Skip to main content
Search
MBh
Mahābhārata • Parva 1 (Ādiparva) • Adhyāya 97

Ādiparva Adhyāya 97

आदिपर्व • अध्यायः 97

Ādiparva Adhyāya 97 of the classical Mahābhārata with 27 verses.

Total: 27 Verses • Citations: MBh 1.97.1–27 • 250 Lexicon Terms
ततः सत्यवती दीना कृपणा पुत्रगृद्धिनी । पुत्रस्य कृत्वा कार्याणि स्नुषाभ्यां सह भारत ॥
धर्मं च पितृवंशं च मातृवंशं च मानिनी । प्रसमीक्ष्य महाभागा गाङ्गेयं वाक्यमब्रवीत् ॥
शंतनोर्धर्मनित्यस्य कौरव्यस्य यशस्विनः । त्वयि पिण्डश्च कीर्तिश्च संतानं च प्रतिष्ठितम् ॥
यथा कर्म शुभं कृत्वा स्वर्गोपगमनं ध्रुवम् । यथा चायुर्ध्रुवं सत्ये त्वयि धर्मस्तथा ध्रुवः ॥
वेत्थ धर्मांश्च धर्मज्ञ समासेनेतरेण च । विविधास्त्वं श्रुतीर्वेत्थ वेत्थ वेदांश्च सर्वशः ॥
व्यवस्थानं च ते धर्मे कुलाचारं च लक्षये । प्रतिपत्तिं च कृच्छ्रेषु शुक्राङ्गिरसयोरिव ॥
तस्मात्सुभृशमाश्वस्य त्वयि धर्मभृतां वर । कार्ये त्वां विनियोक्ष्यामि तच्छ्रुत्वा कर्तुमर्हसि ॥
मम पुत्रस्तव भ्राता वीर्यवान्सुप्रियश्च ते । बाल एव गतः स्वर्गमपुत्रः पुरुषर्षभ ॥
इमे महिष्यौ भ्रातुस्ते काशिराजसुते शुभे । रूपयौवनसंपन्ने पुत्रकामे च भारत ॥
तयोरुत्पादयापत्यं संतानाय कुलस्य नः । मन्नियोगान्महाभाग धर्मं कर्तुमिहार्हसि ॥
राज्ये चैवाभिषिच्यस्व भारताननुशाधि च । दारांश्च कुरु धर्मेण मा निमज्जीः पितामहान् ॥
तथोच्यमानो मात्रा च सुहृद्भिश्च परंतपः । प्रत्युवाच स धर्मात्मा धर्म्यमेवोत्तरं वचः ॥
असंशयं परो धर्मस्त्वया मातरुदाहृतः । त्वमपत्यं प्रति च मे प्रतिज्ञां वेत्थ वै पराम् ॥
जानासि च यथावृत्तं शुल्कहेतोस्त्वदन्तरे । स सत्यवति सत्यं ते प्रतिजानाम्यहं पुनः ॥
परित्यजेयं त्रैलोक्यं राज्यं देवेषु वा पुनः । यद्वाप्यधिकमेताभ्यां न तु सत्यं कथंचन ॥
त्यजेच्च पृथिवी गन्धमापश्च रसमात्मनः । ज्योतिस्तथा त्यजेद्रूपं वायुः स्पर्शगुणं त्यजेत् ॥
प्रभां समुत्सृजेदर्को धूमकेतुस्तथोष्णताम् । त्यजेच्छब्दं तथाकाशः सोमः शीतांशुतां त्यजेत् ॥
विक्रमं वृत्रहा जह्याद्धर्मं जह्याच्च धर्मराट् । न त्वहं सत्यमुत्स्रष्टुं व्यवसेयं कथंचन ॥
एवमुक्ता तु पुत्रेण भूरिद्रविणतेजसा । माता सत्यवती भीष्ममुवाच तदनन्तरम् ॥
जानामि ते स्थितिं सत्ये परां सत्यपराक्रम । इच्छन्सृजेथास्त्रीँल्लोकानन्यांस्त्वं स्वेन तेजसा ॥
जानामि चैव सत्यं तन्मदर्थं यदभाषथाः । आपद्धर्ममवेक्षस्व वह पैतामहीं धुरम् ॥
यथा ते कुलतन्तुश्च धर्मश्च न पराभवेत् । सुहृदश्च प्रहृष्येरंस्तथा कुरु परंतप ॥
लालप्यमानां तामेवं कृपणां पुत्रगृद्धिनीम् । धर्मादपेतं ब्रुवतीं भीष्मो भूयोऽब्रवीदिदम् ॥
राज्ञि धर्मानवेक्षस्व मा नः सर्वान्व्यनीनशः । सत्याच्च्युतिः क्षत्रियस्य न धर्मेषु प्रशस्यते ॥
शंतनोरपि संतानं यथा स्यादक्षयं भुवि । तत्ते धर्मं प्रवक्ष्यामि क्षात्रं राज्ञि सनातनम् ॥
श्रुत्वा तं प्रतिपद्येथाः प्राज्ञैः सह पुरोहितैः । आपद्धर्मार्थकुशलैर्लोकतन्त्रमवेक्ष्य च ॥
← Previous (Ch. 96) Full Table of Contents Next (Ch. 98) →