Skip to main content
Search
MBh
Mahābhārata • Parva 2 (Sabhāparva) • Adhyāya 51

Sabhāparva Adhyāya 51

सभापर्व • अध्यायः 51

Sabhāparva Adhyāya 51 of the classical Mahābhārata with 27 verses.

Total: 27 Verses • Citations: MBh 2.51.1–27 • 250 Lexicon Terms
यां त्वमेतां श्रियं दृष्ट्वा पाण्डुपुत्रे युधिष्ठिरे । तप्यसे तां हरिष्यामि द्यूतेनाहूयतां परः ॥
अगत्वा संशयमहमयुद्ध्वा च चमूमुखे । अक्षान्क्षिपन्नक्षतः सन्विद्वानविदुषो जये ॥
ग्लहान्धनूंषि मे विद्धि शरानक्षांश्च भारत । अक्षाणां हृदयं मे ज्यां रथं विद्धि ममास्तरम् ॥
अयमुत्सहते राजञ्श्रियमाहर्तुमक्षवित् । द्यूतेन पाण्डुपुत्रेभ्यस्तत्तुभ्यं तात रोचताम् ॥
स्थितोऽस्मि शासने भ्रातुर्विदुरस्य महात्मनः । तेन संगम्य वेत्स्यामि कार्यस्यास्य विनिश्चयम् ॥
विहनिष्यति ते बुद्धिं विदुरो मुक्तसंशयः । पाण्डवानां हिते युक्तो न तथा मम कौरव ॥
नारभेत्परसामर्थ्यात्पुरुषः कार्यमात्मनः । मतिसाम्यं द्वयोर्नास्ति कार्येषु कुरुनन्दन ॥
भयं परिहरन्मन्द आत्मानं परिपालयन् । वर्षासु क्लिन्नकटवत्तिष्ठन्नेवावसीदति ॥
न व्याधयो नापि यमः श्रेयःप्राप्तिं प्रतीक्षते । यावदेव भवेत्कल्पस्तावच्छ्रेयः समाचरेत् ॥
सर्वथा पुत्र बलिभिर्विग्रहं ते न रोचये । वैरं विकारं सृजति तद्वै शस्त्रमनायसम् ॥
अनर्थमर्थं मन्यसे राजपुत्र; संग्रन्थनं कलहस्यातिघोरम् । तद्वै प्रवृत्तं तु यथा कथंचि;द्विमोक्षयेच्चाप्यसिसायकांश्च ॥
द्यूते पुराणैर्व्यवहारः प्रणीत;स्तत्रात्ययो नास्ति न संप्रहारः । तद्रोचतां शकुनेर्वाक्यमद्य; सभां क्षिप्रं त्वमिहाज्ञापयस्व ॥
स्वर्गद्वारं दीव्यतां नो विशिष्टं; तद्वर्तिनां चापि तथैव युक्तम् । भवेदेवं ह्यात्मना तुल्यमेव; दुरोदरं पाण्डवैस्त्वं कुरुष्व ॥
वाक्यं न मे रोचते यत्त्वयोक्तं; यत्ते प्रियं तत्क्रियतां नरेन्द्र । पश्चात्तप्स्यसे तदुपाक्रम्य वाक्यं; न हीदृशं भावि वचो हि धर्म्यम् ॥
दृष्टं ह्येतद्विदुरेणैवमेव; सर्वं पूर्वं बुद्धिविद्यानुगेन । तदेवैतदवशस्याभ्युपैति; महद्भयं क्षत्रियबीजघाति ॥
एवमुक्त्वा धृतराष्ट्रो मनीषी; दैवं मत्वा परमं दुस्तरं च । शशासोच्चैः पुरुषान्पुत्रवाक्ये; स्थितो राजा दैवसंमूढचेताः ॥
सहस्रस्तम्भां हेमवैडूर्यचित्रां; शतद्वारां तोरणस्फाटिशृङ्गाम् । सभामग्र्यां क्रोशमात्रायतां मे; तद्विस्तारामाशु कुर्वन्तु युक्ताः ॥
श्रुत्वा तस्य त्वरिता निर्विशङ्काः; प्राज्ञा दक्षास्तां तथा चक्रुराशु । सर्वद्रव्याण्युपजह्रुः सभायां; सहस्रशः शिल्पिनश्चापि युक्ताः ॥
कालेनाल्पेनाथ निष्ठां गतां तां; सभां रम्यां बहुरत्नां विचित्राम् । चित्रैर्हैमैरासनैरभ्युपेता;माचख्युस्ते तस्य राज्ञः प्रतीताः ॥
ततो विद्वान्विदुरं मन्त्रिमुख्य;मुवाचेदं धृतराष्ट्रो नरेन्द्रः । युधिष्ठिरं राजपुत्रं हि गत्वा; मद्वाक्येन क्षिप्रमिहानयस्व ॥
सभेयं मे बहुरत्ना विचित्रा; शय्यासनैरुपपन्ना महार्हैः । सा दृश्यतां भ्रातृभिः सार्धमेत्य; सुहृद्द्यूतं वर्ततामत्र चेति ॥
मतमाज्ञाय पुत्रस्य धृतराष्ट्रो नराधिपः । मत्वा च दुस्तरं दैवमेतद्राजा चकार ह ॥
अन्यायेन तथोक्तस्तु विदुरो विदुषां वरः । नाभ्यनन्दद्वचो भ्रातुर्वचनं चेदमब्रवीत् ॥
नाभिनन्दामि नृपते प्रैषमेतं; मैवं कृथाः कुलनाशाद्बिभेमि । पुत्रैर्भिन्नैः कलहस्ते ध्रुवं स्या;देतच्छङ्के द्यूतकृते नरेन्द्र ॥
नेह क्षत्तः कलहस्तप्स्यते मां; न चेद्दैवं प्रतिलोमं भविष्यत् । धात्रा तु दिष्टस्य वशे किलेदं; सर्वं जगच्चेष्टति न स्वतन्त्रम् ॥
तदद्य विदुर प्राप्य राजानं मम शासनात् । क्षिप्रमानय दुर्धर्षं कुन्तीपुत्रं युधिष्ठिरम् ॥
← Previous (Ch. 275) Full Table of Contents Next (Ch. 277) →