Skip to main content
Search
MBh
Mahābhārata • Parva 1 (Ādiparva) • Adhyāya 197

Ādiparva Adhyāya 197

आदिपर्व • अध्यायः 197

Ādiparva Adhyāya 197 of the classical Mahābhārata with 30 verses.

Total: 30 Verses • Citations: MBh 1.197.1–30 • 250 Lexicon Terms
राजन्निःसंशयं श्रेयो वाच्यस्त्वमसि बान्धवैः । न त्वशुश्रूषमाणेषु वाक्यं संप्रतितिष्ठति ॥
हितं हि तव तद्वाक्यमुक्तवान्कुरुसत्तमः । भीष्मः शांतनवो राजन्प्रतिगृह्णासि तन्न च ॥
तथा द्रोणेन बहुधा भाषितं हितमुत्तमम् । तच्च राधासुतः कर्णो मन्यते न हितं तव ॥
चिन्तयंश्च न पश्यामि राजंस्तव सुहृत्तमम् । आभ्यां पुरुषसिंहाभ्यां यो वा स्यात्प्रज्ञयाधिकः ॥
इमौ हि वृद्धौ वयसा प्रज्ञया च श्रुतेन च । समौ च त्वयि राजेन्द्र तेषु पाण्डुसुतेषु च ॥
धर्मे चानवमौ राजन्सत्यतायां च भारत । रामाद्दाशरथेश्चैव गयाच्चैव न संशयः ॥
न चोक्तवन्तावश्रेयः पुरस्तादपि किंचन । न चाप्यपकृतं किंचिदनयोर्लक्ष्यते त्वयि ॥
ताविमौ पुरुषव्याघ्रावनागसि नृप त्वयि । न मन्त्रयेतां त्वच्छ्रेयः कथं सत्यपराक्रमौ ॥
प्रज्ञावन्तौ नरश्रेष्ठावस्मिँल्लोके नराधिप । त्वन्निमित्तमतो नेमौ किंचिज्जिह्मं वदिष्यतः । इति मे नैष्ठिकी बुद्धिर्वर्तते कुरुनन्दन ॥
न चार्थहेतोर्धर्मज्ञौ वक्ष्यतः पक्षसंश्रितम् । एतद्धि परमं श्रेयो मेनाते तव भारत ॥
दुर्योधनप्रभृतयः पुत्रा राजन्यथा तव । तथैव पाण्डवेयास्ते पुत्रा राजन्न संशयः ॥
तेषु चेदहितं किंचिन्मन्त्रयेयुरबुद्धितः । मन्त्रिणस्ते न ते श्रेयः प्रपश्यन्ति विशेषतः ॥
अथ ते हृदये राजन्विशेषस्तेषु वर्तते । अन्तरस्थं विवृण्वानाः श्रेयः कुर्युर्न ते ध्रुवम् ॥
एतदर्थमिमौ राजन्महात्मानौ महाद्युती । नोचतुर्विवृतं किंचिन्न ह्येष तव निश्चयः ॥
यच्चाप्यशक्यतां तेषामाहतुः पुरुषर्षभौ । तत्तथा पुरुषव्याघ्र तव तद्भद्रमस्तु ते ॥
कथं हि पाण्डवः श्रीमान्सव्यसाची परंतपः । शक्यो विजेतुं संग्रामे राजन्मघवता अपि ॥
भीमसेनो महाबाहुर्नागायुतबलो महान् । कथं हि युधि शक्येत विजेतुममरैरपि ॥
तथैव कृतिनौ युद्धे यमौ यमसुताविव । कथं विषहितुं शक्यौ रणे जीवितुमिच्छता ॥
यस्मिन्धृतिरनुक्रोशः क्षमा सत्यं पराक्रमः । नित्यानि पाण्डवश्रेष्ठे स जीयेत कथं रणे ॥
येषां पक्षधरो रामो येषां मन्त्री जनार्दनः । किं नु तैरजितं संख्ये येषां पक्षे च सात्यकिः ॥
द्रुपदः श्वशुरो येषां येषां श्यालाश्च पार्षताः । धृष्टद्युम्नमुखा वीरा भ्रातरो द्रुपदात्मजाः ॥
सोऽशक्यतां च विज्ञाय तेषामग्रेण भारत । दायाद्यतां च धर्मेण सम्यक्तेषु समाचर ॥
इदं निर्दिग्धमयशः पुरोचनकृतं महत् । तेषामनुग्रहेणाद्य राजन्प्रक्षालयात्मनः ॥
द्रुपदोऽपि महान्राजा कृतवैरश्च नः पुरा । तस्य संग्रहणं राजन्स्वपक्षस्य विवर्धनम् ॥
बलवन्तश्च दाशार्हा बहवश्च विशां पते । यतः कृष्णस्ततस्ते स्युर्यतः कृष्णस्ततो जयः ॥
यच्च साम्नैव शक्येत कार्यं साधयितुं नृप । को दैवशप्तस्तत्कार्तुं विग्रहेण समाचरेत् ॥
श्रुत्वा च जीवतः पार्थान्पौरजानपदो जनः । बलवद्दर्शने गृध्नुस्तेषां राजन्कुरु प्रियम् ॥
दुर्योधनश्च कर्णश्च शकुनिश्चापि सौबलः । अधर्मयुक्ता दुष्प्रज्ञा बाला मैषां वचः कृथाः ॥
उक्तमेतन्मया राजन्पुरा गुणवतस्तव । दुर्योधनापराधेन प्रजेयं विनशिष्यति ॥
← Previous (Ch. 196) Full Table of Contents Next (Ch. 198) →