Skip to main content
Search
MBh
Mahābhārata • Parva 2 (Sabhāparva) • Adhyāya 52

Sabhāparva Adhyāya 52

सभापर्व • अध्यायः 52

Sabhāparva Adhyāya 52 of the classical Mahābhārata with 38 verses.

Total: 38 Verses • Citations: MBh 2.52.1–38 • 250 Lexicon Terms
ततः प्रायाद्विदुरोऽश्वैरुदारै;र्महाजवैर्बलिभिः साधुदान्तैः । बलान्नियुक्तो धृतराष्ट्रेण राज्ञा; मनीषिणां पाण्डवानां सकाशम् ॥
सोऽभिपत्य तदध्वानमासाद्य नृपतेः पुरम् । प्रविवेश महाबुद्धिः पूज्यमानो द्विजातिभिः ॥
स राजगृहमासाद्य कुबेरभवनोपमम् । अभ्यगच्छत धर्मात्मा धर्मपुत्रं युधिष्ठिरम् ॥
तं वै राजा सत्यधृतिर्महात्मा; अजातशत्रुर्विदुरं यथावत् । पूजापूर्वं प्रतिगृह्याजमीढ;स्ततोऽपृच्छद्धृतराष्ट्रं सपुत्रम् ॥
विज्ञायते ते मनसो न प्रहर्षः; कच्चित्क्षत्तः कुशलेनागतोऽसि । कच्चित्पुत्राः स्थविरस्यानुलोमा; वशानुगाश्चापि विशोऽपि कच्चित् ॥
राजा महात्मा कुशली सपुत्र; आस्ते वृतो ज्ञातिभिरिन्द्रकल्पैः । प्रीतो राजन्पुत्रगणैर्विनीतै;र्विशोक एवात्मरतिर्दृढात्मा ॥
इदं तु त्वां कुरुराजोऽभ्युवाच; पूर्वं पृष्ट्वा कुशलं चाव्ययं च । इयं सभा त्वत्सभातुल्यरूपा; भ्रातॄणां ते पश्य तामेत्य पुत्र ॥
समागम्य भ्रातृभिः पार्थ तस्यां; सुहृद्द्यूतं क्रियतां रम्यतां च । प्रीयामहे भवतः संगमेन; समागताः कुरवश्चैव सर्वे ॥
दुरोदरा विहिता ये तु तत्र; महात्मना धृतराष्ट्रेण राज्ञा । तान्द्रक्ष्यसे कितवान्संनिविष्टा;नित्यागतोऽहं नृपते तज्जुषस्व ॥
द्यूते क्षत्तः कलहो विद्यते नः; को वै द्यूतं रोचयेद्बुध्यमानः । किं वा भवान्मन्यते युक्तरूपं; भवद्वाक्ये सर्व एव स्थिताः स्म ॥
जानाम्यहं द्यूतमनर्थमूलं; कृतश्च यत्नोऽस्य मया निवारणे । राजा तु मां प्राहिणोत्त्वत्सकाशं; श्रुत्वा विद्वञ्श्रेय इहाचरस्व ॥
के तत्रान्ये कितवा दीव्यमाना; विना राज्ञो धृतराष्ट्रस्य पुत्रैः । पृच्छामि त्वां विदुर ब्रूहि नस्ता;न्यैर्दीव्यामः शतशः संनिपत्य ॥
गान्धारराजः शकुनिर्विशां पते; राजातिदेवी कृतहस्तो मताक्षः । विविंशतिश्चित्रसेनश्च राजा; सत्यव्रतः पुरुमित्रो जयश्च ॥
महाभयाः कितवाः संनिविष्टा; मायोपधा देवितारोऽत्र सन्ति । धात्रा तु दिष्टस्य वशे किलेदं; नादेवनं कितवैरद्य तैर्मे ॥
नाहं राज्ञो धृतराष्ट्रस्य शासना;न्न गन्तुमिच्छामि कवे दुरोदरम् । इष्टो हि पुत्रस्य पिता सदैव; तदस्मि कर्ता विदुरात्थ मां यथा ॥
न चाकामः शकुनिना देविताहं; न चेन्मां धृष्णुराह्वयिता सभायाम् । आहूतोऽहं न निवर्ते कदाचि;त्तदाहितं शाश्वतं वै व्रतं मे ॥
एवमुक्त्वा विदुरं धर्मराजः; प्रायात्रिकं सर्वमाज्ञाप्य तूर्णम् । प्रायाच्छ्वोभूते सगणः सानुयात्रः; सह स्त्रीभिर्द्रौपदीमादिकृत्वा ॥
दैवं प्रज्ञां तु मुष्णाति तेजश्चक्षुरिवापतत् । धातुश्च वशमन्वेति पाशैरिव नरः सितः ॥
इत्युक्त्वा प्रययौ राजा सह क्षत्त्रा युधिष्ठिरः । अमृष्यमाणस्तत्पार्थः समाह्वानमरिंदमः ॥
बाह्लिकेन रथं दत्तमास्थाय परवीरहा । परिच्छन्नो ययौ पार्थो भ्रातृभिः सह पाण्डवः ॥
राजश्रिया दीप्यमानो ययौ ब्रह्मपुरःसरः । धृतराष्ट्रेण चाहूतः कालस्य समयेन च ॥
स हास्तिनपुरं गत्वा धृतराष्ट्रगृहं ययौ । समियाय च धर्मात्मा धृतराष्ट्रेण पाण्डवः ॥
तथा द्रोणेन भीष्मेण कर्णेन च कृपेण च । समियाय यथान्यायं द्रौणिना च विभुः सह ॥
समेत्य च महाबाहुः सोमदत्तेन चैव ह । दुर्योधनेन शल्येन सौबलेन च वीर्यवान् ॥
ये चान्ये तत्र राजानः पूर्वमेव समागताः । जयद्रथेन च तथा कुरुभिश्चापि सर्वशः ॥
ततः सर्वैर्महाबाहुर्भ्रातृभिः परिवारितः । प्रविवेश गृहं राज्ञो धृतराष्ट्रस्य धीमतः ॥
ददर्श तत्र गान्धारीं देवीं पतिमनुव्रताम् । स्नुषाभिः संवृतां शश्वत्ताराभिरिव रोहिणीम् ॥
अभिवाद्य स गान्धारीं तया च प्रतिनन्दितः । ददर्श पितरं वृद्धं प्रज्ञाचक्षुषमीश्वरम् ॥
राज्ञा मूर्धन्युपाघ्रातास्ते च कौरवनन्दनाः । चत्वारः पाण्डवा राजन्भीमसेनपुरोगमाः ॥
ततो हर्षः समभवत्कौरवाणां विशां पते । तान्दृष्ट्वा पुरुषव्याघ्रान्पाण्डवान्प्रियदर्शनान् ॥
विविशुस्तेऽभ्यनुज्ञाता रत्नवन्ति गृहाण्यथ । ददृशुश्चोपयातास्तान्द्रौपदीप्रमुखाः स्त्रियः ॥
याज्ञसेन्याः परामृद्धिं दृष्ट्वा प्रज्वलितामिव । स्नुषास्ता धृतराष्ट्रस्य नातिप्रमनसोऽभवन् ॥
ततस्ते पुरुषव्याघ्रा गत्वा स्त्रीभिस्तु संविदम् । कृत्वा व्यायामपूर्वाणि कृत्यानि प्रतिकर्म च ॥
ततः कृताह्निकाः सर्वे दिव्यचन्दनरूषिताः । कल्याणमनसश्चैव ब्राह्मणान्स्वस्ति वाच्य च ॥
मनोज्ञमशनं भुक्त्वा विविशुः शरणान्यथ । उपगीयमाना नारीभिरस्वपन्कुरुनन्दनाः ॥
जगाम तेषां सा रात्रिः पुण्या रतिविहारिणाम् । स्तूयमानाश्च विश्रान्ताः काले निद्रामथात्यजन् ॥
सुखोषितास्तां रजनीं प्रातः सर्वे कृताह्निकाः । सभां रम्यां प्रविविशुः कितवैरभिसंवृताम् ॥
← Previous (Ch. 276) Full Table of Contents Next (Ch. 278) →