Skip to main content
Search
MBh
Mahābhārata • Parva 3 (Vanaparva (Araṇyaka)) • Adhyāya 13

Araṇyakaparva (Vanaparva) Adhyāya 13

अरण्यकपर्व • अध्यायः 13

Araṇyakaparva (Vanaparva) Adhyāya 13 of the classical Mahābhārata with 121 verses.

Total: 121 Verses • Citations: MBh 3.13.1–121 • 250 Lexicon Terms • Page 1 of 5 (Verses 30 shown)
भोजाः प्रव्रजिताञ्श्रुत्वा वृष्णयश्चान्धकैः सह । पाण्डवान्दुःखसंतप्तान्समाजग्मुर्महावने ॥
पाञ्चालस्य च दायादा धृष्टकेतुश्च चेदिपः । केकयाश्च महावीर्या भ्रातरो लोकविश्रुताः ॥
वने तेऽभिययुः पार्थान्क्रोधामर्शसमन्विताः । गर्हयन्तो धार्तराष्ट्रान्किं कुर्म इति चाब्रुवन् ॥
वासुदेवं पुरस्कृत्य सर्वे ते क्षत्रियर्षभाः । परिवार्योपविविशुर्धर्मराजं युधिष्ठिरम् ॥
दुर्योधनस्य कर्णस्य शकुनेश्च दुरात्मनः । दुःशासनचतुर्थानां भूमिः पास्यति शोणितम् ॥
ततः सर्वेऽभिषिञ्चामो धर्मराजं युधिष्ठिरम् । निकृत्योपचरन्वध्य एष धर्मः सनातनः ॥
पार्थानामभिषङ्गेण तथा क्रुद्धं जनार्दनम् । अर्जुनः शमयामासा दिधक्षन्तमिव प्रजाः ॥
संक्रुद्धं केशवं दृष्ट्वा पूर्वदेहेषु फल्गुनः । कीर्तयामास कर्माणि सत्यकीर्तेर्महात्मनः ॥
पुरुषस्याप्रमेयस्य सत्यस्यामिततेजसः । प्रजापतिपतेर्विष्णोर्लोकनाथस्य धीमतः ॥
दश वर्षसहस्राणि यत्रसायंगृहो मुनिः । व्यचरस्त्वं पुरा कृष्ण पर्वते गन्धमादने ॥
दश वर्षसहस्राणि दश वर्षशतानि च । पुष्करेष्ववसः कृष्ण त्वमपो भक्षयन्पुरा ॥
ऊर्ध्वबाहुर्विशालायां बदर्यां मधुसूदन । अतिष्ठ एकपादेन वायुभक्षः शतं समाः ॥
अपकृष्टोत्तरासङ्गः कृशो धमनिसंततः । आसीः कृष्ण सरस्वत्यां सत्रे द्वादशवार्षिके ॥
प्रभासं चाप्यथासाद्य तीर्थं पुण्यजनोचितम् । तथा कृष्ण महातेजा दिव्यं वर्षसहस्रकम् । आतिष्ठस्तप एकेन पादेन नियमे स्थितः ॥
क्षेत्रज्ञः सर्वभूतानामादिरन्तश्च केशव । निधानं तपसां कृष्ण यज्ञस्त्वं च सनातनः ॥
निहत्य नरकं भौममाहृत्य मणिकुण्डले । प्रथमोत्पादितं कृष्ण मेध्यमश्वमवासृजः ॥
कृत्वा तत्कर्म लोकानामृषभः सर्वलोकजित् । अवधीस्त्वं रणे सर्वान्समेतान्दैत्यदानवान् ॥
ततः सर्वेश्वरत्वं च संप्रदाय शचीपतेः । मानुषेषु महाबाहो प्रादुर्भूतोऽसि केशव ॥
स त्वं नारायणो भूत्वा हरिरासीः परंतप । ब्रह्मा सोमश्च सूर्यश्च धर्मो धाता यमोऽनलः ॥
वायुर्वैश्रवणो रुद्रः कालः खं पृथिवी दिशः । अजश्चराचरगुरुः स्रष्टा त्वं पुरुषोत्तम ॥
तुरायणादिभिर्देव क्रतुभिर्भूरिदक्षिणैः । अयजो भूरितेजा वै कृष्ण चैत्ररथे वने ॥
शतं शतसहस्राणि सुवर्णस्य जनार्दन । एकैकस्मिंस्तदा यज्ञे परिपूर्णानि भागशः ॥
अदितेरपि पुत्रत्वमेत्य यादवनन्दन । त्वं विष्णुरिति विख्यात इन्द्रादवरजो भुवि ॥
शिशुर्भूत्वा दिवं खं च पृथिवीं च परंतप । त्रिभिर्विक्रमणैः कृष्ण क्रान्तवानसि तेजसा ॥
संप्राप्य दिवमाकाशमादित्यसदने स्थितः । अत्यरोचश्च भूतात्मन्भास्करं स्वेन तेजसा ॥
सादिता मौरवाः पाशा निसुन्दनरकौ हतौ । कृतः क्षेमः पुनः पन्थाः पुरं प्राग्ज्योतिषं प्रति ॥
जारूथ्यामाहुतिः क्राथः शिशुपालो जनैः सह । भीमसेनश्च शैब्यश्च शतधन्वा च निर्जितः ॥
तथा पर्जन्यघोषेण रथेनादित्यवर्चसा । अवाक्षीर्महिषीं भोज्यां रणे निर्जित्य रुक्मिणम् ॥
इन्द्रद्युम्नो हतः कोपाद्यवनश्च कशेरुमान् । हतः सौभपतिः शाल्वस्त्वया सौभं च पातितम् ॥
← Previous (Ch. 309) Full Table of Contents Next (Ch. 311) →