Skip to main content
Search
MBh
Mahābhārata • Parva 1 (Ādiparva) • Adhyāya 113

Ādiparva Adhyāya 113

आदिपर्व • अध्यायः 113

Ādiparva Adhyāya 113 of the classical Mahābhārata with 44 verses.

Total: 44 Verses • Citations: MBh 1.113.1–44 • 250 Lexicon Terms • Page 1 of 2 (Verses 30 shown)
एवमुक्तस्तया राजा तां देवीं पुनरब्रवीत् । धर्मविद्धर्मसंयुक्तमिदं वचनमुत्तमम् ॥
एवमेतत्पुरा कुन्ति व्युषिताश्वश्चकार ह । यथा त्वयोक्तं कल्याणि स ह्यासीदमरोपमः ॥
अथ त्विमं प्रवक्ष्यामि धर्मं त्वेतं निबोध मे । पुराणमृषिभिर्दृष्टं धर्मविद्भिर्महात्मभिः ॥
अनावृताः किल पुरा स्त्रिय आसन्वरानने । कामचारविहारिण्यः स्वतन्त्राश्चारुलोचने ॥
तासां व्युच्चरमाणानां कौमारात्सुभगे पतीन् । नाधर्मोऽभूद्वरारोहे स हि धर्मः पुराभवत् ॥
तं चैव धर्मं पौराणं तिर्यग्योनिगताः प्रजाः । अद्याप्यनुविधीयन्ते कामद्वेषविवर्जिताः । पुराणदृष्टो धर्मोऽयं पूज्यते च महर्षिभिः ॥
उत्तरेषु च रम्भोरु कुरुष्वद्यापि वर्तते । स्त्रीणामनुग्रहकरः स हि धर्मः सनातनः ॥
अस्मिंस्तु लोके नचिरान्मर्यादेयं शुचिस्मिते । स्थापिता येन यस्माच्च तन्मे विस्तरतः शृणु ॥
बभूवोद्दालको नाम महर्षिरिति नः श्रुतम् । श्वेतकेतुरिति ख्यातः पुत्रस्तस्याभवन्मुनिः ॥
मर्यादेयं कृता तेन मानुषेष्विति नः श्रुतम् । कोपात्कमलपत्राक्षि यदर्थं तन्निबोध मे ॥
श्वेतकेतोः किल पुरा समक्षं मातरं पितुः । जग्राह ब्राह्मणः पाणौ गच्छाव इति चाब्रवीत् ॥
ऋषिपुत्रस्ततः कोपं चकारामर्षितस्तदा । मातरं तां तथा दृष्ट्वा नीयमानां बलादिव ॥
क्रुद्धं तं तु पिता दृष्ट्वा श्वेतकेतुमुवाच ह । मा तात कोपं कार्षीस्त्वमेष धर्मः सनातनः ॥
अनावृता हि सर्वेषां वर्णानामङ्गना भुवि । यथा गावः स्थितास्तात स्वे स्वे वर्णे तथा प्रजाः ॥
ऋषिपुत्रोऽथ तं धर्मं श्वेतकेतुर्न चक्षमे । चकार चैव मर्यादामिमां स्त्रीपुंसयोर्भुवि ॥
मानुषेषु महाभागे न त्वेवान्येषु जन्तुषु । तदा प्रभृति मर्यादा स्थितेयमिति नः श्रुतम् ॥
व्युच्चरन्त्याः पतिं नार्या अद्य प्रभृति पातकम् । भ्रूणहत्याकृतं पापं भविष्यत्यसुखावहम् ॥
भार्यां तथा व्युच्चरतः कौमारीं ब्रह्मचारिणीम् । पतिव्रतामेतदेव भविता पातकं भुवि ॥
पत्या नियुक्ता या चैव पत्न्यपत्यार्थमेव च । न करिष्यति तस्याश्च भविष्यत्येतदेव हि ॥
इति तेन पुरा भीरु मर्यादा स्थापिता बलात् । उद्दालकस्य पुत्रेण धर्म्या वै श्वेतकेतुना ॥
सौदासेन च रम्भोरु नियुक्तापत्यजन्मनि । मदयन्ती जगामर्षिं वसिष्ठमिति नः श्रुतम् ॥
तस्माल्लेभे च सा पुत्रमश्मकं नाम भामिनी । भार्या कल्माषपादस्य भर्तुः प्रियचिकीर्षया ॥
अस्माकमपि ते जन्म विदितं कमलेक्षणे । कृष्णद्वैपायनाद्भीरु कुरूणां वंशवृद्धये ॥
अत एतानि सर्वाणि कारणानि समीक्ष्य वै । ममैतद्वचनं धर्म्यं कर्तुमर्हस्यनिन्दिते ॥
ऋतावृतौ राजपुत्रि स्त्रिया भर्ता यतव्रते । नातिवर्तव्य इत्येवं धर्मं धर्मविदो विदुः ॥
शेषेष्वन्येषु कालेषु स्वातन्त्र्यं स्त्री किलार्हति । धर्ममेतं जनाः सन्तः पुराणं परिचक्षते ॥
भर्ता भार्यां राजपुत्रि धर्म्यं वाधर्म्यमेव वा । यद्ब्रूयात्तत्तथा कार्यमिति धर्मविदो विदुः ॥
विशेषतः पुत्रगृद्धी हीनः प्रजननात्स्वयम् । यथाहमनवद्याङ्गि पुत्रदर्शनलालसः ॥
तथा रक्ताङ्गुलितलः पद्मपत्रनिभः शुभे । प्रसादार्थं मया तेऽयं शिरस्यभ्युद्यतोऽञ्जलिः ॥
← Previous (Ch. 112) Full Table of Contents Next (Ch. 114) →