Skip to main content
Search
MBh
Mahābhārata • Parva 2 (Sabhāparva) • Adhyāya 24

Sabhāparva Adhyāya 24

सभापर्व • अध्यायः 24

Sabhāparva Adhyāya 24 of the classical Mahābhārata with 28 verses.

Total: 28 Verses • Citations: MBh 2.24.1–28 • 250 Lexicon Terms
तं विजित्य महाबाहुः कुन्तीपुत्रो धनंजयः । प्रययावुत्तरां तस्माद्दिशं धनदपालिताम् ॥
अन्तर्गिरिं च कौन्तेयस्तथैव च बहिर्गिरिम् । तथोपरिगिरिं चैव विजिग्ये पुरुषर्षभः ॥
विजित्य पर्वतान्सर्वान्ये च तत्र नराधिपाः । तान्वशे स्थापयित्वा स रत्नान्यादाय सर्वशः ॥
तैरेव सहितः सर्वैरनुरज्य च तान्नृपान् । कुलूतवासिनं राजन्बृहन्तमुपजग्मिवान् ॥
मृदङ्गवरनादेन रथनेमिस्वनेन च । हस्तिनां च निनादेन कम्पयन्वसुधामिमाम् ॥
ततो बृहन्तस्तरुणो बलेन चतुरङ्गिणा । निष्क्रम्य नगरात्तस्माद्योधयामास पाण्डवम् ॥
सुमहान्संनिपातोऽभूद्धनंजयबृहन्तयोः । न शशाक बृहन्तस्तु सोढुं पाण्डवविक्रमम् ॥
सोऽविषह्यतमं ज्ञात्वा कौन्तेयं पर्वतेश्वरः । उपावर्तत दुर्मेधा रत्नान्यादाय सर्वशः ॥
स तद्राज्यमवस्थाप्य कुलूतसहितो ययौ । सेनाबिन्दुमथो राजन्राज्यादाशु समाक्षिपत् ॥
मोदापुरं वामदेवं सुदामानं सुसंकुलम् । कुलूतानुत्तरांश्चैव तांश्च राज्ञः समानयत् ॥
तत्रस्थः पुरुषैरेव धर्मराजस्य शासनात् । व्यजयद्धनंजयो राजन्देशान्पञ्च प्रमाणतः ॥
स दिवःप्रस्थमासाद्य सेनाबिन्दोः पुरं महत् । बलेन चतुरङ्गेण निवेशमकरोत्प्रभुः ॥
स तैः परिवृतः सर्वैर्विष्वगश्वं नराधिपम् । अभ्यगच्छन्महातेजाः पौरवं पुरुषर्षभः ॥
विजित्य चाहवे शूरान्पार्वतीयान्महारथान् । ध्वजिन्या व्यजयद्राजन्पुरं पौरवरक्षितम् ॥
पौरवं तु विनिर्जित्य दस्यून्पर्वतवासिनः । गणानुत्सवसंकेतानजयत्सप्त पाण्डवः ॥
ततः काश्मीरकान्वीरान्क्षत्रियान्क्षत्रियर्षभः । व्यजयल्लोहितं चैव मण्डलैर्दशभिः सह ॥
ततस्त्रिगर्तान्कौन्तेयो दार्वान्कोकनदाश्च ये । क्षत्रिया बहवो राजन्नुपावर्तन्त सर्वशः ॥
अभिसारीं ततो रम्यां विजिग्ये कुरुनन्दनः । उरशावासिनं चैव रोचमानं रणेऽजयत् ॥
ततः सिंहपुरं रम्यं चित्रायुधसुरक्षितम् । प्रामथद्बलमास्थाय पाकशासनिराहवे ॥
ततः सुह्मांश्च चोलांश्च किरीटी पाण्डवर्षभः । सहितः सर्वसैन्येन प्रामथत्कुरुनन्दनः ॥
ततः परमविक्रान्तो बाह्लीकान्कुरुनन्दनः । महता परिमर्देन वशे चक्रे दुरासदान् ॥
गृहीत्वा तु बलं सारं फल्गु चोत्सृज्य पाण्डवः । दरदान्सह काम्बोजैरजयत्पाकशासनिः ॥
प्रागुत्तरां दिशं ये च वसन्त्याश्रित्य दस्यवः । निवसन्ति वने ये च तान्सर्वानजयत्प्रभुः ॥
लोहान्परमकाम्बोजानृषिकानुत्तरानपि । सहितांस्तान्महाराज व्यजयत्पाकशासनिः ॥
ऋषिकेषु तु संग्रामो बभूवातिभयंकरः । तारकामयसंकाशः परमर्षिकपार्थयोः ॥
स विजित्य ततो राजन्नृषिकान्रणमूर्धनि । शुकोदरसमप्रख्यान्हयानष्टौ समानयत् । मयूरसदृशानन्यानुभयानेव चापरान् ॥
स विनिर्जित्य संग्रामे हिमवन्तं सनिष्कुटम् । श्वेतपर्वतमासाद्य न्यवसत्पुरुषर्षभः ॥
← Previous (Ch. 248) Full Table of Contents Next (Ch. 250) →