with 18 verses.

Total: 18 Verses • Citations: MBh 3.14.1–18 • 250 Lexicon Terms
नेदं कृच्छ्रमनुप्राप्तो भवान्स्याद्वसुधाधिप । यद्यहं द्वारकायां स्यां राजन्संनिहितः पुरा ॥
आगच्छेयमहं द्यूतमनाहूतोऽपि कौरवैः । आम्बिकेयेन दुर्धर्ष राज्ञा दुर्योधनेन च ॥
वारयेयमहं द्यूतं बहून्दोषान्प्रदर्शयन् । भीष्मद्रोणौ समानाय्य कृपं बाह्लीकमेव च ॥
वैचित्रवीर्यं राजानमलं द्यूतेन कौरव । पुत्राणां तव राजेन्द्र त्वन्निमित्तमिति प्रभो ॥
तत्र वक्ष्याम्यहं दोषान्यैर्भवानवरोपितः । वीरसेनसुतो यैश्च राज्यात्प्रभ्रंशितः पुरा ॥
अभक्षितविनाशं च देवनेन विशां पते । सातत्यं च प्रसङ्गस्य वर्णयेयं यथातथम् ॥
स्त्रियोऽक्षा मृगया पानमेतत्कामसमुत्थितम् । व्यसनं चतुष्टयं प्रोक्तं यै राजन्भ्रश्यते श्रियः ॥
तत्र सर्वत्र वक्तव्यं मन्यन्ते शास्त्रकोविदाः । विशेषतश्च वक्तव्यं द्यूते पश्यन्ति तद्विदः ॥
एकाह्ना द्रव्यनाशोऽत्र ध्रुवं व्यसनमेव च । अभुक्तनाशश्चार्थानां वाक्पारुष्यं च केवलम् ॥
एतच्चान्यच्च कौरव्य प्रसङ्गि कटुकोदयम् । द्यूते ब्रूयां महाबाहो समासाद्याम्बिकासुतम् ॥
एवमुक्तो यदि मया गृह्णीयाद्वचनं मम । अनामयं स्याद्धर्मस्य कुरूणां कुरुनन्दन ॥
न चेत्स मम राजेन्द्र गृह्णीयान्मधुरं वचः । पथ्यं च भरतश्रेष्ठ निगृह्णीयां बलेन तम् ॥
अथैनानभिनीयैवं सुहृदो नाम दुर्हृदः । सभासदश्च तान्सर्वान्भेदयेयं दुरोदरान् ॥
असांनिध्यं तु कौरव्य ममानर्तेष्वभूत्तदा । येनेदं व्यसनं प्राप्ता भवन्तो द्यूतकारितम् ॥
सोऽहमेत्य कुरुश्रेष्ठ द्वारकां पाण्डुनन्दन । अश्रौषं त्वां व्यसनिनं युयुधानाद्यथातथम् ॥
श्रुत्वैव चाहं राजेन्द्र परमोद्विग्नमानसः । तूर्णमभ्यागतोऽस्मि त्वां द्रष्टुकामो विशां पते ॥
अहो कृच्छ्रमनुप्राप्ताः सर्वे स्म भरतर्षभ । ये वयं त्वां व्यसनिनं पश्यामः सह सोदरैः ॥
← Previous (Ch. 310) Full Table of Contents Next (Ch. 312) →