Skip to main content
Search
MBh
Mahābhārata • Parva 1 (Ādiparva) • Adhyāya 225

Ādiparva Adhyāya 225

आदिपर्व • अध्यायः 225

Ādiparva Adhyāya 225 of the classical Mahābhārata with 20 verses.

Total: 20 Verses • Citations: MBh 1.225.1–20 • 250 Lexicon Terms
युष्माकं परिरक्षार्थं विज्ञप्तो ज्वलनो मया । अग्निना च तथेत्येवं पूर्वमेव प्रतिश्रुतम् ॥
अग्नेर्वचनमाज्ञाय मातुर्धर्मज्ञतां च वः । युष्माकं च परं वीर्यं नाहं पूर्वमिहागतः ॥
न संतापो हि वः कार्यः पुत्रका मरणं प्रति । ऋषीन्वेद हुताशोऽपि ब्रह्म तद्विदितं च वः ॥
एवमाश्वास्य पुत्रान्स भार्यां चादाय भारत । मन्दपालस्ततो देशादन्यं देशं जगाम ह ॥
भगवानपि तिग्मांशुः समिद्धं खाण्डवं वनम् । ददाह सह कृष्णाभ्यां जनयञ्जगतोऽभयम् ॥
वसामेदोवहाः कुल्यास्तत्र पीत्वा च पावकः । अगच्छत्परमां तृप्तिं दर्शयामास चार्जुनम् ॥
ततोऽन्तरिक्षाद्भगवानवतीर्य सुरेश्वरः । मरुद्गणवृतः पार्थं माधवं चाब्रवीदिदम् ॥
कृतं युवाभ्यां कर्मेदममरैरपि दुष्करम् । वरान्वृणीतं तुष्टोऽस्मि दुर्लभानप्यमानुषान् ॥
पार्थस्तु वरयामास शक्रादस्त्राणि सर्वशः । ग्रहीतुं तच्च शक्रोऽस्य तदा कालं चकार ह ॥
यदा प्रसन्नो भगवान्महादेवो भविष्यति । तुभ्यं तदा प्रदास्यामि पाण्डवास्त्राणि सर्वशः ॥
अहमेव च तं कालं वेत्स्यामि कुरुनन्दन । तपसा महता चापि दास्यामि तव तान्यहम् ॥
आग्नेयानि च सर्वाणि वायव्यानि तथैव च । मदीयानि च सर्वाणि ग्रहीष्यसि धनंजय ॥
वासुदेवोऽपि जग्राह प्रीतिं पार्थेन शाश्वतीम् । ददौ च तस्मै देवेन्द्रस्तं वरं प्रीतिमांस्तदा ॥
दत्त्वा ताभ्यां वरं प्रीतः सह देवैर्मरुत्पतिः । हुताशनमनुज्ञाप्य जगाम त्रिदिवं पुनः ॥
पावकश्चापि तं दावं दग्ध्वा समृगपक्षिणम् । अहानि पञ्च चैकं च विरराम सुतर्पितः ॥
जग्ध्वा मांसानि पीत्वा च मेदांसि रुधिराणि च । युक्तः परमया प्रीत्या तावुवाच विशां पते ॥
युवाभ्यां पुरुषाग्र्याभ्यां तर्पितोऽस्मि यथासुखम् । अनुजानामि वां वीरौ चरतं यत्र वाञ्छितम् ॥
एवं तौ समनुज्ञातौ पावकेन महात्मना । अर्जुनो वासुदेवश्च दानवश्च मयस्तथा ॥
परिक्रम्य ततः सर्वे त्रयोऽपि भरतर्षभ । रमणीये नदीकूले सहिताः समुपाविशन् ॥
← Previous (Ch. 224) Full Table of Contents Next (Ch. 226) →