Skip to main content
Search
KA
Kirātārjunīyam • Chapter 05

Canto 5

पञ्चमः सर्गः

Canto 5 of Kirātārjunīyam.

Total: 52 Verses • Citations: KA 5.1–52 • 1 Lexicon Terms • Page 1 of 2 (Verses 30 shown)
KA 5.1 द्रुतविलम्बितम्
अथ जयाय नु मेरुमहीभृतो रभसया नु दिगन्तदिदृक्षया । अभिययौ स हिमाचलमुच्छ्रितं समुदितं नु विलङ्घयितुं नभः ॥
KA 5.2 द्रुतविलम्बितम्
तपनमण्डलदीतितमेकतः सततनैशतमोवृतमन्यतः । हसितभिन्नतमिस्रचयं पुरः शिवमिवानुगतं गजचर्मणा ॥
KA 5.3 द्रुतविलम्बितम्
क्षितिनभःसुरलोकनिवासिभिः कृतनिकेतमदृष्टपरस्परैः । प्रथयितुं विभुतामभिनिर्मितं प्रतिनिधिं जगतामिव शम्भुना ॥
KA 5.4 द्रुतविलम्बितम्
भुजगराजसितेन नभःश्रिया कनकराजिविराजितसानुना । समुदितं निचयेन तडित्वतीं लघयता शरदम्बुदसंहतिम् ॥
KA 5.5 द्रुतविलम्बितम्
मणिमयूखचयांशुकभासुराः सुरवधूपरिभुक्तलतागृहाः । दधतमुच्चशिलान्तरगोपुराः पुर इवोदितपुष्पवना भुवः ॥
KA 5.6 द्रुतविलम्बितम्
अविरतोज्झितवारिविपाण्डुभिर्विरहितैरचिरद्युतितेजसा । उदितपक्षमिवारतनिःस्वनैः पृथुनितम्बविलम्बिभिरम्बुदैः ॥
KA 5.7 द्रुतविलम्बितम्
दधतमाकरिभिः करिभिः क्षतैः समवतारसमैरसमैस्तटैः । विविधकामहिता महिताम्भसः स्फुटसरोजवना जवना नदीः ॥
KA 5.8 द्रुतविलम्बितम्
नवविनिद्रजपाकुसुमत्विषां द्युतिमतां निकरेण महाश्मनाम् । विहितसांध्यमयूखमिव क्वचिन्निचितकाञ्चनभित्तिषु सानुषु ॥
KA 5.9 द्रुतविलम्बितम्
पृथुकदम्बकदम्बकराजितं ग्रहितमालतमालवनाकुलम् । लघुतुषारतुषारजलश्च्युतं धृतसदानसदाननदन्तिनम् ॥
KA 5.10 द्रुतविलम्बितम्
रहितरत्नचयान्न शिलोच्चयानफलताभवना न दरीभुवः । विपुलिनाम्बुरुहा न सरिद्वधूरकुसुमान्दधतं न महीरुहः ॥
KA 5.11 द्रुतविलम्बितम्
व्यथितसिन्धुमनीरशनैः शनैरमरलोकवधूजघनैर्घनैः । फणभृतामभितो विततं ततं दयितरम्यलताबकुलैः कुलैः ॥
KA 5.12 द्रुतविलम्बितम्
ससुरचापमनेकमणिप्रभैरपपयोविशदं हिमपाण्डुभिः । अविचलं शिखरैरुपबिभ्रतं ध्वनितसूचितमम्बुमुचां चयम् ॥
KA 5.13 द्रुतविलम्बितम्
विकचवारिरुहं दधतं सरः सकलहंसगणं शुचि मानसम् । शिवमगात्मजया च कृतेर्ष्यया सकलहं सगणं शुचिमानसम् ॥
KA 5.14 द्रुतविलम्बितम्
ग्रहविमानगणानभितो दिवं ज्वलयतौषधिजेन कृशानुना । मुहुरनुस्मरयन्तमनुक्षपं त्रिपुरदाहमुपापतिसेविनः ॥
KA 5.15 द्रुतविलम्बितम्
विततशीकरराशिभिरुच्छ्रितैरुपलरोधविवर्तिभिरम्बुभिः । दधतमुन्नतसानुसमुद्धतां धृतसितव्यजनामिव जाह्नवीम् ॥
KA 5.16 द्रुतविलम्बितम्
अनुचरेण धनाधिपतेरथो नगविलोकनविस्मितमानसः । स जगदे वचनं प्रियमादरान्मुखरतावसरे हि विराजते ॥
KA 5.17 औपच्छन्दसिक = [११: ससजगग] १,३ + [१२: सभरय] २,४
अलमेष विलोकितः प्रजानां सहसा संहतिमंहसां विहन्तुम् । घनवर्त्म सहस्रधेव कुर्वन्हिमगौरैरचलाधिपः शिरोभिः ॥
KA 5.18 क्षमा
इह दुरधिगमैः किंचिदेवागमैः सततमसुतरं वर्णयन्त्यन्तरम् । अमुमतिविपिनं वेद दिग्व्यापिनं पुरुषमिव परं पद्मयोनिः परम् ॥
KA 5.19 द्रुतविलम्बितम्
रुचिरपल्लवपुष्पलतागृहैरुपलसज्जलजैर्जलराशिभिः । नयति संततमुत्सुकतामयं धृतिमतीरुपकान्तमपि स्त्रियः ॥
KA 5.20 प्रमिताक्षरा
सुलभैः सदा नयवतायवता निधिगुह्यकाधिपरमैः परमैः । अमुना धनैः क्षितिभृतातिभृता समतीत्य भाति जगती जगती ॥
KA 5.21 प्रमुदितवदना
अखिलमिदममुष्य गैरीगुरोस्त्रिभुवनमपि नैति मन्ये तुलाम् । अधिवसति सदा यदेनं जनैरविदितविभवो भवानीपतिः ॥
KA 5.22 रथोद्धता
वीतजन्मजरसं परं शुचि ब्रह्मणः पदमुपैतुमिच्छताम् । आगमादिव तमोपहादितः सम्भवन्ति मतयो भवच्छिदः ॥
KA 5.23 जलधरमाला
दिव्यस्त्रीणां सचरणलाक्षारागा रागायाते निपतितपुष्पापीडाः । पीडाभाजः कुसुमचिताः साशंसं शंसन्त्यस्मिन्सुरतविशेषं शय्याः ॥
KA 5.24 प्रमिताक्षरा
गुणसम्पदा समधिगम्य परं महिमानमत्र महिते जगताम् । नयशालिनि श्रिय इवाधिपतौ विरमन्ति न ज्वलितुमौषधयः ॥
KA 5.25 प्रमिताक्षरा
कुररीगणः कृतरवस्तरवः कुसुमानताः सकमलं कमलम् । इह सिन्धवश्च वरणावरणाः करिणां मुदे सनलदानलदाः ॥
KA 5.26 प्रहर्षिणी
सादृश्यं गतमपनिद्रचूतगन्धैरामोदं मदजलसेकजं दधानः । एतस्मिन्मदयति कोकिलानकाले लीनालिः सुरकरिणां कपोलकाषः ॥
KA 5.27 जलोद्धतगति
सनाकवनितं नितम्बरुचिरं चिरं सुनिनदैर्नदैर्वृतममुम् । मता फलवतोऽवतो रसपरा परास्तवसुधा सुधाधिवसति ॥
KA 5.28 वसन्ततिलका
श्रीमल्लताभवनमोषधयः प्रदीपाः शय्या नवानि हरिचन्दनपल्लवानि । अस्मिन्रतिश्रमनुदश्च सरोजवाताः स्मर्तुं दिशन्ति न दिवः सुरसुन्दरीभ्यः ॥
KA 5.29 वसन्ततिलका
ईशार्थमम्भसि चिराय तपश्चरन्त्या यादोविलङ्घनविलोलविलोचनायाः । आलम्बताग्रकरमत्र भवो भवान्याः श्च्योतन्निदाघसलिलाङ्गुलिना करेण ॥
KA 5.30 वसन्ततिलका
येनापविद्धसलिलः स्फुटनागसद्मा देवासुरैरमृतमम्बुनिधिर्ममन्थे । व्यावर्तनैरहिपतेरयमाहिताङ्कः खं व्यालिखन्निव विभाति स मन्दराद्रिः ॥
← Previous (Ch. 4) Full Table of Contents Next (Ch. 6) →