Skip to main content
Search
MBh
Mahābhārata • Parva 1 (Ādiparva) • Adhyāya 172

Ādiparva Adhyāya 172

आदिपर्व • अध्यायः 172

Ādiparva Adhyāya 172 of the classical Mahābhārata with 18 verses.

Total: 18 Verses • Citations: MBh 1.172.1–18 • 250 Lexicon Terms
एवमुक्तः स विप्रर्षिर्वसिष्ठेन महात्मना । न्ययच्छदात्मनः कोपं सर्वलोकपराभवात् ॥
ईजे च स महातेजाः सर्ववेदविदां वरः । ऋषी राक्षससत्रेण शाक्तेयोऽथ पराशरः ॥
ततो वृद्धांश्च बालांश्च राक्षसान्स महामुनिः । ददाह वितते यज्ञे शक्तेर्वधमनुस्मरन् ॥
न हि तं वारयामास वसिष्ठो रक्षसां वधात् । द्वितीयामस्य मा भाङ्क्षं प्रतिज्ञामिति निश्चयात् ॥
त्रयाणां पावकानां स सत्रे तस्मिन्महामुनिः । आसीत्पुरस्ताद्दीप्तानां चतुर्थ इव पावकः ॥
तेन यज्ञेन शुभ्रेण हूयमानेन युक्तितः । तद्विदीपितमाकाशं सूर्येणेव घनात्यये ॥
तं वसिष्ठादयः सर्वे मुनयस्तत्र मेनिरे । तेजसा दिवि दीप्यन्तं द्वितीयमिव भास्करम् ॥
ततः परमदुष्प्रापमन्यैरृषिरुदारधीः । समापिपयिषुः सत्रं तमत्रिः समुपागमत् ॥
तथा पुलस्त्यः पुलहः क्रतुश्चैव महाक्रतुम् । उपाजग्मुरमित्रघ्न रक्षसां जीवितेप्सया ॥
पुलस्त्यस्तु वधात्तेषां रक्षसां भरतर्षभ । उवाचेदं वचः पार्थ पराशरमरिंदमम् ॥
कच्चित्तातापविघ्नं ते कच्चिन्नन्दसि पुत्रक । अजानतामदोषाणां सर्वेषां रक्षसां वधात् ॥
प्रजोच्छेदमिमं मह्यं सर्वं सोमपसत्तम । अधर्मिष्ठं वरिष्ठः सन्कुरुषे त्वं पराशर । राजा कल्माषपादश्च दिवमारोढुमिच्छति ॥
ये च शक्त्यवराः पुत्रा वसिष्ठस्य महामुनेः । ते च सर्वे मुदा युक्ता मोदन्ते सहिताः सुरैः । सर्वमेतद्वसिष्ठस्य विदितं वै महामुने ॥
रक्षसां च समुच्छेद एष तात तपस्विनाम् । निमित्तभूतस्त्वं चात्र क्रतौ वासिष्ठनन्दन । स सत्रं मुञ्च भद्रं ते समाप्तमिदमस्तु ते ॥
एवमुक्तः पुलस्त्येन वसिष्ठेन च धीमता । तदा समापयामास सत्रं शाक्तिः पराशरः ॥
सर्वराक्षससत्राय संभृतं पावकं मुनिः । उत्तरे हिमवत्पार्श्वे उत्ससर्ज महावने ॥
स तत्राद्यापि रक्षांसि वृक्षानश्मान एव च । भक्षयन्दृश्यते वह्निः सदा पर्वणि पर्वणि ॥
← Previous (Ch. 171) Full Table of Contents Next (Ch. 173) →