Skip to main content
Search
MBh
Mahābhārata • Parva 1 (Ādiparva) • Adhyāya 192

Ādiparva Adhyāya 192

आदिपर्व • अध्यायः 192

Ādiparva Adhyāya 192 of the classical Mahābhārata with 30 verses.

Total: 30 Verses • Citations: MBh 1.192.1–30 • 250 Lexicon Terms
ततो राज्ञां चरैराप्तैश्चारः समुपनीयत । पाण्डवैरुपसंपन्ना द्रौपदी पतिभिः शुभा ॥
येन तद्धनुरायम्य लक्ष्यं विद्धं महात्मना । सोऽर्जुनो जयतां श्रेष्ठो महाबाणधनुर्धरः ॥
यः शल्यं मद्रराजानमुत्क्षिप्याभ्रामयद्बली । त्रासयंश्चापि संक्रुद्धो वृक्षेण पुरुषान्रणे ॥
न चापि संभ्रमः कश्चिदासीत्तत्र महात्मनः । स भीमो भीमसंस्पर्शः शत्रुसेनाङ्गपातनः ॥
ब्रह्मरूपधराञ्श्रुत्वा पाण्डुराजसुतांस्तदा । कौन्तेयान्मनुजेन्द्राणां विस्मयः समजायत ॥
सपुत्रा हि पुरा कुन्ती दग्धा जतुगृहे श्रुता । पुनर्जातानिति स्मैतान्मन्यन्ते सर्वपार्थिवाः ॥
धिक्कुर्वन्तस्तदा भीष्मं धृतराष्ट्रं च कौरवम् । कर्मणा सुनृशंसेन पुरोचनकृतेन वै ॥
वृत्ते स्वयंवरे चैव राजानः सर्व एव ते । यथागतं विप्रजग्मुर्विदित्वा पाण्डवान्वृतान् ॥
अथ दुर्योधनो राजा विमना भ्रातृभिः सह । अश्वत्थाम्ना मातुलेन कर्णेन च कृपेण च ॥
विनिवृत्तो वृतं दृष्ट्वा द्रौपद्या श्वेतवाहनम् । तं तु दुःशासनो व्रीडन्मन्दं मन्दमिवाब्रवीत् ॥
यद्यसौ ब्राह्मणो न स्याद्विन्देत द्रौपदीं न सः । न हि तं तत्त्वतो राजन्वेद कश्चिद्धनंजयम् ॥
दैवं तु परमं मन्ये पौरुषं तु निरर्थकम् । धिगस्मत्पौरुषं तात यद्धरन्तीह पाण्डवाः ॥
एवं संभाषमाणास्ते निन्दन्तश्च पुरोचनम् । विविशुर्हास्तिनपुरं दीना विगतचेतसः ॥
त्रस्ता विगतसंकल्पा दृष्ट्वा पार्थान्महौजसः । मुक्तान्हव्यवहाच्चैनान्संयुक्तान्द्रुपदेन च ॥
धृष्टद्युम्नं च संचिन्त्य तथैव च शिखण्डिनम् । द्रुपदस्यात्मजांश्चान्यान्सर्वयुद्धविशारदान् ॥
विदुरस्त्वथ ताञ्श्रुत्वा द्रौपद्या पाण्डवान्वृतान् । व्रीडितान्धार्तराष्ट्रांश्च भग्नदर्पानुपागतान् ॥
ततः प्रीतमनाः क्षत्ता धृतराष्ट्रं विशां पते । उवाच दिष्ट्या कुरवो वर्धन्त इति विस्मितः ॥
वैचित्रवीर्यस्तु नृपो निशम्य विदुरस्य तत् । अब्रवीत्परमप्रीतो दिष्ट्या दिष्ट्येति भारत ॥
मन्यते हि वृतं पुत्रं ज्येष्ठं द्रुपदकन्यया । दुर्योधनमविज्ञानात्प्रज्ञाचक्षुर्नरेश्वरः ॥
अथ त्वाज्ञापयामास द्रौपद्या भूषणं बहु । आनीयतां वै कृष्णेति पुत्रं दुर्योधनं तदा ॥
अथास्य पश्चाद्विदुर आचख्यौ पाण्डवान्वृतान् । सर्वान्कुशलिनो वीरान्पूजितान्द्रुपदेन च । तेषां संबन्धिनश्चान्यान्बहून्बलसमन्वितान् ॥
यथैव पाण्डोः पुत्रास्ते तथैवाभ्यधिका मम । सेयमभ्यधिका प्रीतिर्वृद्धिर्विदुर मे मता । यत्ते कुशलिनो वीरा मित्रवन्तश्च पाण्डवाः ॥
को हि द्रुपदमासाद्य मित्रं क्षत्तः सबान्धवम् । न बुभूषेद्भवेनार्थी गतश्रीरपि पार्थिवः ॥
तं तथा भाषमाणं तु विदुरः प्रत्यभाषत । नित्यं भवतु ते बुद्धिरेषा राजञ्शतं समाः ॥
ततो दुर्योधनश्चैव राधेयश्च विशां पते । धृतराष्ट्रमुपागम्य वचोऽब्रूतामिदं तदा ॥
संनिधौ विदुरस्य त्वां वक्तुं नृप न शक्नुवः । विविक्तमिति वक्ष्यावः किं तवेदं चिकीर्षितम् ॥
सपत्नवृद्धिं यत्तात मन्यसे वृद्धिमात्मनः । अभिष्टौषि च यत्क्षत्तुः समीपे द्विपदां वर ॥
अन्यस्मिन्नृप कर्तव्ये त्वमन्यत्कुरुषेऽनघ । तेषां बलविघातो हि कर्तव्यस्तात नित्यशः ॥
ते वयं प्राप्तकालस्य चिकीर्षां मन्त्रयामहे । यथा नो न ग्रसेयुस्ते सपुत्रबलबान्धवान् ॥
← Previous (Ch. 191) Full Table of Contents Next (Ch. 193) →