Skip to main content
Search
MBh
Mahābhārata • Parva 2 (Sabhāparva) • Adhyāya 9

Sabhāparva Adhyāya 9

सभापर्व • अध्यायः 9

Sabhāparva Adhyāya 9 of the classical Mahābhārata with 26 verses.

Total: 26 Verses • Citations: MBh 2.9.1–26 • 250 Lexicon Terms
युधिष्ठिर सभा दिव्या वरुणस्य सितप्रभा । प्रमाणेन यथा याम्या शुभप्राकारतोरणा ॥
अन्तःसलिलमास्थाय विहिता विश्वकर्मणा । दिव्यरत्नमयैर्वृक्षैः फलपुष्पप्रदैर्युता ॥
नीलपीतासितश्यामैः सितैर्लोहितकैरपि । अवतानैस्तथा गुल्मैः पुष्पमञ्जरिधारिभिः ॥
तथा शकुनयस्तस्यां नानारूपा मृदुस्वराः । अनिर्देश्या वपुष्मन्तः शतशोऽथ सहस्रशः ॥
सा सभा सुखसंस्पर्शा न शीता न च घर्मदा । वेश्मासनवती रम्या सिता वरुणपालिता ॥
यस्यामास्ते स वरुणो वारुण्या सह भारत । दिव्यरत्नाम्बरधरो भूषणैरुपशोभितः ॥
स्रग्विणो भूषिताश्चापि दिव्यमाल्यानुकर्षिणः । आदित्यास्तत्र वरुणं जलेश्वरमुपासते ॥
वासुकिस्तक्षकश्चैव नागश्चैरावतस्तथा । कृष्णश्च लोहितश्चैव पद्मश्चित्रश्च वीर्यवान् ॥
कम्बलाश्वतरौ नागौ धृतराष्ट्रबलाहकौ । मणिमान्कुण्डलधरः कर्कोटकधनंजयौ ॥
प्रह्लादो मूषिकादश्च तथैव जनमेजयः । पताकिनो मण्डलिनः फणवन्तश्च सर्वशः ॥
एते चान्ये च बहवः सर्पास्तस्यां युधिष्ठिर । उपासते महात्मानं वरुणं विगतक्लमाः ॥
बलिर्वैरोचनो राजा नरकः पृथिवींजयः । प्रह्लादो विप्रचित्तिश्च कालखञ्जाश्च सर्वशः ॥
सुहनुर्दुर्मुखः शङ्खः सुमनाः सुमतिः स्वनः । घटोदरो महापार्श्वः क्रथनः पिठरस्तथा ॥
विश्वरूपः सुरूपश्च विरूपोऽथ महाशिराः । दशग्रीवश्च वाली च मेघवासा दशावरः ॥
कैटभो विटटूतश्च संह्रादश्चेन्द्रतापनः । दैत्यदानवसंघाश्च सर्वे रुचिरकुण्डलाः ॥
स्रग्विणो मौलिनः सर्वे तथा दिव्यपरिच्छदाः । सर्वे लब्धवराः शूराः सर्वे विगतमृत्यवः ॥
ते तस्यां वरुणं देवं धर्मपाशस्थिताः सदा । उपासते महात्मानं सर्वे सुचरितव्रताः ॥
तथा समुद्राश्चत्वारो नदी भागीरथी च या । कालिन्दी विदिशा वेण्णा नर्मदा वेगवाहिनी ॥
विपाशा च शतद्रुश्च चन्द्रभागा सरस्वती । इरावती वितस्ता च सिन्धुर्देवनदस्तथा ॥
गोदावरी कृष्णवेण्णा कावेरी च सरिद्वरा । एताश्चान्याश्च सरितस्तीर्थानि च सरांसि च ॥
कूपाश्च सप्रस्रवणा देहवन्तो युधिष्ठिर । पल्वलानि तडागानि देहवन्त्यथ भारत ॥
दिशस्तथा मही चैव तथा सर्वे महीधराः । उपासते महात्मानं सर्वे जलचरास्तथा ॥
गीतवादित्रवन्तश्च गन्धर्वाप्सरसां गणाः । स्तुवन्तो वरुणं तस्यां सर्व एव समासते ॥
महीधरा रत्नवन्तो रसा येषु प्रतिष्ठिताः । सर्वे विग्रहवन्तस्ते तमीश्वरमुपासते ॥
एषा मया संपतता वारुणी भरतर्षभ । दृष्टपूर्वा सभा रम्या कुबेरस्य सभां शृणु ॥
← Previous (Ch. 233) Full Table of Contents Next (Ch. 235) →