Skip to main content
Search
KA
Kirātārjunīyam • Chapter 06

Canto 6

षष्ठः सर्गः

Canto 6 of Kirātārjunīyam.

Total: 47 Verses • Citations: KA 6.1–47 • 1 Lexicon Terms • Page 2 of 2 (Verses 17 shown)
KA 6.31 प्रमिताक्षरा
शुचिवल्कवीततनुरन्यतमस्तिमिरच्छिदामिव गिरौ भवतः । महते जयाय मघवन्ननघः पुरुषस्तपस्यति तपज्जगतीम् ॥
KA 6.32 प्रमिताक्षरा
स बिभर्ति भीषणभुजंगभुजः पृथि विद्विषां भयविधायि धनुः । अमलेन तस्य धृतसच्चरिताश्चरितेन चातिशयिता मुनयः ॥
KA 6.33 प्रमिताक्षरा
मरुतः शिवा नवतृणा जगती विमलं नभो रजसि वृष्टिरपाम् । गुणसम्पदानुगुणतां गमितः कुरुतेऽस्य भक्तिमिव भूतगणः ॥
KA 6.34 प्रमिताक्षरा
इतरेतरानभिभवेन मृगास्तमुपासते गुरुमिवान्तसदः । विनमन्ति चास्य तरवः प्रचये परवान्स तेन भवतेव नगः ॥
KA 6.35 प्रमिताक्षरा
उरु सत्त्वमाह विपरिश्रमता परमं वपुः प्रथयतीव जयम् । शमिनोऽपि तस्य नवसंगमने विभुतानुषङ्गि भयमेति जनः ॥
KA 6.36 प्रमिताक्षरा
ऋषिवंशजः स यदि दैत्यकुले यदि वान्वये महति भूमिभृताम् । चरतस्तपस्तव वनेषु सदा न वयं निरूपयितुमस्य गतिम् ॥
KA 6.37 प्रमिताक्षरा
विगणय्य कारणमनेकगुणं निजयाथवा कथितमल्पतया । असदप्यदः सहितुमर्हति नः क्व वनेचराः क्व निपुणा मतयः ॥
KA 6.38 प्रमिताक्षरा
अधिगम्य गुह्यकगणादिति तन्मनसः प्रियं प्रियसुतस्य तपः । निजुगोप हर्षमुदितं मघवा नयवर्त्मगाः प्रभवतां हि धियः ॥
KA 6.39 प्रमिताक्षरा
प्रणिधाय चित्तमथ भक्ततया विदितेऽप्यपूर्व इव तत्र हरिः । उपलब्धुमस्य नियमस्थिरतां सुरसुन्दरीरिति वचोऽभिदधे ॥
KA 6.40 प्रमिताक्षरा
सुकुमारमेकमणु मर्मभिदामतिदूरगं युतममोघतया । अविपक्षमस्त्रमपरं कतमद्विजयाय यूयमिव चित्तभुवः ॥
KA 6.41 प्रमिताक्षरा
भववीतये हतबृहत्तमसामवबोधवारि रजसः शमनम् । परिपीयमाणमिव वोऽसकलैरवसादमेति नयनाञ्जलिभिः ॥
KA 6.42 प्रमिताक्षरा
बहुधा गतां जगति भूतसृजा कमनीयतां समभिहृत्य पुरा । उपपादिता विदधता भवतीः सुरसद्मयानसुमुखी जनता ॥
KA 6.43 प्रमिताक्षरा
तदुपेत्य विघ्नयत तस्य तपः कृतिभिः कलासु सहिताः सचिवैः । हृतवीतरागमनसां ननु वः सुखसङ्गिनं प्रति सुखावजितिः ॥
KA 6.44 प्रमिताक्षरा
अविमृष्यमेतदभिलष्यति स द्विषतां वधेन विषयाभिरतिम् । भववीतये न हि तथा स विधिः क्व शरासनं क्व च विमुक्तिपथः ॥
KA 6.45 प्रमिताक्षरा
पृथुदाम्नि तत्र परिबोधि च मा भवतीभिरन्यमुनिवद्विकृतिः । स्वयशांसि विक्रमवतामवतां न वधूष्वघानि विमृष्यन्ति धियः ॥
KA 6.46 वसन्ततिलका
आशंसितापचितिचारु पुरः सुराणामादेशमित्यभिमुखं समवाप्य भर्तुः । लेभे परां द्युतिममर्त्यवधूसमूहः सम्भावना ह्यधिकृतस्य तनोति तेजः ॥
KA 6.47 मालिनी
प्रणतिमथ विधाय प्रस्थिताः सद्मनस्ताः स्तनभरनमिताङ्गीरङ्गनाः प्रीतिभाजः । अचलनलिनलक्ष्मीहारि नालं बभूव स्तिमितममरभर्तुर्द्रष्टुमक्ष्णां सहस्रम् ॥
← Previous (Ch. 5) Full Table of Contents Next (Ch. 7) →