Skip to main content
Search
MBh
Mahābhārata • Parva 2 (Sabhāparva) • Adhyāya 39

Sabhāparva Adhyāya 39

सभापर्व • अध्यायः 39

Sabhāparva Adhyāya 39 of the classical Mahābhārata with 21 verses.

Total: 21 Verses • Citations: MBh 2.39.1–21 • 250 Lexicon Terms
स मे बहुमतो राजा जरासंधो महाबलः । योऽनेन युद्धं नेयेष दासोऽयमिति संयुगे ॥
केशवेन कृतं यत्तु जरासंधवधे तदा । भीमसेनार्जुनाभ्यां च कस्तत्साध्विति मन्यते ॥
अद्वारेण प्रविष्टेन छद्मना ब्रह्मवादिना । दृष्टः प्रभावः कृष्णेन जरासंधस्य धीमतः ॥
येन धर्मात्मनात्मानं ब्रह्मण्यमभिजानता । नैषितं पाद्यमस्मै तद्दातुमग्रे दुरात्मने ॥
भुज्यतामिति तेनोक्ताः कृष्णभीमधनंजयाः । जरासंधेन कौरव्य कृष्णेन विकृतं कृतम् ॥
यद्ययं जगतः कर्ता यथैनं मूर्ख मन्यसे । कस्मान्न ब्राह्मणं सम्यगात्मानमवगच्छति ॥
इदं त्वाश्चर्यभूतं मे यदिमे पाण्डवास्त्वया । अपकृष्टाः सतां मार्गान्मन्यन्ते तच्च साध्विति ॥
अथ वा नैतदाश्चर्यं येषां त्वमसि भारत । स्त्रीसधर्मा च वृद्धश्च सर्वार्थानां प्रदर्शकः ॥
तस्य तद्वचनं श्रुत्वा रूक्षं रूक्षाक्षरं बहु । चुकोप बलिनां श्रेष्ठो भीमसेनः प्रतापवान् ॥
तस्य पद्मप्रतीकाशे स्वभावायतविस्तृते । भूयः क्रोधाभिताम्रान्ते रक्ते नेत्रे बभूवतुः ॥
त्रिशिखां भ्रुकुटीं चास्य ददृशुः सर्वपार्थिवाः । ललाटस्थां त्रिकूटस्थां गङ्गां त्रिपथगामिव ॥
दन्तान्संदशतस्तस्य कोपाद्ददृशुराननम् । युगान्ते सर्वभूतानि कालस्येव दिधक्षतः ॥
उत्पतन्तं तु वेगेन जग्राहैनं मनस्विनम् । भीष्म एव महाबाहुर्महासेनमिवेश्वरः ॥
तस्य भीमस्य भीष्मेण वार्यमाणस्य भारत । गुरुणा विविधैर्वाक्यैः क्रोधः प्रशममागतः ॥
नातिचक्राम भीष्मस्य स हि वाक्यमरिंदमः । समुद्धूतो घनापाये वेलामिव महोदधिः ॥
शिशुपालस्तु संक्रुद्धे भीमसेने नराधिप । नाकम्पत तदा वीरः पौरुषे स्वे व्यवस्थितः ॥
उत्पतन्तं तु वेगेन पुनः पुनररिंदमः । न स तं चिन्तयामास सिंहः क्षुद्रमृगं यथा ॥
प्रहसंश्चाब्रवीद्वाक्यं चेदिराजः प्रतापवान् । भीमसेनमतिक्रुद्धं दृष्ट्वा भीमपराक्रमम् ॥
मुञ्चैनं भीष्म पश्यन्तु यावदेनं नराधिपाः । मत्प्रतापाग्निनिर्दग्धं पतंगमिव वह्निना ॥
ततश्चेदिपतेर्वाक्यं तच्छ्रुत्वा कुरुसत्तमः । भीमसेनमुवाचेदं भीष्मो मतिमतां वरः ॥
← Previous (Ch. 263) Full Table of Contents Next (Ch. 265) →