Skip to main content
Search
MBh
Mahābhārata • Parva 1 (Ādiparva) • Adhyāya 110

Ādiparva Adhyāya 110

आदिपर्व • अध्यायः 110

Ādiparva Adhyāya 110 of the classical Mahābhārata with 46 verses.

Total: 46 Verses • Citations: MBh 1.110.1–46 • 250 Lexicon Terms • Page 2 of 2 (Verses 16 shown)
त्यक्तग्राम्यसुखाचारस्तप्यमानो महत्तपः । वल्कली फलमूलाशी चरिष्यामि महावने ॥
अग्निं जुह्वन्नुभौ कालावुभौ कालावुपस्पृशन् । कृशः परिमिताहारश्चीरचर्मजटाधरः ॥
शीतवातातपसहः क्षुत्पिपासाश्रमान्वितः । तपसा दुश्चरेणेदं शरीरमुपशोषयन् ॥
एकान्तशीली विमृशन्पक्वापक्वेन वर्तयन् । पितॄन्देवांश्च वन्येन वाग्भिरद्भिश्च तर्पयन् ॥
वानप्रस्थजनस्यापि दर्शनं कुलवासिनाम् । नाप्रियाण्याचरञ्जातु किं पुनर्ग्रामवासिनाम् ॥
एवमारण्यशास्त्राणामुग्रमुग्रतरं विधिम् । काङ्क्षमाणोऽहमासिष्ये देहस्यास्य समापनात् ॥
इत्येवमुक्त्वा भार्ये ते राजा कौरववंशजः । ततश्चूडामणिं निष्कमङ्गदे कुण्डलानि च । वासांसि च महार्हाणि स्त्रीणामाभरणानि च ॥
प्रदाय सर्वं विप्रेभ्यः पाण्डुः पुनरभाषत । गत्वा नागपुरं वाच्यं पाण्डुः प्रव्रजितो वनम् ॥
अर्थं कामं सुखं चैव रतिं च परमात्मिकाम् । प्रतस्थे सर्वमुत्सृज्य सभार्यः कुरुपुंगवः ॥
ततस्तस्यानुयात्राणि ते चैव परिचारकाः । श्रुत्वा भरतसिंहस्य विविधाः करुणा गिरः । भीममार्तस्वरं कृत्वा हाहेति परिचुक्रुशुः ॥
उष्णमश्रु विमुञ्चन्तस्तं विहाय महीपतिम् । ययुर्नागपुरं तूर्णं सर्वमादाय तद्वचः ॥
श्रुत्वा च तेभ्यस्तत्सर्वं यथावृत्तं महावने । धृतराष्ट्रो नरश्रेष्ठः पाण्डुमेवान्वशोचत ॥
राजपुत्रस्तु कौरव्यः पाण्डुर्मूलफलाशनः । जगाम सह भार्याभ्यां ततो नागसभं गिरिम् ॥
स चैत्ररथमासाद्य वारिषेणमतीत्य च । हिमवन्तमतिक्रम्य प्रययौ गन्धमादनम् ॥
रक्ष्यमाणो महाभूतैः सिद्धैश्च परमर्षिभिः । उवास स तदा राजा समेषु विषमेषु च ॥
इन्द्रद्युम्नसरः प्राप्य हंसकूटमतीत्य च । शतशृङ्गे महाराज तापसः समपद्यत ॥
← Previous (Ch. 109) Full Table of Contents Next (Ch. 111) →