Skip to main content
Search
MBh
Mahābhārata • Parva 2 (Sabhāparva) • Adhyāya 15

Sabhāparva Adhyāya 15

सभापर्व • अध्यायः 15

Sabhāparva Adhyāya 15 of the classical Mahābhārata with 17 verses.

Total: 17 Verses • Citations: MBh 2.15.1–17 • 250 Lexicon Terms
सम्राड्गुणमभीप्सन्वै युष्मान्स्वार्थपरायणः । कथं प्रहिणुयां भीमं बलात्केवलसाहसात् ॥
भीमार्जुनावुभौ नेत्रे मनो मन्ये जनार्दनम् । मनश्चक्षुर्विहीनस्य कीदृशं जीवितं भवेत् ॥
जरासंधबलं प्राप्य दुष्पारं भीमविक्रमम् । श्रमो हि वः पराजय्यात्किमु तत्र विचेष्टितम् ॥
अस्मिन्नर्थान्तरे युक्तमनर्थः प्रतिपद्यते । यथाहं विमृशाम्येकस्तत्तावच्छ्रूयतां मम ॥
संन्यासं रोचये साधु कार्यस्यास्य जनार्दन । प्रतिहन्ति मनो मेऽद्य राजसूयो दुरासदः ॥
पार्थः प्राप्य धनुःश्रेष्ठमक्षय्यौ च महेषुधी । रथं ध्वजं सभां चैव युधिष्ठिरमभाषत ॥
धनुरस्त्रं शरा वीर्यं पक्षो भूमिर्यशो बलम् । प्राप्तमेतन्मया राजन्दुष्प्रापं यदभीप्सितम् ॥
कुले जन्म प्रशंसन्ति वैद्याः साधु सुनिष्ठिताः । बलेन सदृशं नास्ति वीर्यं तु मम रोचते ॥
कृतवीर्यकुले जातो निर्वीर्यः किं करिष्यति । क्षत्रियः सर्वशो राजन्यस्य वृत्तिः पराजये ॥
सर्वैरपि गुणैर्हीनो वीर्यवान्हि तरेद्रिपून् । सर्वैरपि गुणैर्युक्तो निर्वीर्यः किं करिष्यति ॥
द्रव्यभूता गुणाः सर्वे तिष्ठन्ति हि पराक्रमे । जयस्य हेतुः सिद्धिर्हि कर्म दैवं च संश्रितम् ॥
संयुक्तो हि बलैः कश्चित्प्रमादान्नोपयुज्यते । तेन द्वारेण शत्रुभ्यः क्षीयते सबलो रिपुः ॥
दैन्यं यथाबलवति तथा मोहो बलान्विते । तावुभौ नाशकौ हेतू राज्ञा त्याज्यौ जयार्थिना ॥
जरासंधविनाशं च राज्ञां च परिमोक्षणम् । यदि कुर्याम यज्ञार्थं किं ततः परमं भवेत् ॥
अनारम्भे तु नियतो भवेदगुणनिश्चयः । गुणान्निःसंशयाद्राजन्नैर्गुण्यं मन्यसे कथम् ॥
काषायं सुलभं पश्चान्मुनीनां शममिच्छताम् । साम्राज्यं तु तवेच्छन्तो वयं योत्स्यामहे परैः ॥
← Previous (Ch. 239) Full Table of Contents Next (Ch. 241) →