Skip to main content
Search
MBh
Mahābhārata • Parva 2 (Sabhāparva) • Adhyāya 40

Sabhāparva Adhyāya 40

सभापर्व • अध्यायः 40

Sabhāparva Adhyāya 40 of the classical Mahābhārata with 24 verses.

Total: 24 Verses • Citations: MBh 2.40.1–24 • 250 Lexicon Terms
चेदिराजकुले जातस्त्र्यक्ष एष चतुर्भुजः । रासभारावसदृशं रुराव च ननाद च ॥
तेनास्य मातापितरौ त्रेसतुस्तौ सबान्धवौ । वैकृतं तच्च तौ दृष्ट्वा त्यागाय कुरुतां मतिम् ॥
ततः सभार्यं नृपतिं सामात्यं सपुरोहितम् । चिन्तासंमूढहृदयं वागुवाचाशरीरिणी ॥
एष ते नृपते पुत्रः श्रीमाञ्जातो महाबलः । तस्मादस्मान्न भेतव्यमव्यग्रः पाहि वै शिशुम् ॥
न चैवैतस्य मृत्युस्त्वं न कालः प्रत्युपस्थितः । मृत्युर्हन्तास्य शस्त्रेण स चोत्पन्नो नराधिप ॥
संश्रुत्योदाहृतं वाक्यं भूतमन्तर्हितं ततः । पुत्रस्नेहाभिसंतप्ता जननी वाक्यमब्रवीत् ॥
येनेदमीरितं वाक्यं ममैव तनयं प्रति । प्राञ्जलिस्तं नमस्यामि ब्रवीतु स पुनर्वचः ॥
श्रोतुमिच्छामि पुत्रस्य कोऽस्य मृत्युर्भविष्यति । अन्तर्हितं ततो भूतमुवाचेदं पुनर्वचः ॥
येनोत्सङ्गे गृहीतस्य भुजावभ्यधिकावुभौ । पतिष्यतः क्षितितले पञ्चशीर्षाविवोरगौ ॥
तृतीयमेतद्बालस्य ललाटस्थं च लोचनम् । निमज्जिष्यति यं दृष्ट्वा सोऽस्य मृत्युर्भविष्यति ॥
त्र्यक्षं चतुर्भुजं श्रुत्वा तथा च समुदाहृतम् । धरण्यां पार्थिवाः सर्वे अभ्यगच्छन्दिदृक्षवः ॥
तान्पूजयित्वा संप्राप्तान्यथार्हं स महीपतिः । एकैकस्य नृपस्याङ्के पुत्रमारोपयत्तदा ॥
एवं राजसहस्राणां पृथक्त्वेन यथाक्रमम् । शिशुरङ्के समारूढो न तत्प्राप निदर्शनम् ॥
ततश्चेदिपुरं प्राप्तौ संकर्षणजनार्दनौ । यादवौ यादवीं द्रष्टुं स्वसारं तां पितुस्तदा ॥
अभिवाद्य यथान्यायं यथाज्येष्ठं नृपांश्च तान् । कुशलानामयं पृष्ट्वा निषण्णौ रामकेशवौ ॥
अभ्यर्चितौ तदा वीरौ प्रीत्या चाभ्यधिकं ततः । पुत्रं दामोदरोत्सङ्गे देवी संन्यदधात्स्वयम् ॥
न्यस्तमात्रस्य तस्याङ्के भुजावभ्यधिकावुभौ । पेततुस्तच्च नयनं निममज्ज ललाटजम् ॥
तद्दृष्ट्वा व्यथिता त्रस्ता वरं कृष्णमयाचत । ददस्व मे वरं कृष्ण भयार्ताया महाभुज ॥
त्वं ह्यार्तानां समाश्वासो भीतानामभयंकरः । पितृष्वसारं मा भैषीरित्युवाच जनार्दनः ॥
ददानि कं वरं किं वा करवाणि पितृष्वसः । शक्यं वा यदि वाशक्यं करिष्यामि वचस्तव ॥
एवमुक्ता ततः कृष्णमब्रवीद्यदुनन्दनम् । शिशुपालस्यापराधान्क्षमेथास्त्वं महाबल ॥
अपराधशतं क्षाम्यं मया ह्यस्य पितृष्वसः । पुत्रस्य ते वधार्हाणां मा त्वं शोके मनः कृथाः ॥
एवमेष नृपः पापः शिशुपालः सुमन्दधीः । त्वां समाह्वयते वीर गोविन्दवरदर्पितः ॥
← Previous (Ch. 264) Full Table of Contents Next (Ch. 266) →