Ādiparva Adhyāya 203
आदिपर्व • अध्यायः 203
Ādiparva Adhyāya 203 of the classical Mahābhārata with 31 verses.
Total: 31 Verses
•
Citations: MBh 1.203.1–31
•
250 Lexicon Terms
ततो देवर्षयः सर्वे सिद्धाश्च परमर्षयः । जग्मुस्तदा परामार्तिं दृष्ट्वा तत्कदनं महत् ॥
Morphemic Decomposition & Padaccheda
ततो
ततस् [ind]
देवर्षयः
देव [m]
देवर्षयः
ऋषि [m]
सर्वे
सर्व [pron]
सिद्धाश्च
सिद्ध [m]
सिद्धाश्च
च [ind]
परमर्षयः
परम [adj]
परमर्षयः
ऋषि [m]
जग्मुस्तदा
गम् [6. Ā.]
जग्मुस्तदा
तदा [ind]
पराम्
पर [pron]
आर्तिं
आर्ति [f]
दृष्ट्वा
दृश् [6. P.]
तत्
तद् [pron]
कदनं
कदन [n]
महत्
महत् [adj]
तेऽभिजग्मुर्जितक्रोधा जितात्मानो जितेन्द्रियाः । पितामहस्य भवनं जगतः कृपया तदा ॥
Morphemic Decomposition & Padaccheda
ते
तद् [pron]
ऽभिजग्मुर्
अभिगम् [1. Ā.]
जितक्रोधा
जि [9. P.]
जितक्रोधा
क्रोध [m]
जितात्मानो
जि [9. P.]
जितात्मानो
आत्मन् [m]
जितेन्द्रियाः
जि [9. P.]
जितेन्द्रियाः
इन्द्रिय [n]
पितामहस्य
पितामह [m]
भवनं
भवन [n]
जगतः
जगन्त् [n]
कृपया
कृपा [f]
तदा
तदा [ind]
ततो ददृशुरासीनं सह देवैः पितामहम् । सिद्धैर्ब्रह्मर्षिभिश्चैव समन्तात्परिवारितम् ॥
Morphemic Decomposition & Padaccheda
ततो
ततस् [ind]
ददृशुर्
दृश् [6. P.]
आसीनं
आस् [4. P.]
सह
सह [ind]
देवैः
देव [m]
पितामहम्
पितामह [m]
सिद्धैर्
सिद्ध [m]
ब्रह्मर्षिभिश्चैव
ब्रह्मन् [m]
ब्रह्मर्षिभिश्चैव
ऋषि [m]
ब्रह्मर्षिभिश्चैव
च [ind]
ब्रह्मर्षिभिश्चैव
एव [ind]
समन्तात्
समन्तात् [ind]
परिवारितम्
परिवारय् [10. Ā.]
तत्र देवो महादेवस्तत्राग्निर्वायुना सह । चन्द्रादित्यौ च धर्मश्च परमेष्ठी तथा बुधः ॥
Morphemic Decomposition & Padaccheda
तत्र
तत्र [ind]
देवो
देव [m]
महादेवस्तत्राग्निर्
महादेव [m]
महादेवस्तत्राग्निर्
तत्र [ind]
महादेवस्तत्राग्निर्
अग्नि [m]
वायुना
वायु [m]
सह
सह [ind]
चन्द्रादित्यौ
चन्द्र [m]
चन्द्रादित्यौ
आदित्य [m]
च
च [ind]
धर्मश्च
धर्म [mn]
धर्मश्च
च [ind]
परमेष्ठी
परमेष्ठिन् [m]
तथा
तथा [ind]
बुधः
बुध [m]
वैखानसा वालखिल्या वानप्रस्था मरीचिपाः । अजाश्चैवाविमूढाश्च तेजोगर्भास्तपस्विनः । ऋषयः सर्व एवैते पितामहमुपासते ॥
Morphemic Decomposition & Padaccheda
वैखानसा
वैखानस [m]
वालखिल्या
वालखिल्य [mn]
वानप्रस्था
वानप्रस्थ [mn]
मरीचिपाः
मरीचिप [m]
अजाश्चैवाविमूढाश्च
अज [m]
अजाश्चैवाविमूढाश्च
च [ind]
अजाश्चैवाविमूढाश्च
एव [ind]
अजाश्चैवाविमूढाश्च
अविमूढ [m]
अजाश्चैवाविमूढाश्च
च [ind]
तेजोगर्भास्तपस्विनः
तेजस् [n]
तेजोगर्भास्तपस्विनः
गर्भ [m]
तेजोगर्भास्तपस्विनः
तपस्विन् [m]
ऋषयः
ऋषि [m]
सर्व
सर्व [pron]
एवैते
एव [ind]
एवैते
एतद् [pron]
पितामहम्
पितामह [m]
उपासते
उपास् [4. P.]
ततोऽभिगम्य सहिताः सर्व एव महर्षयः । सुन्दोपसुन्दयोः कर्म सर्वमेव शशंसिरे ॥
Morphemic Decomposition & Padaccheda
ततो
ततस् [ind]
ऽभिगम्य
अभिगम् [1. Ā.]
सहिताः
सहित [adj]
सर्व
सर्व [pron]
एव
एव [ind]
महर्षयः
महत् [adj]
महर्षयः
ऋषि [m]
सुन्दोपसुन्दयोः
सुन्द [m]
सुन्दोपसुन्दयोः
उपसुन्द [m]
कर्म
कर्मन् [n]
सर्वम्
सर्व [pron]
एव
एव [ind]
शशंसिरे
शंस् [2. Ā.]
यथाकृतं यथा चैव कृतं येन क्रमेण च । न्यवेदयंस्ततः सर्वमखिलेन पितामहे ॥
Morphemic Decomposition & Padaccheda
यथाकृतं
यथा [ind]
यथाकृतं
कृ [2. Ā.]
यथा
यथा [ind]
चैव
च [ind]
चैव
एव [ind]
कृतं
कृ [2. Ā.]
येन
यद् [pron]
क्रमेण
क्रम [m]
च
च [ind]
वरेण
वर [mn]
छन्दयामास
छन्दय् [10. Ā.]
सर्वलोकपितामहः
सर्व [pron]
सर्वलोकपितामहः
लोक [m]
सर्वलोकपितामहः
पितामह [m]
ततो देवगणाः सर्वे ते चैव परमर्षयः । तमेवार्थं पुरस्कृत्य पितामहमचोदयन् ॥
Morphemic Decomposition & Padaccheda
प्रजानां
प्रजा [f]
पतयः
पति [m]
सर्वे
सर्व [pron]
सप्त
सप्तन् [adj]
चैव
च [ind]
चैव
एव [ind]
महर्षयः
महत् [adj]
महर्षयः
ऋषि [m]
तम्
तद् [pron]
एवार्थं
एव [ind]
एवार्थं
अर्थ [mn]
पुरस्कृत्य
पुरस्कृ [8. Ā.]
पितामहम्
पितामह [m]
अचोदयन्
चोदय् [10. Ā.]
ततः पितामहः श्रुत्वा सर्वेषां तद्वचस्तदा । मुहूर्तमिव संचिन्त्य कर्तव्यस्य विनिश्चयम् ॥
Morphemic Decomposition & Padaccheda
पाण्डोः
पाण्डु [m]
पुत्रागमं
पुत्र [m]
पुत्रागमं
आगम [m]
श्रुत्वा
श्रु [4. P.]
सर्वे
सर्व [pron]
हर्षसमन्विताः
हर्ष [m]
हर्षसमन्विताः
समन्वित [adj]
मुहूर्तम्
मुहूर्त [mn]
इव
इव [ind]
तं
तद् [pron]
द्रोणश्चिन्तयित्वा
द्रोण [m]
द्रोणश्चिन्तयित्वा
चिन्तय् [10. Ā.]
विनिश्चयम्
विनिश्चय [m]
तयोर्वधं समुद्दिश्य विश्वकर्माणमाह्वयत् । दृष्ट्वा च विश्वकर्माणं व्यादिदेश पितामहः । सृज्यतां प्रार्थनीयेह प्रमदेति महातपाः ॥
Morphemic Decomposition & Padaccheda
तयोर्
तद् [pron]
वधं
वध [m]
समुद्दिश्य
समुद्दिश् [6. P.]
विश्वकर्माणम्
विश्वकर्मन् [m]
आह्वयत्
आह्वा [4. Ā.]
दृष्ट्वा
दृश् [6. P.]
च
च [ind]
विश्वकर्माणं
विश्वकर्मन् [m]
व्यादिदेश
व्यादिश् [6. P.]
पितामहः
पितामह [m]
सृज्यतां
सृज् [2. P.]
प्रार्थनीयेह
प्रार्थय् [Denom. Ā.]
प्रार्थनीयेह
इह [ind]
प्रमदेति
प्रमदा [f]
प्रमदेति
इति [ind]
महातपाः
महत् [adj]
महातपाः
तपस् [n]
पितामहं नमस्कृत्य तद्वाक्यमभिनन्द्य च । निर्ममे योषितं दिव्यां चिन्तयित्वा प्रयत्नतः ॥
Morphemic Decomposition & Padaccheda
पितामहं
पितामह [m]
नमस्कृत्य
नमस्कृ [8. Ā.]
तद्वाक्यम्
तद् [pron]
तद्वाक्यम्
वाक्य [n]
अभिनन्द्य
अभिनन्द् [1. Ā.]
च
च [ind]
निर्ममे
निर्मा [2. P.]
योषितं
योषित् [f]
दिव्यां
दिव्य [adj]
चिन्तयित्वा
चिन्तय् [10. Ā.]
प्रयत्नतः
प्रयत्न [m]
त्रिषु लोकेषु यत्किंचिद्भूतं स्थावरजङ्गमम् । समानयद्दर्शनीयं तत्तद्यत्नात्ततस्ततः ॥
Morphemic Decomposition & Padaccheda
त्रिषु
त्रि [nr]
लोकेषु
लोक [m]
यद्
यद् [pron]
भूतं
भू [1. Ā.]
किंचित्
कश्चित् [pron]
स्थावरजङ्गमम्
स्थावर [adj]
स्थावरजङ्गमम्
जङ्गम [adj]
समानयद्
समानी [1. Ā.]
दर्शनीयं
दृश् [6. P.]
तत्
तद् [pron]
तद्
तद् [pron]
यत्नात्
यत्न [m]
ततस्ततः
ततस् [ind]
ततस्ततः
ततस् [ind]
कोटिशश्चापि रत्नानि तस्या गात्रे न्यवेशयत् । तां रत्नसंघातमयीमसृजद्देवरूपिणीम् ॥
Morphemic Decomposition & Padaccheda
कोटिशश्चापि
कोटिशस् [ind]
कोटिशश्चापि
च [ind]
कोटिशश्चापि
अपि [ind]
रत्नानि
रत्न [mn]
तस्या
तद् [pron]
गात्रे
गात्र [n]
न्यवेशयत्
निवेशय् [10. Ā.]
तां
तद् [pron]
रत्नसंघातमयीम्
रत्न [mn]
रत्नसंघातमयीम्
संघात [mn]
रत्नसंघातमयीम्
मय [adj]
असृजद्
सृज् [2. P.]
देवरूपिणीम्
देव [m]
देवरूपिणीम्
रूपिन् [adj]
सा प्रयत्नेन महता निर्मिता विश्वकर्मणा । त्रिषु लोकेषु नारीणां रूपेणाप्रतिमाभवत् ॥
Morphemic Decomposition & Padaccheda
पुरीं
पुरी [f]
सर्वगुणोपेतां
सर्व [pron]
सर्वगुणोपेतां
गुण [mn]
सर्वगुणोपेतां
उपे [2. Ā.]
निर्मितां
निर्मा [2. P.]
विश्वकर्मणा
विश्वकर्मन् [m]
त्रिषु
त्रि [nr]
लोकेषु
लोक [m]
नारीणां
नारी [f]
रूपेणाप्रतिमाभवत्
रूप [n]
रूपेणाप्रतिमाभवत्
अप्रतिम [adj]
रूपेणाप्रतिमाभवत्
भू [1. Ā.]
न तस्याः सूक्ष्ममप्यस्ति यद्गात्रे रूपसंपदा । न युक्तं यत्र वा दृष्टिर्न सज्जति निरीक्षताम् ॥
Morphemic Decomposition & Padaccheda
न
न [ind]
तस्याः
तद् [pron]
सूक्ष्मम्
सूक्ष्म [adj]
अप्यस्ति
अपि [ind]
अप्यस्ति
अस् [2. P.]
यद्
यद् [pron]
गात्रे
गात्र [n]
रूपसंपदा
रूप [n]
रूपसंपदा
सम्पद् [f]
न
न [ind]
युक्तं
युज् [6. Ā.]
यत्र
यत्र [ind]
वा
वा [ind]
दृष्टिर्
दृष्टि [f]
न
न [ind]
सजति
सञ्ज् [1. Ā.]
निरीक्षताम्
निरीक्ष् [1. P.]
सा विग्रहवतीव श्रीः कान्तरूपा वपुष्मती । जहार सर्वभूतानां चक्षूंषि च मनांसि च ॥
Morphemic Decomposition & Padaccheda
सा
तद् [pron]
विग्रहवतीव
विग्रहवत् [adj]
विग्रहवतीव
इव [ind]
श्रीः
श्री [f]
कान्तरूपा
कान्त [adj]
कान्तरूपा
रूप [n]
वपुष्मती
वपुष्मत् [adj]
वपुषा
वपुस् [n]
भुवि
भू [f]
भूतानां
भूत [mn]
नेत्राणि
नेत्र [mn]
च
च [ind]
मनांसि
मनस् [n]
च
च [ind]
तिलं तिलं समानीय रत्नानां यद्विनिर्मिता । तिलोत्तमेत्यतस्तस्या नाम चक्रे पितामहः ॥
Morphemic Decomposition & Padaccheda
तिलं
तिल [mn]
तिलं
तिल [mn]
समानीय
समानी [1. Ā.]
रत्नानां
रत्न [mn]
यद्
यत् [ind]
विनिर्मिता
विनिर्मा [3. Ā.]
तिलोत्तमेत्यतस्तस्या
तिलोत्तमा [f]
तिलोत्तमेत्यतस्तस्या
इति [ind]
तिलोत्तमेत्यतस्तस्या
अतस् [ind]
तिलोत्तमेत्यतस्तस्या
तद् [pron]
नाम
नामन् [n]
चक्रे
कृ [2. Ā.]
पितामहः
पितामह [m]
गच्छ सुन्दोपसुन्दाभ्यामसुराभ्यां तिलोत्तमे । प्रार्थनीयेन रूपेण कुरु भद्रे प्रलोभनम् ॥
Morphemic Decomposition & Padaccheda
गच्छ
गम् [6. Ā.]
सुन्दोपसुन्दाभ्याम्
सुन्द [m]
सुन्दोपसुन्दाभ्याम्
उपसुन्द [m]
असुराभ्यां
असुर [m]
तिलोत्तमे
तिलोत्तमा [f]
प्रार्थनीयेन
प्रार्थय् [Denom. Ā.]
रूपेण
रूप [n]
कुरु
कृ [2. Ā.]
भद्रे
भद्र [adj]
प्रलोभनम्
प्रलोभन [n]
त्वत्कृते दर्शनादेव रूपसंपत्कृतेन वै । विरोधः स्याद्यथा ताभ्यामन्योन्येन तथा कुरु ॥
Morphemic Decomposition & Padaccheda
त्वत्कृते
त्वद् [pron]
त्वत्कृते
कृते [ind]
दर्शनाद्
दर्शन [n]
एव
एव [ind]
रूपसंपत्कृतेन
रूप [n]
रूपसंपत्कृतेन
सम्पद् [f]
रूपसंपत्कृतेन
कृ [2. Ā.]
वै
वै [ind]
विरोधः
विरोध [m]
स्याद्
अस् [2. P.]
यथा
यथा [ind]
ताभ्याम्
तद् [pron]
अन्योन्येन
अन्योन्य [adj]
तथा
तथा [ind]
कुरु
कृ [2. Ā.]
सा तथेति प्रतिज्ञाय नमस्कृत्य पितामहम् । चकार मण्डलं तत्र विबुधानां प्रदक्षिणम् ॥
Morphemic Decomposition & Padaccheda
तत्
तद् [pron]
तथेति
तथा [ind]
तथेति
इति [ind]
प्रतिज्ञाय
प्रतिज्ञा [9. Ā.]
कौरवाय
कौरव [m]
पुरोचनः
पुरोचन [m]
चकार
कृ [2. Ā.]
मण्डलं
मण्डल [mfn]
तत्र
तत्र [ind]
विबुधानां
विबुध [m]
प्रदक्षिणम्
प्रदक्षिण [adj]
प्राङ्मुखो भगवानास्ते दक्षिणेन महेश्वरः । देवाश्चैवोत्तरेणासन्सर्वतस्त्वृषयोऽभवन् ॥
Morphemic Decomposition & Padaccheda
प्राङ्मुखो
प्राञ्च् [adj]
प्राङ्मुखो
मुख [n]
भगवान्
भगवत् [adj]
आस्ते
आस् [4. P.]
दक्षिणेन
दक्षिण [adj]
महेश्वरः
महेश्वर [m]
देवाश्चैवोत्तरेणासन्
देव [m]
देवाश्चैवोत्तरेणासन्
च [ind]
देवाश्चैवोत्तरेणासन्
एव [ind]
देवाश्चैवोत्तरेणासन्
उत्तर [adj]
देवाश्चैवोत्तरेणासन्
अस् [2. P.]
सर्वतस्त्व्
सर्वतस् [ind]
सर्वतस्त्व्
तु [ind]
ऋषयो
ऋषि [m]
ऽभवन्
भू [1. Ā.]
कुर्वन्त्या तु तया तत्र मण्डलं तत्प्रदक्षिणम् । इन्द्रः स्थाणुश्च भगवान्धैर्येण प्रत्यवस्थितौ ॥
Morphemic Decomposition & Padaccheda
चकार
कृ [2. Ā.]
मण्डलं
मण्डल [mfn]
तत्र
तत्र [ind]
विबुधानां
विबुध [m]
प्रदक्षिणम्
प्रदक्षिण [adj]
स्थाणुर्
स्थाणु [m]
भवश्च
भव [m]
भवश्च
च [ind]
भगवान्
भगवत् [adj]
रुद्रास्तत्रावतस्थिरे
रुद्र [m]
रुद्रास्तत्रावतस्थिरे
तत्र [ind]
रुद्रास्तत्रावतस्थिरे
अवस्था [1. Ā.]
द्रष्टुकामस्य चात्यर्थं गतायाः पार्श्वतस्तदा । अन्यदञ्चितपक्ष्मान्तं दक्षिणं निःसृतं मुखम् ॥
Morphemic Decomposition & Padaccheda
द्रष्टुकामस्य
द्रष्टु [m]
द्रष्टुकामस्य
काम [m]
चात्यर्थं
च [ind]
चात्यर्थं
अत्यर्थम् [ind]
गतायाः
गम् [6. Ā.]
पार्श्वतस्तदा
पार्श्वतस् [ind]
पार्श्वतस्तदा
तदा [ind]
अन्यद्
अन्य [pron]
अञ्चितपक्ष्मान्तं
अञ्च् [1. Ā.]
अञ्चितपक्ष्मान्तं
पक्ष्मन् [n]
अञ्चितपक्ष्मान्तं
अन्त [m]
दक्षिणं
दक्षिण [adj]
निःसृतं
निःसृ [1. Ā.]
मुखम्
मुख [n]
पृष्ठतः परिवर्तन्त्याः पश्चिमं निःसृतं मुखम् । गतायाश्चोत्तरं पार्श्वमुत्तरं निःसृतं मुखम् ॥
Morphemic Decomposition & Padaccheda
पृष्ठतः
पृष्ठतस् [ind]
परिवर्तन्त्याः
परिवृत् [1. Ā.]
पश्चिमं
पश्चिम [adj]
निःसृतं
निःसृ [1. Ā.]
मुखम्
मुख [n]
गतायाश्चोत्तरं
गम् [6. Ā.]
गतायाश्चोत्तरं
च [ind]
गतायाश्चोत्तरं
उत्तर [adj]
पार्श्वम्
पार्श्व [mn]
उत्तरं
उत्तर [adj]
निःसृतं
निःसृ [1. Ā.]
मुखम्
मुख [n]
महेन्द्रस्यापि नेत्राणां पार्श्वतः पृष्ठतोऽग्रतः । रक्तान्तानां विशालानां सहस्रं सर्वतोऽभवत् ॥
Morphemic Decomposition & Padaccheda
महेन्द्रस्यापि
महेन्द्र [m]
महेन्द्रस्यापि
अपि [ind]
नेत्राणां
नेत्र [mn]
पार्श्वतः
पार्श्वतस् [ind]
पृष्ठतो
पृष्ठतस् [ind]
ऽग्रतः
अग्रतस् [ind]
रक्तान्तानां
रक्त [adj]
रक्तान्तानां
अन्त [m]
विशालानां
विशाल [adj]
सहस्रं
सहस्र [mn]
सर्वतो
सर्वतस् [ind]
ऽभवत्
भू [1. Ā.]
एवं चतुर्मुखः स्थाणुर्महादेवोऽभवत्पुरा । तथा सहस्रनेत्रश्च बभूव बलसूदनः ॥
Morphemic Decomposition & Padaccheda
एवं
एवम् [ind]
चतुर्मुखः
चतुर् [nr]
चतुर्मुखः
मुख [n]
स्थाणुर्
स्थाणु [m]
महादेवो
महादेव [m]
ऽभवत्
भू [1. Ā.]
पुरा
पुरा [ind]
तथा
तथा [ind]
सहस्रनेत्रश्च
सहस्र [mn]
सहस्रनेत्रश्च
नेत्र [mn]
सहस्रनेत्रश्च
च [ind]
बभूव
भू [1. Ā.]
बलसूदनः
बलसूदन [m]
तथा देवनिकायानामृषीणां चैव सर्वशः । मुखान्यभिप्रवर्तन्ते येन याति तिलोत्तमा ॥
Morphemic Decomposition & Padaccheda
तथा
तथा [ind]
देवनिकायानाम्
देव [m]
देवनिकायानाम्
निकाय [m]
ऋषीणां
ऋषि [m]
चैव
च [ind]
चैव
एव [ind]
सर्वशः
सर्वशस् [ind]
मुखान्यभिप्रवर्तन्ते
मुख [n]
मुखान्यभिप्रवर्तन्ते
अभिप्रवृत् [1. Ā.]
येन
येन [ind]
याति
या [2. Ā.]
तिलोत्तमा
तिलोत्तमा [f]
तस्या गात्रे निपतिता तेषां दृष्टिर्महात्मनाम् । सर्वेषामेव भूयिष्ठमृते देवं पितामहम् ॥
Morphemic Decomposition & Padaccheda
तस्या
तद् [pron]
गात्रे
गात्र [n]
निपतिता
निपत् [1. Ā.]
तेषां
तद् [pron]
दृष्टिर्
दृष्टि [f]
महात्मनाम्
महात्मन् [adj]
सर्वेषाम्
सर्व [pron]
एव
एव [ind]
भूयिष्ठम्
भूयिष्ठ [adj]
ऋते
ऋते [ind]
देवं
देव [m]
पितामहम्
पितामह [m]
गच्छन्त्यास्तु तदा देवाः सर्वे च परमर्षयः । कृतमित्येव तत्कार्यं मेनिरे रूपसंपदा ॥
Morphemic Decomposition & Padaccheda
ततो
ततस् [ind]
देवर्षयः
देव [m]
देवर्षयः
ऋषि [m]
सर्वे
सर्व [pron]
सिद्धाश्च
सिद्ध [m]
सिद्धाश्च
च [ind]
परमर्षयः
परम [adj]
परमर्षयः
ऋषि [m]
कृतम्
कृ [2. Ā.]
इत्येव
इति [ind]
इत्येव
एव [ind]
तत्
तद् [pron]
कार्यं
कार्य [n]
मेनिरे
मन् [8. P.]
रूपसंपदा
रूप [n]
रूपसंपदा
सम्पद् [f]
तिलोत्तमायां तु तदा गतायां लोकभावनः । सर्वान्विसर्जयामास देवानृषिगणांश्च तान् ॥
Morphemic Decomposition & Padaccheda
तिलोत्तमायां
तिलोत्तमा [f]
तु
तु [ind]
तदा
तदा [ind]
गतायां
गम् [6. Ā.]
लोकभावनः
लोक [m]
लोकभावनः
भावन [adj]
सर्वान्
सर्व [pron]
विसर्जयामास
विसर्जय् [10. Ā.]
देवान्
देव [m]
ऋषिगणांश्च
ऋषि [m]
ऋषिगणांश्च
गण [m]
ऋषिगणांश्च
च [ind]
तान्
तद् [pron]