Skip to main content
Search
MBh
Mahābhārata • Parva 1 (Ādiparva) • Adhyāya 212

Ādiparva Adhyāya 212

आदिपर्व • अध्यायः 212

Ādiparva Adhyāya 212 of the classical Mahābhārata with 33 verses.

Total: 33 Verses • Citations: MBh 1.212.1–33 • 250 Lexicon Terms
ततः संवादिते तस्मिन्ननुज्ञातो धनंजयः । गतां रैवतके कन्यां विदित्वा जनमेजय ॥
वासुदेवाभ्यनुज्ञातः कथयित्वेतिकृत्यताम् । कृष्णस्य मतमाज्ञाय प्रययौ भरतर्षभः ॥
रथेन काञ्चनाङ्गेन कल्पितेन यथाविधि । सैन्यसुग्रीवयुक्तेन किङ्किणीजालमालिना ॥
सर्वशस्त्रोपपन्नेन जीमूतरवनादिना । ज्वलिताग्निप्रकाशेन द्विषतां हर्षघातिना ॥
संनद्धः कवची खड्गी बद्धगोधाङ्गुलित्रवान् । मृगयाव्यपदेशेन यौगपद्येन भारत ॥
सुभद्रा त्वथ शैलेन्द्रमभ्यर्च्य सह रैवतम् । दैवतानि च सर्वाणि ब्राह्मणान्स्वस्ति वाच्य च ॥
प्रदक्षिणं गिरिं कृत्वा प्रययौ द्वारकां प्रति । तामभिद्रुत्य कौन्तेयः प्रसह्यारोपयद्रथम् ॥
ततः स पुरुषव्याघ्रस्तामादाय शुचिस्मिताम् । रथेनाकाशगेनैव प्रययौ स्वपुरं प्रति ॥
ह्रियमाणां तु तां दृष्ट्वा सुभद्रां सैनिको जनः । विक्रोशन्प्राद्रवत्सर्वो द्वारकामभितः पुरीम् ॥
ते समासाद्य सहिताः सुधर्मामभितः सभाम् । सभापालस्य तत्सर्वमाचख्युः पार्थविक्रमम् ॥
तेषां श्रुत्वा सभापालो भेरीं सांनाहिकीं ततः । समाजघ्ने महाघोषां जाम्बूनदपरिष्कृताम् ॥
क्षुब्धास्तेनाथ शब्देन भोजवृष्ण्यन्धकास्तदा । अन्नपानमपास्याथ समापेतुः सभां ततः ॥
ततो जाम्बूनदाङ्गानि स्पर्ध्यास्तरणवन्ति च । मणिविद्रुमचित्राणि ज्वलिताग्निप्रभाणि च ॥
भेजिरे पुरुषव्याघ्रा वृष्ण्यन्धकमहारथाः । सिंहासनानि शतशो धिष्ण्यानीव हुताशनाः ॥
तेषां समुपविष्टानां देवानामिव संनये । आचख्यौ चेष्टितं जिष्णोः सभापालः सहानुगः ॥
तच्छ्रुत्वा वृष्णिवीरास्ते मदरक्तान्तलोचनाः । अमृष्यमाणाः पार्थस्य समुत्पेतुरहंकृताः ॥
योजयध्वं रथानाशु प्रासानाहरतेति च । धनूंषि च महार्हाणि कवचानि बृहन्ति च ॥
सूतानुच्चुक्रुशुः केचिद्रथान्योजयतेति च । स्वयं च तुरगान्केचिन्निन्युर्हेमविभूषितान् ॥
रथेष्वानीयमानेषु कवचेषु ध्वजेषु च । अभिक्रन्दे नृवीराणां तदासीत्संकुलं महत् ॥
वनमाली ततः क्षीबः कैलासशिखरोपमः । नीलवासा मदोत्सिक्त इदं वचनमब्रवीत् ॥
किमिदं कुरुथाप्रज्ञास्तूष्णीं भूते जनार्दने । अस्य भावमविज्ञाय संक्रुद्धा मोघगर्जिताः ॥
एष तावदभिप्रायमाख्यातु स्वं महामतिः । यदस्य रुचितं कर्तुं तत्कुरुध्वमतन्द्रिताः ॥
ततस्ते तद्वचः श्रुत्वा ग्राह्यरूपं हलायुधात् । तूष्णीं भूतास्ततः सर्वे साधु साध्विति चाब्रुवन् ॥
समं वचो निशम्येति बलदेवस्य धीमतः । पुनरेव सभामध्ये सर्वे तु समुपाविशन् ॥
ततोऽब्रवीत्कामपालो वासुदेवं परंतपम् । किमवागुपविष्टोऽसि प्रेक्षमाणो जनार्दन ॥
सत्कृतस्त्वत्कृते पार्थः सर्वैरस्माभिरच्युत । न च सोऽर्हति तां पूजां दुर्बुद्धिः कुलपांसनः ॥
को हि तत्रैव भुक्त्वान्नं भाजनं भेत्तुमर्हति । मन्यमानः कुले जातमात्मानं पुरुषः क्वचित् ॥
ईप्समानश्च संबन्धं कृतपूर्वं च मानयन् । को हि नाम भवेनार्थी साहसेन समाचरेत् ॥
सोऽवमन्य च नामास्माननादृत्य च केशवम् । प्रसह्य हृतवानद्य सुभद्रां मृत्युमात्मनः ॥
कथं हि शिरसो मध्ये पदं तेन कृतं मम । मर्षयिष्यामि गोविन्द पादस्पर्शमिवोरगः ॥
अद्य निष्कौरवामेकः करिष्यामि वसुंधराम् । न हि मे मर्षणीयोऽयमर्जुनस्य व्यतिक्रमः ॥
तं तथा गर्जमानं तु मेघदुन्दुभिनिःस्वनम् । अन्वपद्यन्त ते सर्वे भोजवृष्ण्यन्धकास्तदा ॥
← Previous (Ch. 211) Full Table of Contents Next (Ch. 213) →