Skip to main content
Search
MBh
Mahābhārata • Parva 1 (Ādiparva) • Adhyāya 169

Ādiparva Adhyāya 169

आदिपर्व • अध्यायः 169

Ādiparva Adhyāya 169 of the classical Mahābhārata with 26 verses.

Total: 26 Verses • Citations: MBh 1.169.1–26 • 250 Lexicon Terms
आश्रमस्था ततः पुत्रमदृश्यन्ती व्यजायत । शक्तेः कुलकरं राजन्द्वितीयमिव शक्तिनम् ॥
जातकर्मादिकास्तस्य क्रियाः स मुनिपुंगवः । पौत्रस्य भरतश्रेष्ठ चकार भगवान्स्वयम् ॥
परासुश्च यतस्तेन वसिष्ठः स्थापितस्तदा । गर्भस्थेन ततो लोके पराशर इति स्मृतः ॥
अमन्यत स धर्मात्मा वसिष्ठं पितरं तदा । जन्मप्रभृति तस्मिंश्च पितरीव व्यवर्तत ॥
स तात इति विप्रर्षिं वसिष्ठं प्रत्यभाषत । मातुः समक्षं कौन्तेय अदृश्यन्त्याः परंतप ॥
तातेति परिपूर्णार्थं तस्य तन्मधुरं वचः । अदृश्यन्त्यश्रुपूर्णाक्षी शृण्वन्ती तमुवाच ह ॥
मा तात तात तातेति न ते तातो महामुनिः । रक्षसा भक्षितस्तात तव तातो वनान्तरे ॥
मन्यसे यं तु तातेति नैष तातस्तवानघ । आर्यस्त्वेष पिता तस्य पितुस्तव महात्मनः ॥
स एवमुक्तो दुःखार्तः सत्यवागृषिसत्तमः । सर्वलोकविनाशाय मतिं चक्रे महामनाः ॥
तं तथा निश्चितात्मानं महात्मानं महातपाः । वसिष्ठो वारयामास हेतुना येन तच्छृणु ॥
कृतवीर्य इति ख्यातो बभूव नृपतिः क्षितौ । याज्यो वेदविदां लोके भृगूणां पार्थिवर्षभः ॥
स तानग्रभुजस्तात धान्येन च धनेन च । सोमान्ते तर्पयामास विपुलेन विशां पतिः ॥
तस्मिन्नृपतिशार्दूले स्वर्यातेऽथ कदाचन । बभूव तत्कुलेयानां द्रव्यकार्यमुपस्थितम् ॥
ते भृगूणां धनं ज्ञात्वा राजानः सर्व एव ह । याचिष्णवोऽभिजग्मुस्तांस्तात भार्गवसत्तमान् ॥
भूमौ तु निदधुः केचिद्भृगवो धनमक्षयम् । ददुः केचिद्द्विजातिभ्यो ज्ञात्वा क्षत्रियतो भयम् ॥
भृगवस्तु ददुः केचित्तेषां वित्तं यथेप्सितम् । क्षत्रियाणां तदा तात कारणान्तरदर्शनात् ॥
ततो महीतलं तात क्षत्रियेण यदृच्छया । खनताधिगतं वित्तं केनचिद्भृगुवेश्मनि । तद्वित्तं ददृशुः सर्वे समेताः क्षत्रियर्षभाः ॥
अवमन्य ततः कोपाद्भृगूंस्ताञ्शरणागतान् । निजघ्नुस्ते महेष्वासाः सर्वांस्तान्निशितैः शरैः । आ गर्भादनुकृन्तन्तश्चेरुश्चैव वसुंधराम् ॥
तत उच्छिद्यमानेषु भृगुष्वेवं भयात्तदा । भृगुपत्न्यो गिरिं तात हिमवन्तं प्रपेदिरे ॥
तासामन्यतमा गर्भं भयाद्दाधार तैजसम् । ऊरुणैकेन वामोरूर्भर्तुः कुलविवृद्धये । ददृशुर्ब्राह्मणीं तां ते दीप्यमानां स्वतेजसा ॥
अथ गर्भः स भित्त्वोरुं ब्राह्मण्या निर्जगाम ह । मुष्णन्दृष्टीः क्षत्रियाणां मध्याह्न इव भास्करः । ततश्चक्षुर्वियुक्तास्ते गिरिदुर्गेषु बभ्रमुः ॥
ततस्ते मोघसंकल्पा भयार्ताः क्षत्रियर्षभाः । ब्रह्मणीं शरणं जग्मुर्दृष्ट्यर्थं तामनिन्दिताम् ॥
ऊचुश्चैनां महाभागां क्षत्रियास्ते विचेतसः । ज्योतिःप्रहीणा दुःखार्ताः शान्तार्चिष इवाग्नयः ॥
भगवत्याः प्रसादेन गच्छेत्क्षत्रं सचक्षुषम् । उपारम्य च गच्छेम सहिताः पापकर्मणः ॥
सपुत्रा त्वं प्रसादं नः सर्वेषां कर्तुमर्हसि । पुनर्दृष्टिप्रदानेन राज्ञः संत्रातुमर्हसि ॥
← Previous (Ch. 168) Full Table of Contents Next (Ch. 170) →