Skip to main content
Search
MBh
Mahābhārata • Parva 1 (Ādiparva) • Adhyāya 175

Ādiparva Adhyāya 175

आदिपर्व • अध्यायः 175

Ādiparva Adhyāya 175 of the classical Mahābhārata with 21 verses.

Total: 21 Verses • Citations: MBh 1.175.1–21 • 250 Lexicon Terms
ततस्ते नरशार्दूला भ्रातरः पञ्च पाण्डवाः । प्रययुर्द्रौपदीं द्रष्टुं तं च देवमहोत्सवम् ॥
ते प्रयाता नरव्याघ्रा मात्रा सह परंतपाः । ब्राह्मणान्ददृशुर्मार्गे गच्छतः सगणान्बहून् ॥
तानूचुर्ब्राह्मणा राजन्पाण्डवान्ब्रह्मचारिणः । क्व भवन्तो गमिष्यन्ति कुतो वागच्छतेति ह ॥
आगतानेकचक्रायाः सोदर्यान्देवदर्शिनः । भवन्तो हि विजानन्तु सहितान्मातृचारिणः ॥
गच्छताद्यैव पाञ्चालान्द्रुपदस्य निवेशनम् । स्वयंवरो महांस्तत्र भविता सुमहाधनः ॥
एकसार्थं प्रयाताः स्मो वयमप्यत्र गामिनः । तत्र ह्यद्भुतसंकाशो भविता सुमहोत्सवः ॥
यज्ञसेनस्य दुहिता द्रुपदस्य महात्मनः । वेदीमध्यात्समुत्पन्ना पद्मपत्रनिभेक्षणा ॥
दर्शनीयानवद्याङ्गी सुकुमारी मनस्विनी । धृष्टद्युम्नस्य भगिनी द्रोणशत्रोः प्रतापिनः ॥
यो जातः कवची खड्गी सशरः सशरासनः । सुसमिद्धे महाबाहुः पावके पावकप्रभः ॥
स्वसा तस्यानवद्याङ्गी द्रौपदी तनुमध्यमा । नीलोत्पलसमो गन्धो यस्याः क्रोशात्प्रवायति ॥
तां यज्ञसेनस्य सुतां स्वयंवरकृतक्षणाम् । गच्छामहे वयं द्रष्टुं तं च देवमहोत्सवम् ॥
राजानो राजपुत्राश्च यज्वानो भूरिदक्षिणाः । स्वाध्यायवन्तः शुचयो महात्मानो यतव्रताः ॥
तरुणा दर्शनीयाश्च नानादेशसमागताः । महारथाः कृतास्त्राश्च समुपैष्यन्ति भूमिपाः ॥
ते तत्र विविधान्दायान्विजयार्थं नरेश्वराः । प्रदास्यन्ति धनं गाश्च भक्ष्यं भोज्यं च सर्वशः ॥
प्रतिगृह्य च तत्सर्वं दृष्ट्वा चैव स्वयंवरम् । अनुभूयोत्सवं चैव गमिष्यामो यथेप्सितम् ॥
नटा वैतालिकाश्चैव नर्तकाः सूतमागधाः । नियोधकाश्च देशेभ्यः समेष्यन्ति महाबलाः ॥
एवं कौतूहलं कृत्वा दृष्ट्वा च प्रतिगृह्य च । सहास्माभिर्महात्मानः पुनः प्रतिनिवर्त्स्यथ ॥
दर्शनीयांश्च वः सर्वान्देवरूपानवस्थितान् । समीक्ष्य कृष्णा वरयेत्संगत्यान्यतमं वरम् ॥
अयं भ्राता तव श्रीमान्दर्शनीयो महाभुजः । नियुध्यमानो विजयेत्संगत्या द्रविणं बहु ॥
परमं भो गमिष्यामो द्रष्टुं देवमहोत्सवम् । भवद्भिः सहिताः सर्वे कन्यायास्तं स्वयंवरम् ॥
← Previous (Ch. 174) Full Table of Contents Next (Ch. 176) →