Skip to main content
Search
MBh
Mahābhārata • Parva 2 (Sabhāparva) • Adhyāya 5

Sabhāparva Adhyāya 5

सभापर्व • अध्यायः 5

Sabhāparva Adhyāya 5 of the classical Mahābhārata with 117 verses.

Total: 117 Verses • Citations: MBh 2.5.1–117 • 250 Lexicon Terms • Page 1 of 4 (Verses 30 shown)
तथा तत्रोपविष्टेषु पाण्डवेषु महात्मसु । महत्सु चोपविष्टेषु गन्धर्वेषु च भारत ॥
लोकाननुचरन्सर्वानागमत्तां सभामृषिः । नारदः सुमहातेजा ऋषिभिः सहितस्तदा ॥
पारिजातेन राजेन्द्र रैवतेन च धीमता । सुमुखेन च सौम्येन देवर्षिरमितद्युतिः । सभास्थान्पाण्डवान्द्रष्टुं प्रीयमाणो मनोजवः ॥
तमागतमृषिं दृष्ट्वा नारदं सर्वधर्मवित् । सहसा पाण्डवश्रेष्ठः प्रत्युत्थायानुजैः सह । अभ्यवादयत प्रीत्या विनयावनतस्तदा ॥
तदर्हमासनं तस्मै संप्रदाय यथाविधि । अर्चयामास रत्नैश्च सर्वकामैश्च धर्मवित् ॥
सोऽर्चितः पाण्डवैः सर्वैर्महर्षिर्वेदपारगः । धर्मकामार्थसंयुक्तं पप्रच्छेदं युधिष्ठिरम् ॥
कच्चिदर्थाश्च कल्पन्ते धर्मे च रमते मनः । सुखानि चानुभूयन्ते मनश्च न विहन्यते ॥
कच्चिदाचरितां पूर्वैर्नरदेव पितामहैः । वर्तसे वृत्तिमक्षीणां धर्मार्थसहितां नृषु ॥
कच्चिदर्थेन वा धर्मं धर्मेणार्थमथापि वा । उभौ वा प्रीतिसारेण न कामेन प्रबाधसे ॥
कच्चिदर्थं च धर्मं च कामं च जयतां वर । विभज्य काले कालज्ञ सदा वरद सेवसे ॥
कच्चिद्राजगुणैः षड्भिः सप्तोपायांस्तथानघ । बलाबलं तथा सम्यक्चतुर्दश परीक्षसे ॥
कच्चिदात्मानमन्वीक्ष्य परांश्च जयतां वर । तथा संधाय कर्माणि अष्टौ भारत सेवसे ॥
कच्चित्प्रकृतयः षट्ते न लुप्ता भरतर्षभ । आढ्यास्तथाव्यसनिनः स्वनुरक्ताश्च सर्वशः ॥
कच्चिन्न तर्कैर्दूतैर्वा ये चाप्यपरिशङ्किताः । त्वत्तो वा तव वामात्यैर्भिद्यते जातु मन्त्रितम् ॥
कच्चित्संधिं यथाकालं विग्रहं चोपसेवसे । कच्चिद्वृत्तिमुदासीने मध्यमे चानुवर्तसे ॥
कच्चिदात्मसमा बुद्ध्या शुचयो जीवितक्षमाः । कुलीनाश्चानुरक्ताश्च कृतास्ते वीर मन्त्रिणः ॥
विजयो मन्त्रमूलो हि राज्ञां भवति भारत । सुसंवृतो मन्त्रधनैरमात्यैः शास्त्रकोविदैः ॥
कच्चिन्निद्रावशं नैषि कच्चित्काले विबुध्यसे । कच्चिच्चापररात्रेषु चिन्तयस्यर्थमर्थवित् ॥
कच्चिन्मन्त्रयसे नैकः कच्चिन्न बहुभिः सह । कच्चित्ते मन्त्रितो मन्त्रो न राष्ट्रमनुधावति ॥
कच्चिदर्थान्विनिश्चित्य लघुमूलान्महोदयान् । क्षिप्रमारभसे कर्तुं न विघ्नयसि तादृशान् ॥
कच्चिन्न सर्वे कर्मान्ताः परोक्षास्ते विशङ्किताः । सर्वे वा पुनरुत्सृष्टाः संसृष्टं ह्यत्र कारणम् ॥
कच्चिद्राजन्कृतान्येव कृतप्रायाणि वा पुनः । विदुस्ते वीर कर्माणि नानवाप्तानि कानिचित् ॥
कच्चित्कारणिकाः सर्वे सर्वशास्त्रेषु कोविदाः । कारयन्ति कुमारांश्च योधमुख्यांश्च सर्वशः ॥
कच्चित्सहस्रैर्मूर्खाणामेकं क्रीणासि पण्डितम् । पण्डितो ह्यर्थकृच्छ्रेषु कुर्यान्निःश्रेयसं परम् ॥
कच्चिद्दुर्गाणि सर्वाणि धनधान्यायुधोदकैः । यन्त्रैश्च परिपूर्णानि तथा शिल्पिधनुर्धरैः ॥
एकोऽप्यमात्यो मेधावी शूरो दान्तो विचक्षणः । राजानं राजपुत्रं वा प्रापयेन्महतीं श्रियम् ॥
कच्चिदष्टादशान्येषु स्वपक्षे दश पञ्च च । त्रिभिस्त्रिभिरविज्ञातैर्वेत्सि तीर्थानि चारकैः ॥
कच्चिद्द्विषामविदितः प्रतियत्तश्च सर्वदा । नित्ययुक्तो रिपून्सर्वान्वीक्षसे रिपुसूदन ॥
कच्चिद्विनयसंपन्नः कुलपुत्रो बहुश्रुतः । अनसूयुरनुप्रष्टा सत्कृतस्ते पुरोहितः ॥
← Previous (Ch. 229) Full Table of Contents Next (Ch. 231) →