Skip to main content
Search
MBh
Mahābhārata • Parva 1 (Ādiparva) • Adhyāya 153

Ādiparva Adhyāya 153

आदिपर्व • अध्यायः 153

Ādiparva Adhyāya 153 of the classical Mahābhārata with 13 verses.

Total: 13 Verses • Citations: MBh 1.153.1–13 • 250 Lexicon Terms
ते तथा पुरुषव्याघ्रा निहत्य बकराक्षसम् । अत ऊर्ध्वं ततो ब्रह्मन्किमकुर्वत पाण्डवाः ॥
तत्रैव न्यवसन्राजन्निहत्य बकराक्षसम् । अधीयानाः परं ब्रह्म ब्राह्मणस्य निवेशने ॥
ततः कतिपयाहस्य ब्राह्मणः संशितव्रतः । प्रतिश्रयार्थं तद्वेश्म ब्राह्मणस्याजगाम ह ॥
स सम्यक्पूजयित्वा तं विद्वान्विप्रर्षभस्तदा । ददौ प्रतिश्रयं तस्मै सदा सर्वातिथिव्रती ॥
ततस्ते पाण्डवाः सर्वे सह कुन्त्या नरर्षभाः । उपासां चक्रिरे विप्रं कथयानं कथास्तदा ॥
कथयामास देशान्स तीर्थानि विविधानि च । राज्ञां च विविधाश्चर्याः पुराणि विविधानि च ॥
स तत्राकथयद्विप्रः कथान्ते जनमेजय । पाञ्चालेष्वद्भुताकारं याज्ञसेन्याः स्वयंवरम् ॥
धृष्टद्युम्नस्य चोत्पत्तिमुत्पत्तिं च शिखण्डिनः । अयोनिजत्वं कृष्णाया द्रुपदस्य महामखे ॥
तदद्भुततमं श्रुत्वा लोके तस्य महात्मनः । विस्तरेणैव पप्रच्छुः कथां तां पुरुषर्षभाः ॥
कथं द्रुपदपुत्रस्य धृष्टद्युम्नस्य पावकात् । वेदिमध्याच्च कृष्णायाः संभवः कथमद्भुतः ॥
कथं द्रोणान्महेष्वासात्सर्वाण्यस्त्राण्यशिक्षत । कथं प्रियसखायौ तौ भिन्नौ कस्य कृतेन च ॥
एवं तैश्चोदितो राजन्स विप्रः पुरुषर्षभैः । कथयामास तत्सर्वं द्रौपदीसंभवं तदा ॥
← Previous (Ch. 152) Full Table of Contents Next (Ch. 154) →