Skip to main content
Search
MBh
Mahābhārata • Parva 2 (Sabhāparva) • Adhyāya 48

Sabhāparva Adhyāya 48

सभापर्व • अध्यायः 48

Sabhāparva Adhyāya 48 of the classical Mahābhārata with 43 verses.

Total: 43 Verses • Citations: MBh 2.48.1–43 • 250 Lexicon Terms • Page 1 of 2 (Verses 30 shown)
दायं तु तस्मै विविधं शृणु मे गदतोऽनघ । यज्ञार्थं राजभिर्दत्तं महान्तं धनसंचयम् ॥
मेरुमन्दरयोर्मध्ये शैलोदामभितो नदीम् । ये ते कीचकवेणूनां छायां रम्यामुपासते ॥
खशा एकाशनाज्योहाः प्रदरा दीर्घवेणवः । पशुपाश्च कुणिन्दाश्च तङ्गणाः परतङ्गणाः ॥
ते वै पिपीलिकं नाम वरदत्तं पिपीलिकैः । जातरूपं द्रोणमेयमहार्षुः पुञ्जशो नृपाः ॥
कृष्णाँल्ललामांश्चमराञ्शुक्लांश्चान्याञ्शशिप्रभान् । हिमवत्पुष्पजं चैव स्वादु क्षौद्रं तथा बहु ॥
उत्तरेभ्यः कुरुभ्यश्चाप्यपोढं माल्यमम्बुभिः । उत्तरादपि कैलासादोषधीः सुमहाबलाः ॥
पार्वतीया बलिं चान्यमाहृत्य प्रणताः स्थिताः । अजातशत्रोर्नृपतेर्द्वारि तिष्ठन्ति वारिताः ॥
ये परार्धे हिमवतः सूर्योदयगिरौ नृपाः । वारिषेणसमुद्रान्ते लोहित्यमभितश्च ये । फलमूलाशना ये च किराताश्चर्मवाससः ॥
चन्दनागुरुकाष्ठानां भारान्कालीयकस्य च । चर्मरत्नसुवर्णानां गन्धानां चैव राशयः ॥
कैरातिकानामयुतं दासीनां च विशां पते । आहृत्य रमणीयार्थान्दूरजान्मृगपक्षिणः ॥
निचितं पर्वतेभ्यश्च हिरण्यं भूरिवर्चसम् । बलिं च कृत्स्नमादाय द्वारि तिष्ठन्ति वारिताः ॥
कायव्या दरदा दार्वाः शूरा वैयमकास्तथा । औदुम्बरा दुर्विभागाः पारदा बाह्लिकैः सह ॥
काश्मीराः कुन्दमानाश्च पौरका हंसकायनाः । शिबित्रिगर्तयौधेया राजन्या मद्रकेकयाः ॥
अम्बष्ठाः कौकुरास्तार्क्ष्या वस्त्रपाः पह्लवैः सह । वसातयः समौलेयाः सह क्षुद्रकमालवैः ॥
शौण्डिकाः कुक्कुराश्चैव शकाश्चैव विशां पते । अङ्गा वङ्गाश्च पुण्ड्राश्च शानवत्या गयास्तथा ॥
सुजातयः श्रेणिमन्तः श्रेयांसः शस्त्रपाणयः । आहार्षुः क्षत्रिया वित्तं शतशोऽजातशत्रवे ॥
वङ्गाः कलिङ्गपतयस्ताम्रलिप्ताः सपुण्ड्रकाः । दुकूलं कौशिकं चैव पत्रोर्णं प्रावरानपि ॥
तत्र स्म द्वारपालैस्ते प्रोच्यन्ते राजशासनात् । कृतकाराः सुबलयस्ततो द्वारमवाप्स्यथ ॥
ईषादन्तान्हेमकक्षान्पद्मवर्णान्कुथावृतान् । शैलाभान्नित्यमत्तांश्च अभितः काम्यकं सरः ॥
दत्त्वैकैको दशशतान्कुञ्जरान्कवचावृतान् । क्षमावतः कुलीनांश्च द्वारेण प्राविशंस्ततः ॥
एते चान्ये च बहवो गणा दिग्भ्यः समागताः । अन्यैश्चोपाहृतान्यत्र रत्नानीह महात्मभिः ॥
राजा चित्ररथो नाम गन्धर्वो वासवानुगः । शतानि चत्वार्यददद्धयानां वातरंहसाम् ॥
तुम्बुरुस्तु प्रमुदितो गन्धर्वो वाजिनां शतम् । आम्रपत्रसवर्णानामददद्धेममालिनाम् ॥
कृती तु राजा कौरव्य शूकराणां विशां पते । अददद्गजरत्नानां शतानि सुबहून्यपि ॥
विराटेन तु मत्स्येन बल्यर्थं हेममालिनाम् । कुञ्जराणां सहस्रे द्वे मत्तानां समुपाहृते ॥
पांशुराष्ट्राद्वसुदानो राजा षड्विंशतिं गजान् । अश्वानां च सहस्रे द्वे राजन्काञ्चनमालिनाम् ॥
जवसत्त्वोपपन्नानां वयःस्थानां नराधिप । बलिं च कृत्स्नमादाय पाण्डवेभ्यो न्यवेदयत् ॥
यज्ञसेनेन दासीनां सहस्राणि चतुर्दश । दासानामयुतं चैव सदाराणां विशां पते ॥
गजयुक्ता महाराज रथाः षड्विंशतिस्तथा । राज्यं च कृत्स्नं पार्थेभ्यो यज्ञार्थं वै निवेदितम् ॥
← Previous (Ch. 272) Full Table of Contents Next (Ch. 274) →