Skip to main content
Search
MBh
Mahābhārata • Parva 1 (Ādiparva) • Adhyāya 166

Ādiparva Adhyāya 166

आदिपर्व • अध्यायः 166

Ādiparva Adhyāya 166 of the classical Mahābhārata with 46 verses.

Total: 46 Verses • Citations: MBh 1.166.1–46 • 250 Lexicon Terms • Page 1 of 2 (Verses 30 shown)
कल्माषपाद इत्यस्मिँल्लोके राजा बभूव ह । इक्ष्वाकुवंशजः पार्थ तेजसासदृशो भुवि ॥
स कदाचिद्वनं राजा मृगयां निर्ययौ पुरात् । मृगान्विध्यन्वराहांश्च चचार रिपुमर्दनः ॥
स तु राजा महात्मानं वासिष्ठमृषिसत्तमम् । तृषार्तश्च क्षुधार्तश्च एकायनगतः पथि ॥
अपश्यदजितः संख्ये मुनिं प्रतिमुखागतम् । शक्तिं नाम महाभागं वसिष्ठकुलनन्दनम् । ज्येष्ठं पुत्रशतात्पुत्रं वसिष्ठस्य महात्मनः ॥
अपगच्छ पथोऽस्माकमित्येवं पार्थिवोऽब्रवीत् । तथा ऋषिरुवाचैनं सान्त्वयञ्श्लक्ष्णया गिरा ॥
ऋषिस्तु नापचक्राम तस्मिन्धर्मपथे स्थितः । नापि राजा मुनेर्मानात्क्रोधाच्चापि जगाम ह ॥
अमुञ्चन्तं तु पन्थानं तमृषिं नृपसत्तमः । जघान कशया मोहात्तदा राक्षसवन्मुनिम् ॥
कशाप्रहाराभिहतस्ततः स मुनिसत्तमः । तं शशाप नृपश्रेष्ठं वासिष्ठः क्रोधमूर्च्छितः ॥
हंसि राक्षसवद्यस्माद्राजापसद तापसम् । तस्मात्त्वमद्य प्रभृति पुरुषादो भविष्यसि ॥
मनुष्यपिशिते सक्तश्चरिष्यसि महीमिमाम् । गच्छ राजाधमेत्युक्तः शक्तिना वीर्यशक्तिना ॥
ततो याज्यनिमित्तं तु विश्वामित्रवसिष्ठयोः । वैरमासीत्तदा तं तु विश्वामित्रोऽन्वपद्यत ॥
तयोर्विवदतोरेवं समीपमुपचक्रमे । ऋषिरुग्रतपाः पार्थ विश्वामित्रः प्रतापवान् ॥
ततः स बुबुधे पश्चात्तमृषिं नृपसत्तमः । ऋषेः पुत्रं वसिष्ठस्य वसिष्ठमिव तेजसा ॥
अन्तर्धाय तदात्मानं विश्वामित्रोऽपि भारत । तावुभावुपचक्राम चिकीर्षन्नात्मनः प्रियम् ॥
स तु शप्तस्तदा तेन शक्तिना वै नृपोत्तमः । जगाम शरणं शक्तिं प्रसादयितुमर्हयन् ॥
तस्य भावं विदित्वा स नृपतेः कुरुनन्दन । विश्वामित्रस्ततो रक्ष आदिदेश नृपं प्रति ॥
स शापात्तस्य विप्रर्षेर्विश्वामित्रस्य चाज्ञया । राक्षसः किंकरो नाम विवेश नृपतिं तदा ॥
रक्षसा तु गृहीतं तं विदित्वा स मुनिस्तदा । विश्वामित्रोऽप्यपक्रामत्तस्माद्देशादरिंदम ॥
ततः स नृपतिर्विद्वान्रक्षन्नात्मानमात्मना । बलवत्पीड्यमानोऽपि रक्षसान्तर्गतेन ह ॥
ददर्श तं द्विजः कश्चिद्राजानं प्रस्थितं पुनः । ययाचे क्षुधितश्चैनं समांसं भोजनं तदा ॥
तमुवाचाथ राजर्षिर्द्विजं मित्रसहस्तदा । आस्स्व ब्रह्मंस्त्वमत्रैव मुहूर्तमिति सान्त्वयन् ॥
निवृत्तः प्रतिदास्यामि भोजनं ते यथेप्सितम् । इत्युक्त्वा प्रययौ राजा तस्थौ च द्विजसत्तमः ॥
अन्तर्गतं तु तद्राज्ञस्तदा ब्राह्मणभाषितम् । सोऽन्तःपुरं प्रविश्याथ संविवेश नराधिपः ॥
ततोऽर्धरात्र उत्थाय सूदमानाय्य सत्वरम् । उवाच राजा संस्मृत्य ब्राह्मणस्य प्रतिश्रुतम् ॥
गच्छामुष्मिन्नसौ देशे ब्राह्मणो मां प्रतीक्षते । अन्नार्थी त्वं तमन्नेन समांसेनोपपादय ॥
एवमुक्तस्तदा सूदः सोऽनासाद्यामिषं क्वचित् । निवेदयामास तदा तस्मै राज्ञे व्यथान्वितः ॥
राजा तु रक्षसाविष्टः सूदमाह गतव्यथः । अप्येनं नरमांसेन भोजयेति पुनः पुनः ॥
तथेत्युक्त्वा ततः सूदः संस्थानं वध्यघातिनाम् । गत्वा जहार त्वरितो नरमांसमपेतभीः ॥
स तत्संस्कृत्य विधिवदन्नोपहितमाशु वै । तस्मै प्रादाद्ब्राह्मणाय क्षुधिताय तपस्विने ॥
← Previous (Ch. 165) Full Table of Contents Next (Ch. 167) →