Skip to main content
Search
MBh
Mahābhārata • Parva 1 (Ādiparva) • Adhyāya 168

Ādiparva Adhyāya 168

आदिपर्व • अध्यायः 168

Ādiparva Adhyāya 168 of the classical Mahābhārata with 26 verses.

Total: 26 Verses • Citations: MBh 1.168.1–26 • 250 Lexicon Terms
मा भैः पुत्रि न भेतव्यं रक्षसस्ते कथंचन । नैतद्रक्षो भयं यस्मात्पश्यसि त्वमुपस्थितम् ॥
राजा कल्माषपादोऽयं वीर्यवान्प्रथितो भुवि । स एषोऽस्मिन्वनोद्देशे निवसत्यतिभीषणः ॥
तमापतन्तं संप्रेक्ष्य वसिष्ठो भगवानृषिः । वारयामास तेजस्वी हुंकरेणैव भारत ॥
मन्त्रपूतेन च पुनः स तमभ्युक्ष्य वारिणा । मोक्षयामास वै घोराद्राक्षसाद्राजसत्तमम् ॥
स हि द्वादश वर्षाणि वसिष्ठस्यैव तेजसा । ग्रस्त आसीद्गृहेणेव पर्वकाले दिवाकरः ॥
रक्षसा विप्रमुक्तोऽथ स नृपस्तद्वनं महत् । तेजसा रञ्जयामास संध्याभ्रमिव भास्करः ॥
प्रतिलभ्य ततः संज्ञामभिवाद्य कृताञ्जलिः । उवाच नृपतिः काले वसिष्ठमृषिसत्तमम् ॥
सौदासोऽहं महाभाग याज्यस्ते द्विजसत्तम । अस्मिन्काले यदिष्टं ते ब्रूहि किं करवाणि ते ॥
वृत्तमेतद्यथाकालं गच्छ राज्यं प्रशाधि तत् । ब्राह्मणांश्च मनुष्येन्द्र मावमंस्थाः कदाचन ॥
नावमंस्याम्यहं ब्रह्मन्कदाचिद्ब्राह्मणर्षभान् । त्वन्निदेशे स्थितः शश्वत्पुजयिष्याम्यहं द्विजान् ॥
इक्ष्वाकूणां तु येनाहमनृणः स्यां द्विजोत्तम । तत्त्वत्तः प्राप्तुमिच्छामि वरं वेदविदां वर ॥
अपत्यायेप्सितां मह्यं महिषीं गन्तुमर्हसि । शीलरूपगुणोपेतामिक्ष्वाकुकुलवृद्धये ॥
ददानीत्येव तं तत्र राजानं प्रत्युवाच ह । वसिष्ठः परमेष्वासं सत्यसंधो द्विजोत्तमः ॥
ततः प्रतिययौ काले वसिष्ठसहितोऽनघ । ख्यातं पुरवरं लोकेष्वयोध्यां मनुजेश्वरः ॥
तं प्रजाः प्रतिमोदन्त्यः सर्वाः प्रत्युद्ययुस्तदा । विपाप्मानं महात्मानं दिवौकस इवेश्वरम् ॥
अचिरात्स मनुष्येन्द्रो नगरीं पुण्यकर्मणाम् । विवेश सहितस्तेन वसिष्ठेन महात्मना ॥
ददृशुस्तं ततो राजन्नयोध्यावासिनो जनाः । पुष्येण सहितं काले दिवाकरमिवोदितम् ॥
स हि तां पूरयामास लक्ष्म्या लक्ष्मीवतां वरः । अयोध्यां व्योम शीतांशुः शरत्काल इवोदितः ॥
संसिक्तमृष्टपन्थानं पताकोच्छ्रयभूषितम् । मनः प्रह्लादयामासा तस्य तत्पुरमुत्तमम् ॥
तुष्टपुष्टजनाकीर्णा सा पुरी कुरुनन्दन । अशोभत तदा तेन शक्रेणेवामरावती ॥
ततः प्रविष्टे राजेन्द्रे तस्मिन्राजनि तां पुरीम् । तस्य राज्ञोऽऽज्ञया देवी वसिष्ठमुपचक्रमे ॥
ऋतावथ महर्षिः स संबभूव तया सह । देव्या दिव्येन विधिना वसिष्ठः श्रेष्ठभागृषिः ॥
अथ तस्यां समुत्पन्ने गर्भे स मुनिसत्तमः । राज्ञाभिवादितस्तेन जगाम पुनराश्रमम् ॥
दीर्घकालधृतं गर्भं सुषाव न तु तं यदा । साथ देव्यश्मना कुक्षिं निर्बिभेद तदा स्वकम् ॥
द्वादशेऽथ ततो वर्षे स जज्ञे मनुजर्षभ । अश्मको नाम राजर्षिः पोतनं यो न्यवेशयत् ॥
← Previous (Ch. 167) Full Table of Contents Next (Ch. 169) →