Skip to main content
Search
MBh
Mahābhārata • Parva 2 (Sabhāparva) • Adhyāya 14

Sabhāparva Adhyāya 14

सभापर्व • अध्यायः 14

Sabhāparva Adhyāya 14 of the classical Mahābhārata with 21 verses.

Total: 21 Verses • Citations: MBh 2.14.1–21 • 250 Lexicon Terms
उक्तं त्वया बुद्धिमता यन्नान्यो वक्तुमर्हति । संशयानां हि निर्मोक्ता त्वन्नान्यो विद्यते भुवि ॥
गृहे गृहे हि राजानः स्वस्य स्वस्य प्रियंकराः । न च साम्राज्यमाप्तास्ते सम्राट्शब्दो हि कृत्स्नभाक् ॥
कथं परानुभावज्ञः स्वं प्रशंसितुमर्हति । परेण समवेतस्तु यः प्रशस्तः स पूज्यते ॥
विशाला बहुला भूमिर्बहुरत्नसमाचिता । दूरं गत्वा विजानाति श्रेयो वृष्णिकुलोद्वह ॥
शममेव परं मन्ये न तु मोक्षाद्भवेच्छमः । आरम्भे पारमेष्ठ्यं तु न प्राप्यमिति मे मतिः ॥
एवमेवाभिजानन्ति कुले जाता मनस्विनः । कश्चित्कदाचिदेतेषां भवेच्छ्रेष्ठो जनार्दन ॥
अनारम्भपरो राजा वल्मीक इव सीदति । दुर्बलश्चानुपायेन बलिनं योऽधितिष्ठति ॥
अतन्द्रितस्तु प्रायेण दुर्बलो बलिनं रिपुम् । जयेत्सम्यङ्नयो राजन्नीत्यार्थानात्मनो हितान् ॥
कृष्णे नयो मयि बलं जयः पार्थे धनंजये । मागधं साधयिष्यामो वयं त्रय इवाग्नयः ॥
आदत्तेऽर्थपरो बालो नानुबन्धमवेक्षते । तस्मादरिं न मृष्यन्ति बालमर्थपरायणम् ॥
हित्वा करान्यौवनाश्वः पालनाच्च भगीरथः । कार्तवीर्यस्तपोयोगाद्बलात्तु भरतो विभुः । ऋद्ध्या मरुत्तस्तान्पञ्च सम्राज इति शुश्रुमः ॥
निग्राह्यलक्षणं प्राप्तो धर्मार्थनयलक्षणैः । बार्हद्रथो जरासंधस्तद्विद्धि भरतर्षभ ॥
न चैनमनुरुध्यन्ते कुलान्येकशतं नृपाः । तस्मादेतद्बलादेव साम्राज्यं कुरुतेऽद्य सः ॥
रत्नभाजो हि राजानो जरासंधमुपासते । न च तुष्यति तेनापि बाल्यादनयमास्थितः ॥
मूर्धाभिषिक्तं नृपतिं प्रधानपुरुषं बलात् । आदत्ते न च नो दृष्टोऽभागः पुरुषतः क्वचित् ॥
एवं सर्वान्वशे चक्रे जरासंधः शतावरान् । तं दुर्बलतरो राजा कथं पार्थ उपैष्यति ॥
प्रोक्षितानां प्रमृष्टानां राज्ञां पशुपतेर्गृहे । पशूनामिव का प्रीतिर्जीविते भरतर्षभ ॥
क्षत्रियः शस्त्रमरणो यदा भवति सत्कृतः । ननु स्म मागधं सर्वे प्रतिबाधेम यद्वयम् ॥
षडशीतिः समानीताः शेषा राजंश्चतुर्दश । जरासंधेन राजानस्ततः क्रूरं प्रपत्स्यते ॥
प्राप्नुयात्स यशो दीप्तं तत्र यो विघ्नमाचरेत् । जयेद्यश्च जरासंधं स सम्राण्नियतं भवेत् ॥
← Previous (Ch. 238) Full Table of Contents Next (Ch. 240) →