Skip to main content
Search
MBh
Mahābhārata • Parva 2 (Sabhāparva) • Adhyāya 41

Sabhāparva Adhyāya 41

सभापर्व • अध्यायः 41

Sabhāparva Adhyāya 41 of the classical Mahābhārata with 34 verses.

Total: 34 Verses • Citations: MBh 2.41.1–34 • 250 Lexicon Terms
नैषा चेदिपतेर्बुद्धिर्यया त्वाह्वयतेऽच्युतम् । नूनमेष जगद्भर्तुः कृष्णस्यैव विनिश्चयः ॥
को हि मां भीमसेनाद्य क्षितावर्हति पार्थिवः । क्षेप्तुं दैवपरीतात्मा यथैष कुलपांसनः ॥
एष ह्यस्य महाबाहो तेजोंशश्च हरेर्ध्रुवम् । तमेव पुनरादातुमिच्छत्पृथुयशा हरिः ॥
येनैष कुरुशार्दूल शार्दूल इव चेदिराट् । गर्जत्यतीव दुर्बुद्धिः सर्वानस्मानचिन्तयन् ॥
ततो न ममृषे चैद्यस्तद्भीष्मवचनं तदा । उवाच चैनं संक्रुद्धः पुनर्भीष्ममथोत्तरम् ॥
द्विषतां नोऽस्तु भीष्मैष प्रभावः केशवस्य यः । यस्य संस्तववक्ता त्वं बन्दिवत्सततोत्थितः ॥
संस्तवाय मनो भीष्म परेषां रमते सदा । यदि संस्तौषि राज्ञस्त्वमिमं हित्वा जनार्दनम् ॥
दरदं स्तुहि बाह्लीकमिमं पार्थिवसत्तमम् । जायमानेन येनेयमभवद्दारिता मही ॥
वङ्गाङ्गविषयाध्यक्षं सहस्राक्षसमं बले । स्तुहि कर्णमिमं भीष्म महाचापविकर्षणम् ॥
द्रोणं द्रौणिं च साधु त्वं पितापुत्रौ महारथौ । स्तुहि स्तुत्याविमौ भीष्म सततं द्विजसत्तमौ ॥
ययोरन्यतरो भीष्म संक्रुद्धः सचराचराम् । इमां वसुमतीं कुर्यादशेषामिति मे मतिः ॥
द्रोणस्य हि समं युद्धे न पश्यामि नराधिपम् । अश्वत्थाम्नस्तथा भीष्म न चैतौ स्तोतुमिच्छसि ॥
शल्यादीनपि कस्मात्त्वं न स्तौषि वसुधाधिपान् । स्तवाय यदि ते बुद्धिर्वर्तते भीष्म सर्वदा ॥
किं हि शक्यं मया कर्तुं यद्वृद्धानां त्वया नृप । पुरा कथयतां नूनं न श्रुतं धर्मवादिनाम् ॥
आत्मनिन्दात्मपूजा च परनिन्दा परस्तवः । अनाचरितमार्याणां वृत्तमेतच्चतुर्विधम् ॥
यदस्तव्यमिमं शश्वन्मोहात्संस्तौषि भक्तितः । केशवं तच्च ते भीष्म न कश्चिदनुमन्यते ॥
कथं भोजस्य पुरुषे वर्गपाले दुरात्मनि । समावेशयसे सर्वं जगत्केवलकाम्यया ॥
अथ वैषा न ते भक्तिः प्रकृतिं याति भारत । मयैव कथितं पूर्वं भूलिङ्गशकुनिर्यथा ॥
भूलिङ्गशकुनिर्नाम पार्श्वे हिमवतः परे । भीष्म तस्याः सदा वाचः श्रूयन्तेऽर्थविगर्हिताः ॥
मा साहसमितीदं सा सततं वाशते किल । साहसं चात्मनातीव चरन्ती नावबुध्यते ॥
सा हि मांसार्गलं भीष्म मुखात्सिंहस्य खादतः । दन्तान्तरविलग्नं यत्तदादत्तेऽल्पचेतना ॥
इच्छतः सा हि सिंहस्य भीष्म जीवत्यसंशयम् । तद्वत्त्वमप्यधर्मज्ञ सदा वाचः प्रभाषसे ॥
इच्छतां पार्थिवेन्द्राणां भीष्म जीवस्यसंशयम् । लोकविद्विष्टकर्मा हि नान्योऽस्ति भवता समः ॥
ततश्चेदिपतेः श्रुत्वा भीष्मः स कटुकं वचः । उवाचेदं वचो राजंश्चेदिराजस्य शृण्वतः ॥
इच्छतां किल नामाहं जीवाम्येषां महीक्षिताम् । योऽहं न गणयाम्येतांस्तृणानीव नराधिपान् ॥
एवमुक्ते तु भीष्मेण ततः संचुक्रुधुर्नृपाः । केचिज्जहृषिरे तत्र केचिद्भीष्मं जगर्हिरे ॥
केचिदूचुर्महेष्वासाः श्रुत्वा भीष्मस्य तद्वचः । पापोऽवलिप्तो वृद्धश्च नायं भीष्मोऽर्हति क्षमाम् ॥
हन्यतां दुर्मतिर्भीष्मः पशुवत्साध्वयं नृपैः । सर्वैः समेत्य संरब्धैर्दह्यतां वा कटाग्निना ॥
इति तेषां वचः श्रुत्वा ततः कुरुपितामहः । उवाच मतिमान्भीष्मस्तानेव वसुधाधिपान् ॥
उक्तस्योक्तस्य नेहान्तमहं समुपलक्षये । यत्तु वक्ष्यामि तत्सर्वं शृणुध्वं वसुधाधिपाः ॥
पशुवद्घातनं वा मे दहनं वा कटाग्निना । क्रियतां मूर्ध्नि वो न्यस्तं मयेदं सकलं पदम् ॥
एष तिष्ठति गोविन्दः पूजितोऽस्माभिरच्युतः । यस्य वस्त्वरते बुद्धिर्मरणाय स माधवम् ॥
कृष्णमाह्वयतामद्य युद्धे शार्ङ्गगदाधरम् । यावदस्यैव देवस्य देहं विशतु पातितः ॥
← Previous (Ch. 265) Full Table of Contents Next (Ch. 267) →