Skip to main content
Search
MBh
Mahābhārata • Parva 1 (Ādiparva) • Adhyāya 113

Ādiparva Adhyāya 113

आदिपर्व • अध्यायः 113

Ādiparva Adhyāya 113 of the classical Mahābhārata with 44 verses.

Total: 44 Verses • Citations: MBh 1.113.1–44 • 250 Lexicon Terms • Page 2 of 2 (Verses 14 shown)
मन्नियोगात्सुकेशान्ते द्विजातेस्तपसाधिकात् । पुत्रान्गुणसमायुक्तानुत्पादयितुमर्हसि । त्वत्कृतेऽहं पृथुश्रोणि गच्छेयं पुत्रिणां गतिम् ॥
एवमुक्ता ततः कुन्ती पाण्डुं परपुरंजयम् । प्रत्युवाच वरारोहा भर्तुः प्रियहिते रता ॥
पितृवेश्मन्यहं बाला नियुक्तातिथिपूजने । उग्रं पर्यचरं तत्र ब्राह्मणं संशितव्रतम् ॥
निगूढनिश्चयं धर्मे यं तं दुर्वाससं विदुः । तमहं संशितात्मानं सर्वयत्नैरतोषयम् ॥
स मेऽभिचारसंयुक्तमाचष्ट भगवान्वरम् । मन्त्रग्रामं च मे प्रादादब्रवीच्चैव मामिदम् ॥
यं यं देवं त्वमेतेन मन्त्रेणावाहयिष्यसि । अकामो वा सकामो वा स ते वशमुपैष्यति ॥
इत्युक्ताहं तदा तेन पितृवेश्मनि भारत । ब्राह्मणेन वचस्तथ्यं तस्य कालोऽयमागतः ॥
अनुज्ञाता त्वया देवमाह्वयेयमहं नृप । तेन मन्त्रेण राजर्षे यथा स्यान्नौ प्रजा विभो ॥
आवाहयामि कं देवं ब्रूहि तत्त्वविदां वर । त्वत्तोऽनुज्ञाप्रतीक्षां मां विद्ध्यस्मिन्कर्मणि स्थिताम् ॥
अद्यैव त्वं वरारोहे प्रयतस्व यथाविधि । धर्ममावाहय शुभे स हि देवेषु पुण्यभाक् ॥
अधर्मेण न नो धर्मः संयुज्येत कथंचन । लोकश्चायं वरारोहे धर्मोऽयमिति मंस्यते ॥
धार्मिकश्च कुरूणां स भविष्यति न संशयः । दत्तस्यापि च धर्मेण नाधर्मे रंस्यते मनः ॥
तस्माद्धर्मं पुरस्कृत्य नियता त्वं शुचिस्मिते । उपचाराभिचाराभ्यां धर्ममाराधयस्व वै ॥
सा तथोक्ता तथेत्युक्त्वा तेन भर्त्रा वराङ्गना । अभिवाद्याभ्यनुज्ञाता प्रदक्षिणमवर्तत ॥
← Previous (Ch. 112) Full Table of Contents Next (Ch. 114) →