Skip to main content
Search
MBh
Mahābhārata • Parva 2 (Sabhāparva) • Adhyāya 28

Sabhāparva Adhyāya 28

सभापर्व • अध्यायः 28

Sabhāparva Adhyāya 28 of the classical Mahābhārata with 56 verses.

Total: 56 Verses • Citations: MBh 2.28.1–56 • 250 Lexicon Terms • Page 1 of 2 (Verses 30 shown)
तथैव सहदेवोऽपि धर्मराजेन पूजितः । महत्या सेनया सार्धं प्रययौ दक्षिणां दिशम् ॥
स शूरसेनान्कार्त्स्न्येन पूर्वमेवाजयत्प्रभुः । मत्स्यराजं च कौरव्यो वशे चक्रे बलाद्बली ॥
अधिराजाधिपं चैव दन्तवक्रं महाहवे । जिगाय करदं चैव स्वराज्ये संन्यवेशयत् ॥
सुकुमारं वशे चक्रे सुमित्रं च नराधिपम् । तथैवापरमत्स्यांश्च व्यजयत्स पटच्चरान् ॥
निषादभूमिं गोशृङ्गं पर्वतप्रवरं तथा । तरसा व्यजयद्धीमाञ्श्रेणिमन्तं च पार्थिवम् ॥
नवराष्ट्रं विनिर्जित्य कुन्तिभोजमुपाद्रवत् । प्रीतिपूर्वं च तस्यासौ प्रतिजग्राह शासनम् ॥
ततश्चर्मण्वतीकूले जम्भकस्यात्मजं नृपम् । ददर्श वासुदेवेन शेषितं पूर्ववैरिणा ॥
चक्रे तत्र स संग्रामं सह भोजेन भारत । स तमाजौ विनिर्जित्य दक्षिणाभिमुखो ययौ ॥
करांस्तेभ्य उपादाय रत्नानि विविधानि च । ततस्तैरेव सहितो नर्मदामभितो ययौ ॥
विन्दानुविन्दावावन्त्यौ सैन्येन महता वृतौ । जिगाय समरे वीरावाश्विनेयः प्रतापवान् ॥
ततो रत्नान्युपादाय पुरीं माहिष्मतीं ययौ । तत्र नीलेन राज्ञा स चक्रे युद्धं नरर्षभः ॥
पाण्डवः परवीरघ्नः सहदेवः प्रतापवान् । ततोऽस्य सुमहद्युद्धमासीद्भीरुभयंकरम् ॥
सैन्यक्षयकरं चैव प्राणानां संशयाय च । चक्रे तस्य हि साहाय्यं भगवान्हव्यवाहनः ॥
ततो हया रथा नागाः पुरुषाः कवचानि च । प्रदीप्तानि व्यदृश्यन्त सहदेवबले तदा ॥
ततः सुसंभ्रान्तमना बभूव कुरुनन्दनः । नोत्तरं प्रतिवक्तुं च शक्तोऽभूज्जनमेजय ॥
किमर्थं भगवानग्निः प्रत्यमित्रोऽभवद्युधि । सहदेवस्य यज्ञार्थं घटमानस्य वै द्विज ॥
तत्र माहिष्मतीवासी भगवान्हव्यवाहनः । श्रूयते निगृहीतो वै पुरस्तात्पारदारिकः ॥
नीलस्य राज्ञः पूर्वेषामुपनीतश्च सोऽभवत् । तदा ब्राह्मणरूपेण चरमाणो यदृच्छया ॥
तं तु राजा यथाशास्त्रमन्वशाद्धार्मिकस्तदा । प्रजज्वाल ततः कोपाद्भगवान्हव्यवाहनः ॥
तं दृष्ट्वा विस्मितो राजा जगाम शिरसा कविम् । चक्रे प्रसादं च तदा तस्य राज्ञो विभावसुः ॥
वरेण छन्दयामास तं नृपं स्विष्टकृत्तमः । अभयं च स जग्राह स्वसैन्ये वै महीपतिः ॥
ततः प्रभृति ये केचिदज्ञानात्तां पुरीं नृपाः । जिगीषन्ति बलाद्राजंस्ते दह्यन्तीह वह्निना ॥
तस्यां पुर्यां तदा चैव माहिष्मत्यां कुरूद्वह । बभूवुरनभिग्राह्या योषितश्छन्दतः किल ॥
एवमग्निर्वरं प्रादात्स्त्रीणामप्रतिवारणे । स्वैरिण्यस्तत्र नार्यो हि यथेष्टं प्रचरन्त्युत ॥
वर्जयन्ति च राजानस्तद्राष्ट्रं पुरुषोत्तम । भयादग्नेर्महाराज तदा प्रभृति सर्वदा ॥
सहदेवस्तु धर्मात्मा सैन्यं दृष्ट्वा भयार्दितम् । परीतमग्निना राजन्नाकम्पत यथा गिरिः ॥
उपस्पृश्य शुचिर्भूत्वा सोऽब्रवीत्पावकं ततः । त्वदर्थोऽयं समारम्भः कृष्णवर्त्मन्नमोऽस्तु ते ॥
मुखं त्वमसि देवानां यज्ञस्त्वमसि पावक । पावनात्पावकश्चासि वहनाद्धव्यवाहनः ॥
वेदास्त्वदर्थं जाताश्च जातवेदास्ततो ह्यसि । यज्ञविघ्नमिमं कर्तुं नार्हस्त्वं हव्यवाहन ॥
← Previous (Ch. 252) Full Table of Contents Next (Ch. 254) →