Skip to main content
Search
MBh
Mahābhārata • Parva 9 (Śalyaparva) • Adhyāya 44

Śalyaparva Adhyāya 44

शल्यपर्व • अध्यायः 44

Śalyaparva Adhyāya 44 of the classical Mahābhārata with 111 verses.

Total: 111 Verses • Citations: MBh 9.44.1–111 • 250 Lexicon Terms • Page 3 of 4 (Verses 30 shown)
प्रियकश्चैव नन्दश्च गोनन्दश्च प्रतापवान् । आनन्दश्च प्रमोदश्च स्वस्तिको ध्रुवकस्तथा ॥
क्षेमवापः सुजातश्च सिद्धयात्रश्च भारत । गोव्रजः कनकापीडो महापारिषदेश्वरः ॥
गायनो हसनश्चैव बाणः खड्गश्च वीर्यवान् । वैताली चातिताली च तथा कतिकवातिकौ ॥
हंसजः पङ्कदिग्धाङ्गः समुद्रोन्मादनश्च ह । रणोत्कटः प्रहासश्च श्वेतशीर्षश्च नन्दकः ॥
कालकण्ठः प्रभासश्च तथा कुम्भाण्डकोऽपरः । कालकाक्षः सितश्चैव भूतलोन्मथनस्तथा ॥
यज्ञवाहः प्रवाहश्च देवयाजी च सोमपः । सजालश्च महातेजाः क्रथक्राथौ च भारत ॥
तुहनश्च तुहानश्च चित्रदेवश्च वीर्यवान् । मधुरः सुप्रसादश्च किरीटी च महाबलः ॥
वसनो मधुवर्णश्च कलशोदर एव च । धमन्तो मन्मथकरः सूचीवक्त्रश्च वीर्यवान् ॥
श्वेतवक्त्रः सुवक्त्रश्च चारुवक्त्रश्च पाण्डुरः । दण्डबाहुः सुबाहुश्च रजः कोकिलकस्तथा ॥
अचलः कनकाक्षश्च बालानामयिकः प्रभुः । संचारकः कोकनदो गृध्रवक्त्रश्च जम्बुकः ॥
लोहाशवक्त्रो जठरः कुम्भवक्त्रश्च कुण्डकः । मद्गुग्रीवश्च कृष्णौजा हंसवक्त्रश्च चन्द्रभाः ॥
पाणिकूर्मा च शम्बूकः पञ्चवक्त्रश्च शिक्षकः । चाषवक्त्रश्च जम्बूकः शाकवक्त्रश्च कुण्डकः ॥
योगयुक्ता महात्मानः सततं ब्राह्मणप्रियाः । पैतामहा महात्मानो महापारिषदाश्च ह । यौवनस्थाश्च बालाश्च वृद्धाश्च जनमेजय ॥
English Translation
Besides these many other great and powerful companions, practising ascetic austerities and respecting Brahmanas, were given to him by the grandfather,
सहस्रशः पारिषदाः कुमारमुपतस्थिरे । वक्त्रैर्नानाविधैर्ये तु शृणु ताञ्जनमेजय ॥
कूर्मकुक्कुटवक्त्राश्च शशोलूकमुखास्तथा । खरोष्ट्रवदनाश्चैव वराहवदनास्तथा ॥
मनुष्यमेषवक्त्राश्च सृगालवदनास्तथा । भीमा मकरवक्त्राश्च शिंशुमारमुखास्तथा ॥
मार्जारशशवक्त्राश्च दीर्घवक्त्राश्च भारत । नकुलोलूकवक्त्राश्च श्ववक्त्राश्च तथापरे ॥
आखुबभ्रुकवक्त्राश्च मयूरवदनास्तथा । मत्स्यमेषाननाश्चान्ये अजाविमहिषाननाः ॥
ऋक्षशार्दूलवक्त्राश्च द्वीपिसिंहाननास्तथा । भीमा गजाननाश्चैव तथा नक्रमुखाः परे ॥
गरुडाननाः खड्गमुखा वृककाकमुखास्तथा । गोखरोष्ट्रमुखाश्चान्ये वृषदंशमुखास्तथा ॥
महाजठरपादाङ्गास्तारकाक्षाश्च भारत । पारावतमुखाश्चान्ये तथा वृषमुखाः परे ॥
कोकिलावदनाश्चान्ये श्येनतित्तिरिकाननाः । कृकलासमुखाश्चैव विरजोम्बरधारिणः ॥
व्यालवक्त्राः शूलमुखाश्चण्डवक्त्राः शताननाः । आशीविषाश्चीरधरा गोनासावरणास्तथा ॥
स्थूलोदराः कृशाङ्गाश्च स्थूलाङ्गाश्च कृशोदराः । ह्रस्वग्रीवा महाकर्णा नानाव्यालविभूषिताः ॥
गजेन्द्रचर्मवसनास्तथा कृष्णाजिनाम्बराः । स्कन्धेमुखा महाराज तथा ह्युदरतोमुखाः ॥
पृष्ठेमुखा हनुमुखास्तथा जङ्घामुखा अपि । पार्श्वाननाश्च बहवो नानादेशमुखास्तथा ॥
तथा कीटपतंगानां सदृशास्या गणेश्वराः । नानाव्यालमुखाश्चान्ये बहुबाहुशिरोधराः ॥
नानावृक्षभुजाः केचित्कटिशीर्षास्तथापरे । भुजंगभोगवदना नानागुल्मनिवासिनः ॥
चीरसंवृतगात्राश्च तथा फलकवाससः । नानावेषधराश्चैव चर्मवासस एव च ॥
उष्णीषिणो मुकुटिनः कम्बुग्रीवाः सुवर्चसः । किरीटिनः पञ्चशिखास्तथा कठिनमूर्धजाः ॥
← Previous (Ch. 1262) Full Table of Contents Next (Ch. 1264) →