Skip to main content
Search
MBh
Mahābhārata • Parva 1 (Ādiparva) • Adhyāya 150

Ādiparva Adhyāya 150

आदिपर्व • अध्यायः 150

Ādiparva Adhyāya 150 of the classical Mahābhārata with 28 verses.

Total: 28 Verses • Citations: MBh 1.150.1–28 • 250 Lexicon Terms
करिष्य इति भीमेन प्रतिज्ञाते तु भारत । आजग्मुस्ते ततः सर्वे भैक्षमादाय पाण्डवाः ॥
आकारेणैव तं ज्ञात्वा पाण्डुपुत्रो युधिष्ठिरः । रहः समुपविश्यैकस्ततः पप्रच्छ मातरम् ॥
किं चिकीर्षत्ययं कर्म भीमो भीमपराक्रमः । भवत्यनुमते कच्चिदयं कर्तुमिहेच्छति ॥
ममैव वचनादेष करिष्यति परंतपः । ब्राह्मणार्थे महत्कृत्यं मोष्काय नगरस्य च ॥
किमिदं साहसं तीक्ष्णं भवत्या दुष्कृतं कृतम् । परित्यागं हि पुत्रस्य न प्रशंसन्ति साधवः ॥
कथं परसुतस्यार्थे स्वसुतं त्यक्तुमिच्छसि । लोकवृत्तिविरुद्धं वै पुत्रत्यागात्कृतं त्वया ॥
यस्य बाहू समाश्रित्य सुखं सर्वे स्वपामहे । राज्यं चापहृतं क्षुद्रैराजिहीर्षामहे पुनः ॥
यस्य दुर्योधनो वीर्यं चिन्तयन्नमितौजसः । न शेते वसतीः सर्वा दुःखाच्छकुनिना सह ॥
यस्य वीरस्य वीर्येण मुक्ता जतुगृहाद्वयम् । अन्येभ्यश्चैव पापेभ्यो निहतश्च पुरोचनः ॥
यस्य वीर्यं समाश्रित्य वसुपूर्णां वसुंधराम् । इमां मन्यामहे प्राप्तां निहत्य धृतराष्ट्रजान् ॥
तस्य व्यवसितस्त्यागो बुद्धिमास्थाय कां त्वया । कच्चिन्न दुःखैर्बुद्धिस्ते विप्लुता गतचेतसः ॥
युधिष्ठिर न संतापः कार्यः प्रति वृकोदरम् । न चायं बुद्धिदौर्बल्याद्व्यवसायः कृतो मया ॥
इह विप्रस्य भवने वयं पुत्र सुखोषिताः । तस्य प्रतिक्रिया तात मयेयं प्रसमीक्षिता । एतावानेव पुरुषः कृतं यस्मिन्न नश्यति ॥
दृष्ट्वा भीमस्य विक्रान्तं तदा जतुगृहे महत् । हिडिम्बस्य वधाच्चैव विश्वासो मे वृकोदरे ॥
बाह्वोर्बलं हि भीमस्य नागायुतसमं महत् । येन यूयं गजप्रख्या निर्व्यूढा वारणावतात् ॥
वृकोदरबलो नान्यो न भूतो न भविष्यति । योऽभ्युदीयाद्युधि श्रेष्ठमपि वज्रधरं स्वयम् ॥
जातमात्रः पुरा चैष ममाङ्कात्पतितो गिरौ । शरीरगौरवात्तस्य शिला गात्रैर्विचूर्णिता ॥
तदहं प्रज्ञया स्मृत्वा बलं भीमस्य पाण्डव । प्रतीकारं च विप्रस्य ततः कृतवती मतिम् ॥
नेदं लोभान्न चाज्ञानान्न च मोहाद्विनिश्चितम् । बुद्धिपूर्वं तु धर्मस्य व्यवसायः कृतो मया ॥
अर्थौ द्वावपि निष्पन्नौ युधिष्ठिर भविष्यतः । प्रतीकारश्च वासस्य धर्मश्च चरितो महान् ॥
यो ब्राह्मणस्य साहाय्यं कुर्यादर्थेषु कर्हिचित् । क्षत्रियः स शुभाँल्लोकान्प्राप्नुयादिति मे श्रुतम् ॥
क्षत्रियः क्षत्रियस्यैव कुर्वाणो वधमोक्षणम् । विपुलां कीर्तिमाप्नोति लोकेऽस्मिंश्च परत्र च ॥
वैश्यस्यैव तु साहाय्यं कुर्वाणः क्षत्रियो युधि । स सर्वेष्वपि लोकेषु प्रजा रञ्जयते ध्रुवम् ॥
शूद्रं तु मोक्षयन्राजा शरणार्थिनमागतम् । प्राप्नोतीह कुले जन्म सद्रव्ये राजसत्कृते ॥
एवं स भगवान्व्यासः पुरा कौरवनन्दन । प्रोवाच सुतरां प्राज्ञस्तस्मादेतच्चिकीर्षितम् ॥
उपपन्नमिदं मातस्त्वया यद्बुद्धिपूर्वकम् । आर्तस्य ब्राह्मणस्यैवमनुक्रोशादिदं कृतम् । ध्रुवमेष्यति भीमोऽयं निहत्य पुरुषादकम् ॥
यथा त्विदं न विन्देयुर्नरा नगरवासिनः । तथायं ब्राह्मणो वाच्यः परिग्राह्यश्च यत्नतः ॥
← Previous (Ch. 149) Full Table of Contents Next (Ch. 151) →