Skip to main content
Search
MBh
Mahābhārata • Parva 2 (Sabhāparva) • Adhyāya 25

Sabhāparva Adhyāya 25

सभापर्व • अध्यायः 25

Sabhāparva Adhyāya 25 of the classical Mahābhārata with 21 verses.

Total: 21 Verses • Citations: MBh 2.25.1–21 • 250 Lexicon Terms
स श्वेतपर्वतं वीरः समतिक्रम्य भारत । देशं किंपुरुषावासं द्रुमपुत्रेण रक्षितम् ॥
महता संनिपातेन क्षत्रियान्तकरेण ह । व्यजयत्पाण्डवश्रेष्ठः करे चैव न्यवेशयत् ॥
तं जित्वा हाटकं नाम देशं गुह्यकरक्षितम् । पाकशासनिरव्यग्रः सहसैन्यः समासदत् ॥
तांस्तु सान्त्वेन निर्जित्य मानसं सर उत्तमम् । ऋषिकुल्याश्च ताः सर्वा ददर्श कुरुनन्दनः ॥
सरो मानसमासाद्य हाटकानभितः प्रभुः । गन्धर्वरक्षितं देशं व्यजयत्पाण्डवस्ततः ॥
तत्र तित्तिरिकल्माषान्मण्डूकाक्षान्हयोत्तमान् । लेभे स करमत्यन्तं गन्धर्वनगरात्तदा ॥
उत्तरं हरिवर्षं तु समासाद्य स पाण्डवः । इयेष जेतुं तं देशं पाकशासननन्दनः ॥
तत एनं महाकाया महावीर्या महाबलाः । द्वारपालाः समासाद्य हृष्टा वचनमब्रुवन् ॥
पार्थ नेदं त्वया शक्यं पुरं जेतुं कथंचन । उपावर्तस्व कल्याण पर्याप्तमिदमच्युत ॥
इदं पुरं यः प्रविशेद्ध्रुवं स न भवेन्नरः । प्रीयामहे त्वया वीर पर्याप्तो विजयस्तव ॥
न चापि किंचिज्जेतव्यमर्जुनात्र प्रदृश्यते । उत्तराः कुरवो ह्येते नात्र युद्धं प्रवर्तते ॥
प्रविष्टश्चापि कौन्तेय नेह द्रक्ष्यसि किंचन । न हि मानुषदेहेन शक्यमत्राभिवीक्षितुम् ॥
अथेह पुरुषव्याघ्र किंचिदन्यच्चिकीर्षसि । तद्ब्रवीहि करिष्यामो वचनात्तव भारत ॥
ततस्तानब्रवीद्राजन्नर्जुनः पाकशासनिः । पार्थिवत्वं चिकीर्षामि धर्मराजस्य धीमतः ॥
न प्रवेक्ष्यामि वो देशं बाध्यत्वं यदि मानुषैः । युधिष्ठिराय यत्किंचित्करवन्नः प्रदीयताम् ॥
ततो दिव्यानि वस्त्राणि दिव्यान्याभरणानि च । मोकाजिनानि दिव्यानि तस्मै ते प्रददुः करम् ॥
एवं स पुरुषव्याघ्रो विजिग्ये दिशमुत्तराम् । संग्रामान्सुबहून्कृत्वा क्षत्रियैर्दस्युभिस्तथा ॥
स विनिर्जित्य राज्ञस्तान्करे च विनिवेश्य ह । धनान्यादाय सर्वेभ्यो रत्नानि विविधानि च ॥
हयांस्तित्तिरिकल्माषाञ्शुकपत्रनिभानपि । मयूरसदृशांश्चान्यान्सर्वाननिलरंहसः ॥
वृतः सुमहता राजन्बलेन चतुरङ्गिणा । आजगाम पुनर्वीरः शक्रप्रस्थं पुरोत्तमम् ॥
← Previous (Ch. 249) Full Table of Contents Next (Ch. 251) →