Skip to main content
Search
MBh
Mahābhārata • Parva 1 (Ādiparva) • Adhyāya 109

Ādiparva Adhyāya 109

आदिपर्व • अध्यायः 109

Ādiparva Adhyāya 109 of the classical Mahābhārata with 32 verses.

Total: 32 Verses • Citations: MBh 1.109.1–32 • 250 Lexicon Terms
कथितो धार्तराष्ट्राणामार्षः संभव उत्तमः । अमानुषो मानुषाणां भवता ब्रह्मवित्तम ॥
नामधेयानि चाप्येषां कथ्यमानानि भागशः । त्वत्तः श्रुतानि मे ब्रह्मन्पाण्डवानां तु कीर्तय ॥
ते हि सर्वे महात्मानो देवराजपराक्रमाः । त्वयैवांशावतरणे देवभागाः प्रकीर्तिताः ॥
तस्मादिच्छाम्यहं श्रोतुमतिमानुषकर्मणाम् । तेषामाजननं सर्वं वैशंपायन कीर्तय ॥
राजा पाण्डुर्महारण्ये मृगव्यालनिषेविते । वने मैथुनकालस्थं ददर्श मृगयूथपम् ॥
ततस्तां च मृगीं तं च रुक्मपुङ्खैः सुपत्रिभिः । निर्बिभेद शरैस्तीक्ष्णैः पाण्डुः पञ्चभिराशुगैः ॥
स च राजन्महातेजा ऋषिपुत्रस्तपोधनः । भार्यया सह तेजस्वी मृगरूपेण संगतः ॥
संसक्तस्तु तया मृग्या मानुषीमीरयन्गिरम् । क्षणेन पतितो भूमौ विललापाकुलेन्द्रियः ॥
काममन्युपरीतापि बुद्ध्यङ्गरहितापि च । वर्जयन्ति नृशंसानि पापेष्वभिरता नराः ॥
न विधिं ग्रसते प्रज्ञा प्रज्ञां तु ग्रसते विधिः । विधिपर्यागतानर्थान्प्रज्ञा न प्रतिपद्यते ॥
शश्वद्धर्मात्मनां मुख्ये कुले जातस्य भारत । कामलोभाभिभूतस्य कथं ते चलिता मतिः ॥
शत्रूणां या वधे वृत्तिः सा मृगाणां वधे स्मृता । राज्ञां मृग न मां मोहात्त्वं गर्हयितुमर्हसि ॥
अच्छद्मनामायया च मृगाणां वध इष्यते । स एव धर्मो राज्ञां तु तद्विद्वान्किं नु गर्हसे ॥
अगस्त्यः सत्रमासीनश्चचार मृगयामृषिः । आरण्यान्सर्वदैवत्यान्मृगान्प्रोक्ष्य महावने ॥
प्रमाणदृष्टधर्मेण कथमस्मान्विगर्हसे । अगस्त्यस्याभिचारेण युष्माकं वै वपा हुता ॥
न रिपून्वै समुद्दिश्य विमुञ्चन्ति पुरा शरान् । रन्ध्र एषां विशेषेण वधकालः प्रशस्यते ॥
प्रमत्तमप्रमत्तं वा विवृतं घ्नन्ति चौजसा । उपायैरिषुभिस्तीक्ष्णैः कस्मान्मृग विगर्हसे ॥
नाहं घ्नन्तं मृगान्राजन्विगर्हे आत्मकारणात् । मैथुनं तु प्रतीक्ष्यं मे स्यात्त्वयेहानृशंसतः ॥
सर्वभूतहिते काले सर्वभूतेप्सिते तथा । को हि विद्वान्मृगं हन्याच्चरन्तं मैथुनं वने । पुरुषार्थफलं कान्तं यत्त्वया वितथं कृतम् ॥
पौरवाणामृषीणां च तेषामक्लिष्टकर्मणाम् । वंशे जातस्य कौरव्य नानुरूपमिदं तव ॥
नृशंसं कर्म सुमहत्सर्वलोकविगर्हितम् । अस्वर्ग्यमयशस्यं च अधर्मिष्ठं च भारत ॥
स्त्रीभोगानां विशेषज्ञः शास्त्रधर्मार्थतत्त्ववित् । नार्हस्त्वं सुरसंकाश कर्तुमस्वर्ग्यमीदृशम् ॥
त्वया नृशंसकर्तारः पापाचाराश्च मानवाः । निग्राह्याः पार्थिवश्रेष्ठ त्रिवर्गपरिवर्जिताः ॥
किं कृतं ते नरश्रेष्ठ निघ्नतो मामनागसम् । मुनिं मूलफलाहारं मृगवेषधरं नृप । वसमानमरण्येषु नित्यं शमपरायणम् ॥
त्वयाहं हिंसितो यस्मात्तस्मात्त्वामप्यसंशयम् । द्वयोर्नृशंसकर्तारमवशं काममोहितम् । जीवितान्तकरो भाव एवमेवागमिष्यति ॥
अहं हि किंदमो नाम तपसाप्रतिमो मुनिः । व्यपत्रपन्मनुष्याणां मृग्यां मैथुनमाचरम् ॥
मृगो भूत्वा मृगैः सार्धं चरामि गहने वने । न तु ते ब्रह्महत्येयं भविष्यत्यविजानतः । मृगरूपधरं हत्वा मामेवं काममोहितम् ॥
अस्य तु त्वं फलं मूढ प्राप्स्यसीदृशमेव हि । प्रियया सह संवासं प्राप्य कामविमोहितः । त्वमप्यस्यामवस्थायां प्रेतलोकं गमिष्यसि ॥
अन्तकाले च संवासं यया गन्तासि कान्तया । प्रेतराजवशं प्राप्तं सर्वभूतदुरत्ययम् । भक्त्या मतिमतां श्रेष्ठ सैव त्वामनुयास्यति ॥
वर्तमानः सुखे दुःखं यथाहं प्रापितस्त्वया । तथा सुखं त्वां संप्राप्तं दुःखमभ्यागमिष्यति ॥
एवमुक्त्वा सुदुःखार्तो जीवितात्स व्ययुज्यत । मृगः पाण्डुश्च शोकार्तः क्षणेन समपद्यत ॥
← Previous (Ch. 108) Full Table of Contents Next (Ch. 110) →