Skip to main content
Search
MBh
Mahābhārata • Parva 1 (Ādiparva) • Adhyāya 151

Ādiparva Adhyāya 151

आदिपर्व • अध्यायः 151

Ādiparva Adhyāya 151 of the classical Mahābhārata with 25 verses.

Total: 25 Verses • Citations: MBh 1.151.1–25 • 250 Lexicon Terms
ततो रात्र्यां व्यतीतायामन्नमादाय पाण्डवः । भीमसेनो ययौ तत्र यत्रासौ पुरुषादकः ॥
आसाद्य तु वनं तस्य रक्षसः पाण्डवो बली । आजुहाव ततो नाम्ना तदन्नमुपयोजयन् ॥
ततः स राक्षसः श्रुत्वा भीमसेनस्य तद्वचः । आजगाम सुसंक्रुद्धो यत्र भीमो व्यवस्थितः ॥
महाकायो महावेगो दारयन्निव मेदिनीम् । त्रिशिखां भृकुटिं कृत्वा संदश्य दशनच्छदम् ॥
भुञ्जानमन्नं तं दृष्ट्वा भीमसेनं स राक्षसः । विवृत्य नयने क्रुद्ध इदं वचनमब्रवीत् ॥
कोऽयमन्नमिदं भुङ्क्ते मदर्थमुपकल्पितम् । पश्यतो मम दुर्बुद्धिर्यियासुर्यमसादनम् ॥
भीमसेनस्तु तच्छ्रुत्वा प्रहसन्निव भारत । राक्षसं तमनादृत्य भुङ्क्त एव पराङ्मुखः ॥
ततः स भैरवं कृत्वा समुद्यम्य करावुभौ । अभ्यद्रवद्भीमसेनं जिघांसुः पुरुषादकः ॥
तथापि परिभूयैनं नेक्षमाणो वृकोदरः । राक्षसं भुङ्क्त एवान्नं पाण्डवः परवीरहा ॥
अमर्षेण तु संपूर्णः कुन्तीपुत्रस्य राक्षसः । जघान पृष्ठं पाणिभ्यामुभाभ्यां पृष्ठतः स्थितः ॥
तथा बलवता भीमः पाणिभ्यां भृशमाहतः । नैवावलोकयामास राक्षसं भुङ्क्त एव सः ॥
ततः स भूयः संक्रुद्धो वृक्षमादाय राक्षसः । ताडयिष्यंस्तदा भीमं पुनरभ्यद्रवद्बली ॥
ततो भीमः शनैर्भुक्त्वा तदन्नं पुरुषर्षभः । वार्युपस्पृश्य संहृष्टस्तस्थौ युधि महाबलः ॥
क्षिप्तं क्रुद्धेन तं वृक्षं प्रतिजग्राह वीर्यवान् । सव्येन पाणिना भीमः प्रहसन्निव भारत ॥
ततः स पुनरुद्यम्य वृक्षान्बहुविधान्बली । प्राहिणोद्भीमसेनाय तस्मै भीमश्च पाण्डवः ॥
तद्वृक्षयुद्धमभवन्महीरुहविनाशनम् । घोररूपं महाराज बकपाण्डवयोर्महत् ॥
नाम विश्राव्य तु बकः समभिद्रुत्य पाण्डवम् । भुजाभ्यां परिजग्राह भीमसेनं महाबलम् ॥
भीमसेनोऽपि तद्रक्षः परिरभ्य महाभुजः । विस्फुरन्तं महावेगं विचकर्ष बलाद्बली ॥
स कृष्यमाणो भीमेन कर्षमाणश्च पाण्डवम् । समयुज्यत तीव्रेण श्रमेण पुरुषादकः ॥
तयोर्वेगेन महता पृथिवी समकम्पत । पादपांश्च महाकायांश्चूर्णयामासतुस्तदा ॥
हीयमानं तु तद्रक्षः समीक्ष्य भरतर्षभ । निष्पिष्य भूमौ पाणिभ्यां समाजघ्ने वृकोदरः ॥
ततोऽस्य जानुना पृष्ठमवपीड्य बलादिव । बाहुना परिजग्राह दक्षिणेन शिरोधराम् ॥
सव्येन च कटीदेशे गृह्य वाससि पाण्डवः । तद्रक्षो द्विगुणं चक्रे नदन्तं भैरवान्रवान् ॥
ततोऽस्य रुधिरं वक्त्रात्प्रादुरासीद्विशां पते । भज्यमानस्य भीमेन तस्य घोरस्य रक्षसः ॥
← Previous (Ch. 150) Full Table of Contents Next (Ch. 152) →