Skip to main content
Search
MBh
Mahābhārata • Parva 1 (Ādiparva) • Adhyāya 95

Ādiparva Adhyāya 95

आदिपर्व • अध्यायः 95

Ādiparva Adhyāya 95 of the classical Mahābhārata with 15 verses.

Total: 15 Verses • Citations: MBh 1.95.1–15 • 250 Lexicon Terms
ततो विवाहे निर्वृत्ते स राजा शंतनुर्नृपः । तां कन्यां रूपसंपन्नां स्वगृहे संन्यवेशयत् ॥
English Translation
After the completion of the marriage, that king, the descendant of the Kuru race, established his beautiful wife in handsome mansions.
ततः शांतनवो धीमान्सत्यवत्यामजायत । वीरश्चित्राङ्गदो नाम वीर्येण मनुजानति ॥
अथापरं महेष्वासं सत्यवत्यां पुनः प्रभुः । विचित्रवीर्यं राजानं जनयामास वीर्यवान् ॥
अप्राप्तवति तस्मिंश्च यौवनं भरतर्षभ । स राजा शंतनुर्धीमान्कालधर्ममुपेयिवान् ॥
स्वर्गते शंतनौ भीष्मश्चित्राङ्गदमरिंदमम् । स्थापयामास वै राज्ये सत्यवत्या मते स्थितः ॥
स तु चित्राङ्गदः शौर्यात्सर्वांश्चिक्षेप पार्थिवान् । मनुष्यं न हि मेने स कंचित्सदृशमात्मनः ॥
तं क्षिपन्तं सुरांश्चैव मनुष्यानसुरांस्तथा । गन्धर्वराजो बलवांस्तुल्यनामाभ्ययात्तदा । तेनास्य सुमहद्युद्धं कुरुक्षेत्रे बभूव ह ॥
तयोर्बलवतोस्तत्र गन्धर्वकुरुमुख्ययोः । नद्यास्तीरे हिरण्वत्याः समास्तिस्रोऽभवद्रणः ॥
तस्मिन्विमर्दे तुमुले शस्त्रवृष्टिसमाकुले । मायाधिकोऽवधीद्वीरं गन्धर्वः कुरुसत्तमम् ॥
चित्राङ्गदं कुरुश्रेष्ठं विचित्रशरकार्मुकम् । अन्ताय कृत्वा गन्धर्वो दिवमाचक्रमे ततः ॥
तस्मिन्नृपतिशार्दूले निहते भूरिवर्चसि । भीष्मः शांतनवो राजन्प्रेतकार्याण्यकारयत् ॥
विचित्रवीर्यं च तदा बालमप्राप्तयौवनम् । कुरुराज्ये महाबाहुरभ्यषिञ्चदनन्तरम् ॥
विचित्रवीर्यस्तु तदा भीष्मस्य वचने स्थितः । अन्वशासन्महाराज पितृपैतामहं पदम् ॥
स धर्मशास्त्रकुशलो भीष्मं शांतनवं नृपः । पूजयामास धर्मेण स चैनं प्रत्यपालयत् ॥
← Previous (Ch. 94) Full Table of Contents Next (Ch. 96) →