Ādiparva Adhyāya 178
आदिपर्व • अध्यायः 178
Ādiparva Adhyāya 178 of the classical Mahābhārata with 19 verses.
Total: 19 Verses
•
Citations: MBh 1.178.1–19
•
250 Lexicon Terms
तेऽलंकृताः कुण्डलिनो युवानः; परस्परं स्पर्धमानाः समेताः । अस्त्रं बलं चात्मनि मन्यमानाः; सर्वे समुत्पेतुरहंकृतेन ॥
Morphemic Decomposition & Padaccheda
ते
तद् [pron]
ऽलंकृताः
अलंकृ [8. Ā.]
कुण्डलिनो
कुण्डलिन् [adj]
युवानः
युवन् [m]
परस्परं
परस्पर [adj]
स्पर्धमानाः
स्पृध् [6. P.]
समेताः
समे [2. P.]
अस्त्रं
अस्त्र [mn]
बलं
बल [mn]
चात्मनि
च [ind]
चात्मनि
आत्मन् [m]
मन्यमानाः
मन् [8. P.]
सर्वे
सर्व [pron]
समुत्पेतुर्
समुत्पत् [1. Ā.]
अहंकृतेन
अहंकृत [adj]
रूपेण वीर्येण कुलेन चैव; धर्मेण चैवापि च यौवनेन । समृद्धदर्पा मदवेगभिन्ना; मत्ता यथा हैमवता गजेन्द्राः ॥
Morphemic Decomposition & Padaccheda
रूपेण
रूप [n]
वीर्येण
वीर्य [n]
कुलेन
कुल [n]
चैव
च [ind]
चैव
एव [ind]
धर्मेण
धर्म [mn]
चैवापि
च [ind]
चैवापि
एव [ind]
चैवापि
अपि [ind]
च
च [ind]
यौवनेन
यौवन [n]
समृद्धदर्पा
समृध् [4. Ā.]
समृद्धदर्पा
दर्प [m]
मदवेगभिन्ना
मद [m]
मदवेगभिन्ना
वेग [m]
मदवेगभिन्ना
भिद् [6. P.]
मत्ता
मद् [3. P.]
यथा
यथा [ind]
हैमवता
हैमवत [adj]
गजेन्द्राः
गज [m]
गजेन्द्राः
इन्द्र [m]
परस्परं स्पर्धया प्रेक्षमाणाः; संकल्पजेनापि परिप्लुताङ्गाः । कृष्णा ममैषेत्यभिभाषमाणा; नृपासनेभ्यः सहसोपतस्थुः ॥
Morphemic Decomposition & Padaccheda
परस्परं
परस्पर [adj]
स्पर्धया
स्पर्धा [f]
प्रेक्षमाणाः
प्रेक्ष् [1. P.]
संकल्पजेनापि
संकल्पज [m]
संकल्पजेनापि
अपि [ind]
परिप्लुताङ्गाः
परिप्लु [1. Ā.]
परिप्लुताङ्गाः
अङ्ग [n]
कृष्णा
कृष्णा [f]
ममैषेत्यभिभाषमाणा
मद् [pron]
ममैषेत्यभिभाषमाणा
एतद् [pron]
ममैषेत्यभिभाषमाणा
इति [ind]
ममैषेत्यभिभाषमाणा
अभिभाष् [1. P.]
नृपासनेभ्यः
नृप [m]
नृपासनेभ्यः
आसन [n]
सहसोपतस्थुः
सहस् [n]
सहसोपतस्थुः
उपस्था [1. Ā.]
ते क्षत्रिया रङ्गगताः समेता; जिगीषमाणा द्रुपदात्मजां ताम् । चकाशिरे पर्वतराजकन्या;मुमां यथा देवगणाः समेताः ॥
Morphemic Decomposition & Padaccheda
ते
तद् [pron]
क्षत्रिया
क्षत्रिय [m]
रङ्गगताः
रङ्ग [m]
रङ्गगताः
गम् [6. Ā.]
समेता
समे [2. P.]
जिगीषमाणा
जिगीष् [Desid. Ā.]
द्रुपदात्मजां
द्रुपद [m]
द्रुपदात्मजां
आत्मजा [f]
ताम्
तद् [pron]
चकाशिरे
काश् [1. P.]
पर्वतराजकन्याम्
पर्वतराज [m]
पर्वतराजकन्याम्
कन्या [f]
उमां
उमा [f]
यथा
यथा [ind]
देवगणाः
देव [m]
देवगणाः
गण [m]
समेताः
समे [2. P.]
कन्दर्पबाणाभिनिपीडिताङ्गाः; कृष्णागतैस्ते हृदयैर्नरेन्द्राः । रङ्गावतीर्णा द्रुपदात्मजार्थं; द्वेष्यान्हि चक्रुः सुहृदोऽपि तत्र ॥
Morphemic Decomposition & Padaccheda
कन्दर्पबाणाभिनिपीडिताङ्गाः
कन्दर्प [m]
कन्दर्पबाणाभिनिपीडिताङ्गाः
बाण [m]
कन्दर्पबाणाभिनिपीडिताङ्गाः
अभिनिपीडय् [10. P.]
कन्दर्पबाणाभिनिपीडिताङ्गाः
अङ्ग [n]
कृष्णागतैस्ते
कृष्णा [f]
कृष्णागतैस्ते
गम् [6. Ā.]
कृष्णागतैस्ते
तद् [pron]
हृदयैर्
हृदय [n]
नरेन्द्राः
नरेन्द्र [m]
रङ्गावतीर्णा
रङ्ग [m]
रङ्गावतीर्णा
अवतृ [6. P.]
द्रुपदात्मजार्थं
द्रुपद [m]
द्रुपदात्मजार्थं
आत्मजा [f]
द्रुपदात्मजार्थं
अर्थ [mn]
द्वेष्यान्
द्विष् [1. P.]
हि
हि [ind]
चक्रुः
कृ [2. Ā.]
सुहृदो
सुहृद् [m]
ऽपि
अपि [ind]
तत्र
तत्र [ind]
अथाययुर्देवगणा विमानै; रुद्रादित्या वसवोऽथाश्विनौ च । साध्याश्च सर्वे मरुतस्तथैव; यमं पुरस्कृत्य धनेश्वरं च ॥
Morphemic Decomposition & Padaccheda
अथाययुर्
अथ [ind]
अथाययुर्
आया [2. Ā.]
देवगणा
देव [m]
देवगणा
गण [m]
रुद्रादित्या
रुद्र [m]
रुद्रादित्या
आदित्य [m]
वसवो
वसु [mn]
ऽथाश्विनौ
अथ [ind]
ऽथाश्विनौ
अश्विन् [m]
च
च [ind]
साध्याश्च
साध्य [m]
साध्याश्च
च [ind]
सर्वे
सर्व [pron]
मरुतस्तथैव
मरुत् [m]
मरुतस्तथैव
तथा [ind]
मरुतस्तथैव
एव [ind]
यमं
यम [m]
पुरस्कृत्य
पुरस्कृ [8. Ā.]
धनेश्वरं
धनेश्वर [m]
च
च [ind]
दैत्याः सुपर्णाश्च महोरगाश्च; देवर्षयो गुह्यकाश्चारणाश्च । विश्वावसुर्नारदपर्वतौ च; गन्धर्वमुख्याश्च सहाप्सरोभिः ॥
Morphemic Decomposition & Padaccheda
दैत्याः
दैत्य [m]
सुपर्णाश्च
सुपर्ण [m]
सुपर्णाश्च
च [ind]
महोरगाश्च
महत् [adj]
महोरगाश्च
उरग [mn]
महोरगाश्च
च [ind]
देवर्षयो
देवर्षि [m]
गुह्यकाश्चारणाश्च
गुह्यक [m]
गुह्यकाश्चारणाश्च
चारण [m]
गुह्यकाश्चारणाश्च
च [ind]
विश्वावसुर्
विश्वावसु [m]
नारदपर्वतौ
नारद [m]
नारदपर्वतौ
पर्वत [mn]
च
च [ind]
गन्धर्वमुख्याश्च
गन्धर्व [m]
गन्धर्वमुख्याश्च
मुख्य [adj]
गन्धर्वमुख्याश्च
च [ind]
सहाप्सरोभिः
सह [ind]
सहाप्सरोभिः
अप्सरस् [f]
हलायुधस्तत्र च केशवश्च; वृष्ण्यन्धकाश्चैव यथा प्रधानाः । प्रेक्षां स्म चक्रुर्यदुपुंगवास्ते; स्थिताश्च कृष्णस्य मते बभूवुः ॥
Morphemic Decomposition & Padaccheda
हलायुधस्तत्र
हलायुध [m]
हलायुधस्तत्र
तत्र [ind]
च
च [ind]
केशवश्च
केशव [m]
केशवश्च
च [ind]
वृष्ण्यन्धकाश्चैव
वृष्णि [m]
वृष्ण्यन्धकाश्चैव
अन्धक [m]
वृष्ण्यन्धकाश्चैव
च [ind]
वृष्ण्यन्धकाश्चैव
एव [ind]
यथा
यथा [ind]
प्रधानाः
प्रधान [adj]
प्रेक्षां
प्रेक्षा [f]
स्म
स्म [ind]
चक्रुर्
कृ [2. Ā.]
यदुपुंगवास्ते
यदु [m]
यदुपुंगवास्ते
पुंगव [m]
यदुपुंगवास्ते
तद् [pron]
स्थिताश्च
स्था [1. Ā.]
स्थिताश्च
च [ind]
कृष्णस्य
कृष्ण [m]
मते
मत [n]
बभूवुः
भू [1. Ā.]
दृष्ट्वा हि तान्मत्तगजेन्द्ररूपा;न्पञ्चाभिपद्मानिव वारणेन्द्रान् । भस्मावृताङ्गानिव हव्यवाहा;न्पार्थान्प्रदध्यौ स यदुप्रवीरः ॥
Morphemic Decomposition & Padaccheda
दृष्ट्वा
दृश् [6. P.]
हि
हि [ind]
तान्
तद् [pron]
मत्तगजेन्द्ररूपान्
मद् [3. P.]
मत्तगजेन्द्ररूपान्
गज [m]
मत्तगजेन्द्ररूपान्
इन्द्र [m]
मत्तगजेन्द्ररूपान्
रूप [n]
पञ्चाभिपद्मान्
पञ्चन् [adj]
पञ्चाभिपद्मान्
अभिपद्म [adj]
इव
इव [ind]
वारणेन्द्रान्
वारण [m]
वारणेन्द्रान्
इन्द्र [m]
भस्मावृताङ्गान्
भस्मन् [n]
भस्मावृताङ्गान्
आवृ [5. Ā.]
भस्मावृताङ्गान्
अङ्ग [n]
इव
इव [ind]
हव्यवाहान्
हव्यवाह [m]
पार्थान्
पार्थ [m]
प्रदध्यौ
प्रध्या [4. Ā.]
स
तद् [pron]
यदुप्रवीरः
यदु [m]
यदुप्रवीरः
प्रवीर [m]
शशंस रामाय युधिष्ठिरं च; भीमं च जिष्णुं च यमौ च वीरौ । शनैः शनैस्तांश्च निरीक्ष्य रामो; जनार्दनं प्रीतमना ददर्श ॥
Morphemic Decomposition & Padaccheda
शशंस
शंस् [2. Ā.]
रामाय
राम [m]
युधिष्ठिरं
युधिष्ठिर [m]
च
च [ind]
भीमं
भीम [m]
च
च [ind]
जिष्णुं
जिष्णु [m]
च
च [ind]
यमौ
यम [m]
च
च [ind]
वीरौ
वीर [m]
शनैः
शनैस् [ind]
शनैस्तांश्च
शनैस् [ind]
शनैस्तांश्च
तद् [pron]
शनैस्तांश्च
च [ind]
निरीक्ष्य
निरीक्ष् [1. P.]
रामो
राम [m]
जनार्दनं
जनार्दन [m]
प्रीतमना
प्री [9. Ā.]
प्रीतमना
मनस् [n]
ददर्श
दृश् [6. P.]
अन्ये तु नानानृपपुत्रपौत्राः; कृष्णागतैर्नेत्रमनःस्वभावैः । व्यायच्छमाना ददृशुर्भ्रमन्तीं; संदष्टदन्तच्छदताम्रवक्त्राः ॥
Morphemic Decomposition & Padaccheda
अन्ये
अन्य [pron]
तु
तु [ind]
नानानृपपुत्रपौत्राः
नाना [ind]
नानानृपपुत्रपौत्राः
नृप [m]
नानानृपपुत्रपौत्राः
पुत्र [m]
नानानृपपुत्रपौत्राः
पौत्र [m]
कृष्णागतैर्
कृष्णा [f]
कृष्णागतैर्
गम् [6. Ā.]
नेत्रमनःस्वभावैः
नेत्र [mn]
नेत्रमनःस्वभावैः
मनस् [n]
नेत्रमनःस्वभावैः
स्वभाव [m]
व्यायच्छमाना
व्यायम् [1. Ā.]
ददृशुर्
दृश् [6. P.]
भ्रमन्तीं
भ्रम् [4. Ā.]
संदष्टदन्तच्छदताम्रवक्त्राः
संदंश् [1. P.]
संदष्टदन्तच्छदताम्रवक्त्राः
दन्तच्छद [m]
संदष्टदन्तच्छदताम्रवक्त्राः
ताम्र [adj]
संदष्टदन्तच्छदताम्रवक्त्राः
वक्त्र [n]
तथैव पार्थाः पृथुबाहवस्ते; वीरौ यमौ चैव महानुभावौ । तां द्रौपदीं प्रेक्ष्य तदा स्म सर्वे; कन्दर्पबाणाभिहता बभूवुः ॥
Morphemic Decomposition & Padaccheda
तथैव
तथा [ind]
तथैव
एव [ind]
पार्थाः
पार्थ [m]
पृथुबाहवस्ते
पृथु [adj]
पृथुबाहवस्ते
बाहु [mf]
पृथुबाहवस्ते
तद् [pron]
वीरौ
वीर [m]
यमौ
यम [m]
चैव
च [ind]
चैव
एव [ind]
महानुभावौ
महत् [adj]
महानुभावौ
अनुभाव [m]
तां
तद् [pron]
द्रौपदीं
द्रौपदी [f]
प्रेक्ष्य
प्रेक्ष् [1. P.]
तदा
तदा [ind]
स्म
स्म [ind]
सर्वे
सर्व [pron]
कन्दर्पबाणाभिहता
कन्दर्प [m]
कन्दर्पबाणाभिहता
बाण [m]
कन्दर्पबाणाभिहता
अभिहन् [4. P.]
बभूवुः
भू [1. Ā.]
देवर्षिगन्धर्वसमाकुलं त;त्सुपर्णनागासुरसिद्धजुष्टम् । दिव्येन गन्धेन समाकुलं च; दिव्यैश्च माल्यैरवकीर्यमाणम् ॥
Morphemic Decomposition & Padaccheda
देवर्षिगन्धर्वसमाकुलं
देवर्षि [m]
देवर्षिगन्धर्वसमाकुलं
गन्धर्व [m]
देवर्षिगन्धर्वसमाकुलं
समाकुल [adj]
तत्
तद् [pron]
सुपर्णनागासुरसिद्धजुष्टम्
सुपर्ण [m]
सुपर्णनागासुरसिद्धजुष्टम्
नाग [m]
सुपर्णनागासुरसिद्धजुष्टम्
असुर [m]
सुपर्णनागासुरसिद्धजुष्टम्
सिद्ध [m]
सुपर्णनागासुरसिद्धजुष्टम्
जुष् [6. Ā.]
दिव्येन
दिव्य [adj]
गन्धेन
गन्ध [mn]
समाकुलं
समाकुल [adj]
च
च [ind]
दिव्यैश्च
दिव्य [adj]
दिव्यैश्च
च [ind]
माल्यैर्
माल्य [n]
अवकीर्यमाणम्
अवकृ [6. Ā.]
महास्वनैर्दुन्दुभिनादितैश्च; बभूव तत्संकुलमन्तरिक्षम् । विमानसंबाधमभूत्समन्ता;त्सवेणुवीणापणवानुनादम् ॥
Morphemic Decomposition & Padaccheda
महास्वनैर्
महत् [adj]
महास्वनैर्
स्वन [m]
दुन्दुभिनादितैश्च
दुन्दुभि [mf]
दुन्दुभिनादितैश्च
नादय् [10. Ā.]
दुन्दुभिनादितैश्च
च [ind]
बभूव
भू [1. Ā.]
तत्
तद् [pron]
संकुलम्
संकुल [adj]
अन्तरिक्षम्
अन्तरिक्ष [n]
विमानसंबाधम्
विमान [mn]
विमानसंबाधम्
सम्बाध [m]
अभूत्
भू [1. Ā.]
समन्तात्
समन्तात् [ind]
सवेणुवीणापणवानुनादम्
स [ind]
सवेणुवीणापणवानुनादम्
वेणु [m]
सवेणुवीणापणवानुनादम्
वीणा [f]
सवेणुवीणापणवानुनादम्
पणव [m]
सवेणुवीणापणवानुनादम्
अनुनाद [m]
ततस्तु ते राजगणाः क्रमेण; कृष्णानिमित्तं नृप विक्रमन्तः । तत्कार्मुकं संहननोपपन्नं; सज्यं न शेकुस्तरसापि कर्तुम् ॥
Morphemic Decomposition & Padaccheda
ततस्तु
ततस् [ind]
ततस्तु
तु [ind]
ते
तद् [pron]
राजगणाः
राजन् [m]
राजगणाः
गण [m]
क्रमेण
क्रमेण [ind]
कृष्णानिमित्तं
कृष्णा [f]
कृष्णानिमित्तं
निमित्त [n]
नृप
नृप [m]
विक्रमन्तः
विक्रम् [1. Ā.]
तत्
तद् [pron]
कार्मुकं
कार्मुक [n]
संहननोपपन्नं
संहनन [n]
संहननोपपन्नं
उपपद् [4. P.]
सज्यं
सज्य [adj]
न
न [ind]
शेकुस्तरसापि
शक् [4. P.]
शेकुस्तरसापि
तरस् [n]
शेकुस्तरसापि
अपि [ind]
कर्तुम्
कृ [2. Ā.]
ते विक्रमन्तः स्फुरता दृढेन; निष्कृष्यमाणा धनुषा नरेन्द्राः । विचेष्टमाना धरणीतलस्था; दीना अदृश्यन्त विभग्नचित्ताः ॥
Morphemic Decomposition & Padaccheda
ते
तद् [pron]
विक्रमन्तः
विक्रम् [1. Ā.]
स्फुरता
स्फुर् [6. Ā.]
दृढेन
दृढ [adj]
निष्कृष्यमाणा
निष्कृष् [1. P.]
धनुषा
धनुस् [n]
नरेन्द्राः
नरेन्द्र [m]
विचेष्टमाना
विचेष्ट् [1. Ā.]
धरणीतलस्था
धरणी [f]
धरणीतलस्था
तल [mn]
धरणीतलस्था
स्थ [adj]
दीना
दीन [adj]
अदृश्यन्त
दृश् [6. P.]
विभग्नचित्ताः
विभञ्ज् [7. P.]
विभग्नचित्ताः
चित्त [n]
हाहाकृतं तद्धनुषा दृढेन; निष्पिष्टभग्नाङ्गदकुण्डलं च । कृष्णानिमित्तं विनिवृत्तभावं; राज्ञां तदा मण्डलमार्तमासीत् ॥
Morphemic Decomposition & Padaccheda
हाहाकृतं
हाहाकृत [adj]
तद्
तद् [pron]
धनुषा
धनुस् [n]
दृढेन
दृढ [adj]
निष्पिष्टभग्नाङ्गदकुण्डलं
निष्पिष् [6. P.]
निष्पिष्टभग्नाङ्गदकुण्डलं
भञ्ज् [4. P.]
निष्पिष्टभग्नाङ्गदकुण्डलं
अङ्गद [n]
निष्पिष्टभग्नाङ्गदकुण्डलं
कुण्डल [n]
च
च [ind]
कृष्णानिमित्तं
कृष्णा [f]
कृष्णानिमित्तं
निमित्त [n]
विनिवृत्तभावं
विनिवृत् [1. Ā.]
विनिवृत्तभावं
भाव [m]
राज्ञां
राजन् [m]
तदा
तदा [ind]
मण्डलम्
मण्डल [mfn]
आर्तम्
आर्त [adj]
आसीत्
अस् [2. P.]
तस्मिंस्तु संभ्रान्तजने समाजे; निक्षिप्तवादेषु नराधिपेषु । कुन्तीसुतो जिष्णुरियेष कर्तुं; सज्यं धनुस्तत्सशरं स वीरः ॥
Morphemic Decomposition & Padaccheda
तस्मिंस्तु
तद् [pron]
तस्मिंस्तु
तु [ind]
संभ्रान्तजने
सम्भ्रम् [1. P.]
संभ्रान्तजने
जन [m]
समाजे
समाज [m]
निक्षिप्तवादेषु
निक्षिप् [6. Ā.]
निक्षिप्तवादेषु
वाद [m]
नराधिपेषु
नर [m]
नराधिपेषु
अधिप [m]
कुन्तीसुतो
कुन्ती [f]
कुन्तीसुतो
सुत [m]
जिष्णुर्
जिष्णु [m]
इयेष
इष् [1. P.]
कर्तुं
कृ [2. Ā.]
सज्यं
सज्य [adj]
धनुस्तत्
धनुस् [n]
धनुस्तत्
तद् [pron]
सशरं
स [ind]
सशरं
शर [m]
स
तद् [pron]
वीरः
वीर [m]