Skip to main content
Search
MBh
Mahābhārata • Parva 1 (Ādiparva) • Adhyāya 208

Ādiparva Adhyāya 208

आदिपर्व • अध्यायः 208

Ādiparva Adhyāya 208 of the classical Mahābhārata with 22 verses.

Total: 22 Verses • Citations: MBh 1.208.1–22 • 250 Lexicon Terms
ततः समुद्रे तीर्थानि दक्षिणे भरतर्षभः । अभ्यगच्छत्सुपुण्यानि शोभितानि तपस्विभिः ॥
वर्जयन्ति स्म तीर्थानि पञ्च तत्र तु तापसाः । आचीर्णानि तु यान्यासन्पुरस्तात्तु तपस्विभिः ॥
अगस्त्यतीर्थं सौभद्रं पौलोमं च सुपावनम् । कारंधमं प्रसन्नं च हयमेधफलं च यत् । भारद्वाजस्य तीर्थं च पापप्रशमनं महत् ॥
विविक्तान्युपलक्ष्याथ तानि तीर्थानि पाण्डवः । दृष्ट्वा च वर्ज्यमानानि मुनिभिर्धर्मबुद्धिभिः ॥
तपस्विनस्ततोऽपृच्छत्प्राज्ञलिः कुरुनन्दनः । तीर्थानीमानि वर्ज्यन्ते किमर्थं ब्रह्मवादिभिः ॥
ग्राहाः पञ्च वसन्त्येषु हरन्ति च तपोधनान् । अत एतानि वर्ज्यन्ते तीर्थानि कुरुनन्दन ॥
तेषां श्रुत्वा महाबाहुर्वार्यमाणस्तपोधनैः । जगाम तानि तीर्थानि द्रष्टुं पुरुषसत्तमः ॥
ततः सौभद्रमासाद्य महर्षेस्तीर्थमुत्तमम् । विगाह्य तरसा शूरः स्नानं चक्रे परंतपः ॥
अथ तं पुरुषव्याघ्रमन्तर्जलचरो महान् । निजग्राह जले ग्राहः कुन्तीपुत्रं धनंजयम् ॥
स तमादाय कौन्तेयो विस्फुरन्तं जलेचरम् । उदतिष्ठन्महाबाहुर्बलेन बलिनां वरः ॥
उत्कृष्ट एव तु ग्राहः सोऽर्जुनेन यशस्विना । बभूव नारी कल्याणी सर्वाभरणभूषिता । दीप्यमाना श्रिया राजन्दिव्यरूपा मनोरमा ॥
तदद्भुतं महद्दृष्ट्वा कुन्तीपुत्रो धनंजयः । तां स्त्रियं परमप्रीत इदं वचनमब्रवीत् ॥
का वै त्वमसि कल्याणि कुतो वासि जलेचरी । किमर्थं च महत्पापमिदं कृतवती पुरा ॥
अप्सरास्मि महाबाहो देवारण्यविचारिणी । इष्टा धनपतेर्नित्यं वर्गा नाम महाबल ॥
मम सख्यश्चतस्रोऽन्याः सर्वाः कामगमाः शुभाः । ताभिः सार्धं प्रयातास्मि लोकपालनिवेशनम् ॥
ततः पश्यामहे सर्वा ब्राह्मणं संशितव्रतम् । रूपवन्तमधीयानमेकमेकान्तचारिणम् ॥
तस्य वै तपसा राजंस्तद्वनं तेजसावृतम् । आदित्य इव तं देशं कृत्स्नं स व्यवभासयत् ॥
तस्य दृष्ट्वा तपस्तादृग्रूपं चाद्भुतदर्शनम् । अवतीर्णाः स्म तं देशं तपोविघ्नचिकीर्षया ॥
अहं च सौरभेयी च समीची बुद्बुदा लता । यौगपद्येन तं विप्रमभ्यगच्छाम भारत ॥
गायन्त्यो वै हसन्त्यश्च लोभयन्त्यश्च तं द्विजम् । स च नास्मासु कृतवान्मनो वीर कथंचन । नाकम्पत महातेजाः स्थितस्तपसि निर्मले ॥
सोऽशपत्कुपितोऽस्मांस्तु ब्राह्मणः क्षत्रियर्षभ । ग्राहभूता जले यूयं चरिष्यध्वं शतं समाः ॥
← Previous (Ch. 207) Full Table of Contents Next (Ch. 209) →