Skip to main content
Search
MBh
Mahābhārata • Parva 1 (Ādiparva) • Adhyāya 179

Ādiparva Adhyāya 179

आदिपर्व • अध्यायः 179

Ādiparva Adhyāya 179 of the classical Mahābhārata with 24 verses.

Total: 24 Verses • Citations: MBh 1.179.1–24 • 250 Lexicon Terms
यदा निवृत्ता राजानो धनुषः सज्यकर्मणि । अथोदतिष्ठद्विप्राणां मध्याज्जिष्णुरुदारधीः ॥
उदक्रोशन्विप्रमुख्या विधुन्वन्तोऽजिनानि च । दृष्ट्वा संप्रस्थितं पार्थमिन्द्रकेतुसमप्रभम् ॥
केचिदासन्विमनसः केचिदासन्मुदा युताः । आहुः परस्परं केचिन्निपुणा बुद्धिजीविनः ॥
यत्कर्णशल्यप्रमुखैः पार्थिवैर्लोकविश्रुतैः । नानतं बलवद्भिर्हि धनुर्वेदपरायणैः ॥
तत्कथं त्वकृतास्त्रेण प्राणतो दुर्बलीयसा । बटुमात्रेण शक्यं हि सज्यं कर्तुं धनुर्द्विजाः ॥
अवहास्या भविष्यन्ति ब्राह्मणाः सर्वराजसु । कर्मण्यस्मिन्नसंसिद्धे चापलादपरीक्षिते ॥
यद्येष दर्पाद्धर्षाद्वा यदि वा ब्रह्मचापलात् । प्रस्थितो धनुरायन्तुं वार्यतां साधु मा गमत् ॥
नावहास्या भविष्यामो न च लाघवमास्थिताः । न च विद्विष्टतां लोके गमिष्यामो महीक्षिताम् ॥
केचिदाहुर्युवा श्रीमान्नागराजकरोपमः । पीनस्कन्धोरुबाहुश्च धैर्येण हिमवानिव ॥
संभाव्यमस्मिन्कर्मेदमुत्साहाच्चानुमीयते । शक्तिरस्य महोत्साहा न ह्यशक्तः स्वयं व्रजेत् ॥
न च तद्विद्यते किंचित्कर्म लोकेषु यद्भवेत् । ब्राह्मणानामसाध्यं च त्रिषु संस्थानचारिषु ॥
अब्भक्षा वायुभक्षाश्च फलाहारा दृढव्रताः । दुर्बला हि बलीयांसो विप्रा हि ब्रह्मतेजसा ॥
ब्राह्मणो नावमन्तव्यः सद्वासद्वा समाचरन् । सुखं दुःखं महद्ध्रस्वं कर्म यत्समुपागतम् ॥
एवं तेषां विलपतां विप्राणां विविधा गिरः । अर्जुनो धनुषोऽभ्याशे तस्थौ गिरिरिवाचलः ॥
स तद्धनुः परिक्रम्य प्रदक्षिणमथाकरोत् । प्रणम्य शिरसा हृष्टो जगृहे च परंतपः ॥
सज्यं च चक्रे निमिषान्तरेण; शरांश्च जग्राह दशार्धसंख्यान् । विव्याध लक्ष्यं निपपात तच्च; छिद्रेण भूमौ सहसातिविद्धम् ॥
ततोऽन्तरिक्षे च बभूव नादः; समाजमध्ये च महान्निनादः । पुष्पाणि दिव्यानि ववर्ष देवः; पार्थस्य मूर्ध्नि द्विषतां निहन्तुः ॥
चेलावेधांस्ततश्चक्रुर्हाहाकारांश्च सर्वशः । न्यपतंश्चात्र नभसः समन्तात्पुष्पवृष्टयः ॥
शताङ्गानि च तूर्याणि वादकाश्चाप्यवादयन् । सूतमागधसंघाश्च अस्तुवंस्तत्र सुस्वनाः ॥
तं दृष्ट्वा द्रुपदः प्रीतो बभूवारिनिषूदनः । सहसैन्यश्च पार्थस्य साहाय्यार्थमियेष सः ॥
तस्मिंस्तु शब्दे महति प्रवृत्ते; युधिष्ठिरो धर्मभृतां वरिष्ठः । आवासमेवोपजगाम शीघ्रं; सार्धं यमाभ्यां पुरुषोत्तमाभ्याम् ॥
विद्धं तु लक्ष्यं प्रसमीक्ष्य कृष्णा; पार्थं च शक्रप्रतिमं निरीक्ष्य । आदाय शुक्लं वरमाल्यदाम; जगाम कुन्तीसुतमुत्स्मयन्ती ॥
स तामुपादाय विजित्य रङ्गे; द्विजातिभिस्तैरभिपूज्यमानः । रङ्गान्निरक्रामदचिन्त्यकर्मा; पत्न्या तया चाप्यनुगम्यमानः ॥
← Previous (Ch. 178) Full Table of Contents Next (Ch. 180) →