Skip to main content
Search
MBh
Mahābhārata • Parva 1 (Ādiparva) • Adhyāya 154

Ādiparva Adhyāya 154

आदिपर्व • अध्यायः 154

Ādiparva Adhyāya 154 of the classical Mahābhārata with 26 verses.

Total: 26 Verses • Citations: MBh 1.154.1–26 • 250 Lexicon Terms
गङ्गाद्वारं प्रति महान्बभूवर्षिर्महातपाः । भरद्वाजो महाप्राज्ञः सततं संशितव्रतः ॥
सोऽभिषेक्तुं गतो गङ्गां पूर्वमेवागतां सतीम् । ददर्शाप्सरसं तत्र घृताचीमाप्लुतामृषिः ॥
तस्या वायुर्नदीतीरे वसनं व्यहरत्तदा । अपकृष्टाम्बरां दृष्ट्वा तामृषिश्चकमे ततः ॥
तस्यां संसक्तमनसः कौमारब्रह्मचारिणः । हृष्टस्य रेतश्चस्कन्द तदृषिर्द्रोण आदधे ॥
ततः समभवद्द्रोणः कुमारस्तस्य धीमतः । अध्यगीष्ट स वेदांश्च वेदाङ्गानि च सर्वशः ॥
भरद्वाजस्य तु सखा पृषतो नाम पार्थिवः । तस्यापि द्रुपदो नाम तदा समभवत्सुतः ॥
स नित्यमाश्रमं गत्वा द्रोणेन सह पार्षतः । चिक्रीडाध्ययनं चैव चकार क्षत्रियर्षभः ॥
ततस्तु पृषतेऽतीते स राजा द्रुपदोऽभवत् । द्रोणोऽपि रामं शुश्राव दित्सन्तं वसु सर्वशः ॥
वनं तु प्रस्थितं रामं भरद्वाजसुतोऽब्रवीत् । आगतं वित्तकामं मां विद्धि द्रोणं द्विजर्षभ ॥
शरीरमात्रमेवाद्य मयेदमवशेषितम् । अस्त्राणि वा शरीरं वा ब्रह्मन्नन्यतरं वृणु ॥
अस्त्राणि चैव सर्वाणि तेषां संहारमेव च । प्रयोगं चैव सर्वेषां दातुमर्हति मे भवान् ॥
तथेत्युक्त्वा ततस्तस्मै प्रददौ भृगुनन्दनः । प्रतिगृह्य ततो द्रोणः कृतकृत्योऽभवत्तदा ॥
संप्रहृष्टमनाश्चापि रामात्परमसंमतम् । ब्रह्मास्त्रं समनुप्राप्य नरेष्वभ्यधिकोऽभवत् ॥
ततो द्रुपदमासाद्य भारद्वाजः प्रतापवान् । अब्रवीत्पुरुषव्याघ्रः सखायं विद्धि मामिति ॥
नाश्रोत्रियः श्रोत्रियस्य नारथी रथिनः सखा । नाराजा पार्थिवस्यापि सखिपूर्वं किमिष्यते ॥
स विनिश्चित्य मनसा पाञ्चाल्यं प्रति बुद्धिमान् । जगाम कुरुमुख्यानां नगरं नागसाह्वयम् ॥
तस्मै पौत्रान्समादाय वसूनि विविधानि च । प्राप्ताय प्रददौ भीष्मः शिष्यान्द्रोणाय धीमते ॥
द्रोणः शिष्यांस्ततः सर्वानिदं वचनमब्रवीत् । समानीय तदा विद्वान्द्रुपदस्यासुखाय वै ॥
आचार्यवेतनं किंचिद्धृदि संपरिवर्तते । कृतास्त्रैस्तत्प्रदेयं स्यात्तदृतं वदतानघाः ॥
यदा च पाण्डवाः सर्वे कृतास्त्राः कृतनिश्रमाः । ततो द्रोणोऽब्रवीद्भूयो वेतनार्थमिदं वचः ॥
पार्षतो द्रुपदो नाम छत्रवत्यां नरेश्वरः । तस्यापकृष्य तद्राज्यं मम शीघ्रं प्रदीयताम् ॥
ततः पाण्डुसुताः पञ्च निर्जित्य द्रुपदं युधि । द्रोणाय दर्शयामासुर्बद्ध्वा ससचिवं तदा ॥
प्रार्थयामि त्वया सख्यं पुनरेव नराधिप । अराजा किल नो राज्ञः सखा भवितुमर्हति ॥
अतः प्रयतितं राज्ये यज्ञसेन मया तव । राजासि दक्षिणे कूले भागीरथ्याहमुत्तरे ॥
असत्कारः स सुमहान्मुहूर्तमपि तस्य तु । न व्येति हृदयाद्राज्ञो दुर्मनाः स कृशोऽभवत् ॥
← Previous (Ch. 153) Full Table of Contents Next (Ch. 155) →