Skip to main content
Search
MBh
Mahābhārata • Parva 2 (Sabhāparva) • Adhyāya 43

Sabhāparva Adhyāya 43

सभापर्व • अध्यायः 43

Sabhāparva Adhyāya 43 of the classical Mahābhārata with 37 verses.

Total: 37 Verses • Citations: MBh 2.43.1–37 • 250 Lexicon Terms
वसन्दुर्योधनस्तस्यां सभायां भरतर्षभ । शनैर्ददर्श तां सर्वां सभां शकुनिना सह ॥
तस्यां दिव्यानभिप्रायान्ददर्श कुरुनन्दनः । न दृष्टपूर्वा ये तेन नगरे नागसाह्वये ॥
स कदाचित्सभामध्ये धार्तराष्ट्रो महीपतिः । स्फाटिकं तलमासाद्य जलमित्यभिशङ्कया ॥
स्ववस्त्रोत्कर्षणं राजा कृतवान्बुद्धिमोहितः । दुर्मना विमुखश्चैव परिचक्राम तां सभाम् ॥
ततः स्फाटिकतोयां वै स्फाटिकाम्बुजशोभिताम् । वापीं मत्वा स्थलमिति सवासाः प्रापतज्जले ॥
जले निपतितं दृष्ट्वा किंकरा जहसुर्भृशम् । वासांसि च शुभान्यस्मै प्रददू राजशासनात् ॥
तथागतं तु तं दृष्ट्वा भीमसेनो महाबलः । अर्जुनश्च यमौ चोभौ सर्वे ते प्राहसंस्तदा ॥
नामर्षयत्ततस्तेषामवहासममर्षणः । आकारं रक्षमाणस्तु न स तान्समुदैक्षत ॥
पुनर्वसनमुत्क्षिप्य प्रतरिष्यन्निव स्थलम् । आरुरोह ततः सर्वे जहसुस्ते पुनर्जनाः ॥
द्वारं च विवृताकारं ललाटेन समाहनत् । संवृतं चेति मन्वानो द्वारदेशादुपारमत् ॥
एवं प्रलम्भान्विविधान्प्राप्य तत्र विशां पते । पाण्डवेयाभ्यनुज्ञातस्ततो दुर्योधनो नृपः ॥
अप्रहृष्टेन मनसा राजसूये महाक्रतौ । प्रेक्ष्य तामद्भुतामृद्धिं जगाम गजसाह्वयम् ॥
पाण्डवश्रीप्रतप्तस्य ध्यानग्लानस्य गच्छतः । दुर्योधनस्य नृपतेः पापा मतिरजायत ॥
पार्थान्सुमनसो दृष्ट्वा पार्थिवांश्च वशानुगान् । कृत्स्नं चापि हितं लोकमाकुमारं कुरूद्वह ॥
महिमानं परं चापि पाण्डवानां महात्मनाम् । दुर्योधनो धार्तराष्ट्रो विवर्णः समपद्यत ॥
स तु गच्छन्ननेकाग्रः सभामेवानुचिन्तयन् । श्रियं च तामनुपमां धर्मराजस्य धीमतः ॥
प्रमत्तो धृतराष्ट्रस्य पुत्रो दुर्योधनस्तदा । नाभ्यभाषत्सुबलजं भाषमाणं पुनः पुनः ॥
अनेकाग्रं तु तं दृष्ट्वा शकुनिः प्रत्यभाषत । दुर्योधन कुतोमूलं निःश्वसन्निव गच्छसि ॥
दृष्ट्वेमां पृथिवीं कृत्स्नां युधिष्ठिरवशानुगाम् । जितामस्त्रप्रतापेन श्वेताश्वस्य महात्मनः ॥
तं च यज्ञं तथाभूतं दृष्ट्वा पार्थस्य मातुल । यथा शक्रस्य देवेषु तथाभूतं महाद्युते ॥
अमर्षेण सुसंपूर्णो दह्यमानो दिवानिशम् । शुचिशुक्रागमे काले शुष्ये तोयमिवाल्पकम् ॥
पश्य सात्वतमुख्येन शिशुपालं निपातितम् । न च तत्र पुमानासीत्कश्चित्तस्य पदानुगः ॥
दह्यमाना हि राजानः पाण्डवोत्थेन वह्निना । क्षान्तवन्तोऽपराधं तं को हि तं क्षन्तुमर्हति ॥
वासुदेवेन तत्कर्म तथायुक्तं महत्कृतम् । सिद्धं च पाण्डवेयानां प्रतापेन महात्मनाम् ॥
तथा हि रत्नान्यादाय विविधानि नृपा नृपम् । उपतिष्ठन्ति कौन्तेयं वैश्या इव करप्रदाः ॥
श्रियं तथाविधां दृष्ट्वा ज्वलन्तीमिव पाण्डवे । अमर्षवशमापन्नो दह्येऽहमतथोचितः ॥
वह्निमेव प्रवेक्ष्यामि भक्षयिष्यामि वा विषम् । अपो वापि प्रवेक्ष्यामि न हि शक्ष्यामि जीवितुम् ॥
को हि नाम पुमाँल्लोके मर्षयिष्यति सत्त्ववान् । सपत्नानृध्यतो दृष्ट्वा हानिमात्मन एव च ॥
सोऽहं न स्त्री न चाप्यस्त्री न पुमान्नापुमानपि । योऽहं तां मर्षयाम्यद्य तादृशीं श्रियमागताम् ॥
ईश्वरत्वं पृथिव्याश्च वसुमत्तां च तादृशीम् । यज्ञं च तादृशं दृष्ट्वा मादृशः को न संज्वरेत् ॥
अशक्तश्चैक एवाहं तामाहर्तुं नृपश्रियम् । सहायांश्च न पश्यामि तेन मृत्युं विचिन्तये ॥
दैवमेव परं मन्ये पौरुषं तु निरर्थकम् । दृष्ट्वा कुन्तीसुते शुभ्रां श्रियं तामाहृतां तथा ॥
कृतो यत्नो मया पूर्वं विनाशे तस्य सौबल । तच्च सर्वमतिक्रम्य स वृद्धोऽप्स्विव पङ्कजम् ॥
तेन दैवं परं मन्ये पौरुषं तु निरर्थकम् । धार्तराष्ट्रा हि हीयन्ते पार्था वर्धन्ति नित्यशः ॥
सोऽहं श्रियं च तां दृष्ट्वा सभां तां च तथाविधाम् । रक्षिभिश्चावहासं तं परितप्ये यथाग्निना ॥
स मामभ्यनुजानीहि मातुलाद्य सुदुःखितम् । अमर्षं च समाविष्टं धृतराष्ट्रे निवेदय ॥
← Previous (Ch. 267) Full Table of Contents Next (Ch. 269) →