Skip to main content
Search
MBh
Mahābhārata • Parva 1 (Ādiparva) • Adhyāya 170

Ādiparva Adhyāya 170

आदिपर्व • अध्यायः 170

Ādiparva Adhyāya 170 of the classical Mahābhārata with 22 verses.

Total: 22 Verses • Citations: MBh 1.170.1–22 • 250 Lexicon Terms
नाहं गृह्णामि वस्तात दृष्टीर्नास्ति रुषान्विता । अयं तु भार्गवो नूनमूरुजः कुपितोऽद्य वः ॥
तेन चक्षूंषि वस्तात नूनं कोपान्महात्मना । स्मरता निहतान्बन्धूनादत्तानि न संशयः ॥
गर्भानपि यदा यूयं भृगूणां घ्नत पुत्रकाः । तदायमूरुणा गर्भो मया वर्षशतं धृतः ॥
षडङ्गश्चाखिलो वेद इमं गर्भस्थमेव हि । विवेश भृगुवंशस्य भूयः प्रियचिकीर्षया ॥
सोऽयं पितृवधान्नूनं क्रोधाद्वो हन्तुमिच्छति । तेजसा यस्य दिव्येन चक्षूंषि मुषितानि वः ॥
तमिमं तात याचध्वमौर्वं मम सुतोत्तमम् । अयं वः प्रणिपातेन तुष्टो दृष्टीर्विमोक्ष्यति ॥
एवमुक्तास्ततः सर्वे राजानस्ते तमूरुजम् । ऊचुः प्रसीदेति तदा प्रसादं च चकार सः ॥
अनेनैव च विख्यातो नाम्ना लोकेषु सत्तमः । स और्व इति विप्रर्षिरूरुं भित्त्वा व्यजायत ॥
चक्षूंषि प्रतिलभ्याथ प्रतिजग्मुस्ततो नृपाः । भार्गवस्तु मुनिर्मेने सर्वलोकपराभवम् ॥
स चक्रे तात लोकानां विनाशाय महामनाः । सर्वेषामेव कार्त्स्न्येन मनः प्रवणमात्मनः ॥
इच्छन्नपचितिं कर्तुं भृगूणां भृगुसत्तमः । सर्वलोकविनाशाय तपसा महतैधितः ॥
तापयामास लोकान्स सदेवासुरमानुषान् । तपसोग्रेण महता नन्दयिष्यन्पितामहान् ॥
ततस्तं पितरस्तात विज्ञाय भृगुसत्तमम् । पितृलोकादुपागम्य सर्व ऊचुरिदं वचः ॥
और्व दृष्टः प्रभावस्ते तपसोग्रस्य पुत्रक । प्रसादं कुरु लोकानां नियच्छ क्रोधमात्मनः ॥
नानीशैर्हि तदा तात भृगुभिर्भावितात्मभिः । वधोऽभ्युपेक्षितः सर्वैः क्षत्रियाणां विहिंसताम् ॥
आयुषा हि प्रकृष्टेन यदा नः खेद आविशत् । तदास्माभिर्वधस्तात क्षत्रियैरीप्सितः स्वयम् ॥
निखातं तद्धि वै वित्तं केनचिद्भृगुवेश्मनि । वैरायैव तदा न्यस्तं क्षत्रियान्कोपयिष्णुभिः । किं हि वित्तेन नः कार्यं स्वर्गेप्सूनां द्विजर्षभ ॥
यदा तु मृत्युरादातुं न नः शक्नोति सर्वशः । तदास्माभिरयं दृष्ट उपायस्तात संमतः ॥
आत्महा च पुमांस्तात न लोकाँल्लभते शुभान् । ततोऽस्माभिः समीक्ष्यैवं नात्मनात्मा विनाशितः ॥
न चैतन्नः प्रियं तात यदिदं कर्तुमिच्छसि । नियच्छेदं मनः पापात्सर्वलोकपराभवात् ॥
न हि नः क्षत्रियाः केचिन्न लोकाः सप्त पुत्रक । दूषयन्ति तपस्तेजः क्रोधमुत्पतितं जहि ॥
← Previous (Ch. 169) Full Table of Contents Next (Ch. 171) →