Skip to main content
Search
MBh
Mahābhārata • Parva 2 (Sabhāparva) • Adhyāya 46

Sabhāparva Adhyāya 46

सभापर्व • अध्यायः 46

Sabhāparva Adhyāya 46 of the classical Mahābhārata with 36 verses.

Total: 36 Verses • Citations: MBh 2.46.1–36 • 250 Lexicon Terms
कथं समभवद्द्यूतं भ्रातॄणां तन्महात्ययम् । यत्र तद्व्यसनं प्राप्तं पाण्डवैर्मे पितामहैः ॥
के च तत्र सभास्तारा राजानो ब्रह्मवित्तम । के चैनमन्वमोदन्त के चैनं प्रत्यषेधयन् ॥
विस्तरेणैतदिच्छामि कथ्यमानं त्वया द्विज । मूलं ह्येतद्विनाशस्य पृथिव्या द्विजसत्तम ॥
एवमुक्तस्तदा राज्ञा व्यासशिष्यः प्रतापवान् । आचचक्षे यथावृत्तं तत्सर्वं सर्ववेदवित् ॥
शृणु मे विस्तरेणेमां कथां भरतसत्तम । भूय एव महाराज यदि ते श्रवणे मतिः ॥
विदुरस्य मतं ज्ञात्वा धृतराष्ट्रोऽम्बिकासुतः । दुर्योधनमिदं वाक्यमुवाच विजने पुनः ॥
अलं द्यूतेन गान्धारे विदुरो न प्रशंसति । न ह्यसौ सुमहाबुद्धिरहितं नो वदिष्यति ॥
हितं हि परमं मन्ये विदुरो यत्प्रभाषते । क्रियतां पुत्र तत्सर्वमेतन्मन्ये हितं तव ॥
देवर्षिर्वासवगुरुर्देवराजाय धीमते । यत्प्राह शास्त्रं भगवान्बृहस्पतिरुदारधीः ॥
तद्वेद विदुरः सर्वं सरहस्यं महाकविः । स्थितश्च वचने तस्य सदाहमपि पुत्रक ॥
विदुरो वापि मेधावी कुरूणां प्रवरो मतः । उद्धवो वा महाबुद्धिर्वृष्णीनामर्चितो नृप ॥
द्यूतेन तदलं पुत्र द्यूते भेदो हि दृश्यते । भेदे विनाशो राज्यस्य तत्पुत्र परिवर्जय ॥
पित्रा मात्रा च पुत्रस्य यद्वै कार्यं परं स्मृतम् । प्राप्तस्त्वमसि तत्तात पितृपैतामहं पदम् ॥
अधीतवान्कृती शास्त्रे लालितः सततं गृहे । भ्रातृज्येष्ठः स्थितो राज्ये विन्दसे किं न शोभनम् ॥
पृथग्जनैरलभ्यं यद्भोजनाच्छादनं परम् । तत्प्राप्तोऽसि महाबाहो कस्माच्छोचसि पुत्रक ॥
स्फीतं राष्ट्रं महाबाहो पितृपैतामहं महत् । नित्यमाज्ञापयन्भासि दिवि देवेश्वरो यथा ॥
तस्य ते विदितप्रज्ञ शोकमूलमिदं कथम् । समुत्थितं दुःखतरं तन्मे शंसितुमर्हसि ॥
अश्नाम्याच्छादयामीति प्रपश्यन्पापपूरुषः । नामर्षं कुरुते यस्तु पुरुषः सोऽधमः स्मृतः ॥
न मां प्रीणाति राजेन्द्र लक्ष्मीः साधारणा विभो । ज्वलितामिव कौन्तेये श्रियं दृष्ट्वा च विव्यथे ॥
सर्वां हि पृथिवीं दृष्ट्वा युधिष्ठिरवशानुगाम् । स्थिरोऽस्मि योऽहं जीवामि दुःखादेतद्ब्रवीमि ते ॥
आवर्जिता इवाभान्ति निघ्नाश्चैत्रकिकौकुराः । कारस्करा लोहजङ्घा युधिष्ठिरनिवेशने ॥
हिमवत्सागरानूपाः सर्वरत्नाकरास्तथा । अन्त्याः सर्वे पर्युदस्ता युधिष्ठिरनिवेशने ॥
ज्येष्ठोऽयमिति मां मत्वा श्रेष्ठश्चेति विशां पते । युधिष्ठिरेण सत्कृत्य युक्तो रत्नपरिग्रहे ॥
उपस्थितानां रत्नानां श्रेष्ठानामर्घहारिणाम् । नादृश्यत परः प्रान्तो नापरस्तत्र भारत ॥
न मे हस्तः समभवद्वसु तत्प्रतिगृह्णतः । प्रातिष्ठन्त मयि श्रान्ते गृह्य दूराहृतं वसु ॥
कृतां बिन्दुसरोरत्नैर्मयेन स्फाटिकच्छदाम् । अपश्यं नलिनीं पूर्णामुदकस्येव भारत ॥
वस्त्रमुत्कर्षति मयि प्राहसत्स वृकोदरः । शत्रोरृद्धिविशेषेण विमूढं रत्नवर्जितम् ॥
तत्र स्म यदि शक्तः स्यां पातयेयं वृकोदरम् । सपत्नेनावहासो हि स मां दहति भारत ॥
पुनश्च तादृशीमेव वापीं जलजशालिनीम् । मत्वा शिलासमां तोये पतितोऽस्मि नराधिप ॥
तत्र मां प्राहसत्कृष्णः पार्थेन सह सस्वनम् । द्रौपदी च सह स्त्रीभिर्व्यथयन्ती मनो मम ॥
क्लिन्नवस्त्रस्य च जले किंकरा राजचोदिताः । ददुर्वासांसि मेऽन्यानि तच्च दुःखतरं मम ॥
प्रलम्भं च शृणुष्वान्यं गदतो मे नराधिप । अद्वारेण विनिर्गच्छन्द्वारसंस्थानरूपिणा । अभिहत्य शिलां भूयो ललाटेनास्मि विक्षतः ॥
तत्र मां यमजौ दूरादालोक्य ललितौ किल । बाहुभिः परिगृह्णीतां शोचन्तौ सहितावुभौ ॥
उवाच सहदेवस्तु तत्र मां विस्मयन्निव । इदं द्वारमितो गच्छ राजन्निति पुनः पुनः ॥
नामधेयानि रत्नानां पुरस्तान्न श्रुतानि मे । यानि दृष्टानि मे तस्यां मनस्तपति तच्च मे ॥
← Previous (Ch. 270) Full Table of Contents Next (Ch. 272) →