Skip to main content
Search
MBh
Mahābhārata • Parva 1 (Ādiparva) • Adhyāya 101

Ādiparva Adhyāya 101

आदिपर्व • अध्यायः 101

Ādiparva Adhyāya 101 of the classical Mahābhārata with 29 verses.

Total: 29 Verses • Citations: MBh 1.101.1–29 • 250 Lexicon Terms
किं कृतं कर्म धर्मेण येन शापमुपेयिवान् । कस्य शापाच्च ब्रह्मर्षे शूद्रयोनावजायत ॥
बभूव ब्राह्मणः कश्चिन्माण्डव्य इति विश्रुतः । धृतिमान्सर्वधर्मज्ञः सत्ये तपसि च स्थितः ॥
स आश्रमपदद्वारि वृक्षमूले महातपाः । ऊर्ध्वबाहुर्महायोगी तस्थौ मौनव्रतान्वितः ॥
तस्य कालेन महता तस्मिंस्तपसि तिष्ठतः । तमाश्रमपदं प्राप्ता दस्यवो लोप्त्रहारिणः । अनुसार्यमाणा बहुभी रक्षिभिर्भरतर्षभ ॥
ते तस्यावसथे लोप्त्रं निदधुः कुरुसत्तम । निधाय च भयाल्लीनास्तत्रैवान्वागते बले ॥
तेषु लीनेष्वथो शीघ्रं ततस्तद्रक्षिणां बलम् । आजगाम ततोऽपश्यंस्तमृषिं तस्करानुगाः ॥
तमपृच्छंस्ततो राजंस्तथावृत्तं तपोधनम् । कतरेण पथा याता दस्यवो द्विजसत्तम । तेन गच्छामहे ब्रह्मन्पथा शीघ्रतरं वयम् ॥
तथा तु रक्षिणां तेषां ब्रुवतां स तपोधनः । न किंचिद्वचनं राजन्नवदत्साध्वसाधु वा ॥
ततस्ते राजपुरुषा विचिन्वानास्तदाश्रमम् । ददृशुस्तत्र संलीनांस्तांश्चोरान्द्रव्यमेव च ॥
ततः शङ्का समभवद्रक्षिणां तं मुनिं प्रति । संयम्यैनं ततो राज्ञे दस्यूंश्चैव न्यवेदयन् ॥
तं राजा सह तैश्चोरैरन्वशाद्वध्यतामिति । स वध्यघातैरज्ञातः शूले प्रोतो महातपाः ॥
ततस्ते शूलमारोप्य तं मुनिं रक्षिणस्तदा । प्रतिजग्मुर्महीपालं धनान्यादाय तान्यथ ॥
शूलस्थः स तु धर्मात्मा कालेन महता ततः । निराहारोऽपि विप्रर्षिर्मरणं नाभ्युपागमत् । धारयामास च प्राणानृषींश्च समुपानयत् ॥
शूलाग्रे तप्यमानेन तपस्तेन महात्मना । संतापं परमं जग्मुर्मुनयोऽथ परंतप ॥
ते रात्रौ शकुना भूत्वा संन्यवर्तन्त सर्वतः । दर्शयन्तो यथाशक्ति तमपृच्छन्द्विजोत्तमम् । श्रोतुमिच्छामहे ब्रह्मन्किं पापं कृतवानसि ॥
ततः स मुनिशार्दूलस्तानुवाच तपोधनान् । दोषतः कं गमिष्यामि न हि मेऽन्योऽपराध्यति ॥
राजा च तमृषिं श्रुत्वा निष्क्रम्य सह मन्त्रिभिः । प्रसादयामास तदा शूलस्थमृषिसत्तमम् ॥
यन्मयापकृतं मोहादज्ञानादृषिसत्तम । प्रसादये त्वां तत्राहं न मे त्वं क्रोद्धुमर्हसि ॥
एवमुक्तस्ततो राज्ञा प्रसादमकरोन्मुनिः । कृतप्रसादो राजा तं ततः समवतारयत् ॥
अवतार्य च शूलाग्रात्तच्छूलं निश्चकर्ष ह । अशक्नुवंश्च निष्क्रष्टुं शूलं मूले स चिच्छिदे ॥
स तथान्तर्गतेनैव शूलेन व्यचरन्मुनिः । स तेन तपसा लोकान्विजिग्ये दुर्लभान्परैः । अणीमाण्डव्य इति च ततो लोकेषु कथ्यते ॥
स गत्वा सदनं विप्रो धर्मस्य परमार्थवित् । आसनस्थं ततो धर्मं दृष्ट्वोपालभत प्रभुः ॥
किं नु तद्दुष्कृतं कर्म मया कृतमजानता । यस्येयं फलनिर्वृत्तिरीदृश्यासादिता मया । शीघ्रमाचक्ष्व मे तत्त्वं पश्य मे तपसो बलम् ॥
पतंगकानां पुच्छेषु त्वयेषीका प्रवेशिता । कर्मणस्तस्य ते प्राप्तं फलमेतत्तपोधन ॥
अल्पेऽपराधे विपुलो मम दण्डस्त्वया कृतः । शूद्रयोनावतो धर्म मानुषः संभविष्यसि ॥
मर्यादां स्थापयाम्यद्य लोके धर्मफलोदयाम् । आ चतुर्दशमाद्वर्षान्न भविष्यति पातकम् । परेण कुर्वतामेवं दोष एव भविष्यति ॥
एतेन त्वपराधेन शापात्तस्य महात्मनः । धर्मो विदुररूपेण शूद्रयोनावजायत ॥
धर्मे चार्थे च कुशलो लोभक्रोधविवर्जितः । दीर्घदर्शी शमपरः कुरूणां च हिते रतः ॥
← Previous (Ch. 100) Full Table of Contents Next (Ch. 102) →