Skip to main content
Search
MBh
Mahābhārata • Parva 2 (Sabhāparva) • Adhyāya 59

Sabhāparva Adhyāya 59

सभापर्व • अध्यायः 59

Sabhāparva Adhyāya 59 of the classical Mahābhārata with 13 verses.

Total: 13 Verses • Citations: MBh 2.59.1–13 • 250 Lexicon Terms
एहि क्षत्तर्द्रौपदीमानयस्व; प्रियां भार्यां संमतां पाण्डवानाम् । संमार्जतां वेश्म परैतु शीघ्र;मानन्दो नः सह दासीभिरस्तु ॥
दुर्विभाव्यं भवति त्वादृशेन; न मन्द संबुध्यसि पाशबद्धः । प्रपाते त्वं लम्बमानो न वेत्सि; व्याघ्रान्मृगः कोपयसेऽतिबाल्यात् ॥
आशीविषाः शिरसि ते पूर्णकोशा महाविषाः । मा कोपिष्ठाः सुमन्दात्मन्मा गमस्त्वं यमक्षयम् ॥
न हि दासीत्वमापन्ना कृष्णा भवति भारत । अनीशेन हि राज्ञैषा पणे न्यस्तेति मे मतिः ॥
अयं धत्ते वेणुरिवात्मघाती; फलं राजा धृतराष्ट्रस्य पुत्रः । द्यूतं हि वैराय महाभयाय; पक्वो न बुध्यत्ययमन्तकाले ॥
नारुंतुदः स्यान्न नृशंसवादी; न हीनतः परमभ्याददीत । ययास्य वाचा पर उद्विजेत; न तां वदेद्रुशतीं पापलोक्याम् ॥
समुच्चरन्त्यतिवादा हि वक्त्रा;द्यैराहतः शोचति रात्र्यहानि । परस्य नामर्मसु ते पतन्ति; तान्पण्डितो नावसृजेत्परेषु ॥
अजो हि शस्त्रमखनत्किलैकः; शस्त्रे विपन्ने पद्भिरपास्य भूमिम् । निकृन्तनं स्वस्य कण्ठस्य घोरं; तद्वद्वैरं मा खनीः पाण्डुपुत्रैः ॥
न किंचिदीड्यं प्रवदन्ति पापं; वनेचरं वा गृहमेधिनं वा । तपस्विनं संपरिपूर्णविद्यं; भषन्ति हैवं श्वनराः सदैव ॥
द्वारं सुघोरं नरकस्य जिह्मं; न बुध्यसे धृतराष्ट्रस्य पुत्र । त्वामन्वेतारो बहवः कुरूणां; द्यूतोदये सह दुःशासनेन ॥
मज्जन्त्यलाबूनि शिलाः प्लवन्ते; मुह्यन्ति नावोऽम्भसि शश्वदेव । मूढो राजा धृतराष्ट्रस्य पुत्रो; न मे वाचः पथ्यरूपाः शृणोति ॥
अन्तो नूनं भवितायं कुरूणां; सुदारुणः सर्वहरो विनाशः । वाचः काव्याः सुहृदां पथ्यरूपा; न श्रूयन्ते वर्धते लोभ एव ॥
← Previous (Ch. 283) Full Table of Contents Next (Ch. 285) →