समुत्क्षिप्य ततो वह्निर्मैथिलीं राममुक्तवान् । "काकुत्स्थ ! दयितां साध्वीं त्वमाशङ्किष्यथाः कथम् ॥
ना भविष्यदियं शुद्धा यद्यपास्यमहं ततः । न चैनां पक्षपातो मे धर्मादन्यत्र राघव ! ॥
अपि तत्र-रिपुः सीतां नाऽर्थयिष्यत दुर्-मतिः । क्रूरं जात्ववदिष्यच्च जात्वस्तोष्यच्छ्रियं स्वकाम् ॥
सङ्कल्पं नाऽकरिष्यच्च तत्रेयं शुद्ध-मानसा । सत्याऽमर्षमवाप्स्यस्त्वं रामः सीता-निबन्धनम् ॥
त्वयाऽद्रक्ष्यत किं नाऽस्याः शीलं संवसता चिरम् ।अदर्शिष्यन्त वा चेष्टाः कालेन बधुना न किम् ॥
यावज्जिवमशोचिष्यो नाऽहास्यश्चेदिदं तमः । भानुरप्यपतिष्यत्क्ष्मामक्षोभिष्यत चेदियम् ॥
समपत्स्यत राजेन्द्र ! स्त्रैणं यद्यत्र चापलम् । लोक-पाला इहाऽऽयास्यंस्ततो नाऽमी कलि-द्रुहः ॥
आश्चर्यं यच्च यत्र स्त्री कृच्छ्रेऽवर्त्स्यन्मते तव । त्रासादस्यां विनष्टायां किं किमालप्स्यथाः फलम् ॥
यत्र यच्चाऽमरिष्यत्स्त्री साध्वसाद्दोष-वर्जिता । तदसूया-रतौ लोके तस्या वाच्याऽऽस्पदं मृषा ॥
अमंत्स्य भवान्यद्वद्तथैव च पिता तव । नाऽऽगमिष्यद्विमान-स्थः साक्षाद्दशरथो नृपः ॥
नाऽकल्प्स्यत्सन्निधिं स्थानुः शूली वृषभ-वाहनः ।अन्वभाविष्यताऽन्येन मैथिली चेत्पतिव्रता ॥
आनन्दयिष्यदागम्य कथं त्वामरविन्द-सत् । राजेन्द्र ! विश्व-सूर्धाता चारित्र्ये सीतया क्षते ॥
प्रणमन्ब्रह्मणा प्रोक्तो राजकाऽधिपतिस्ततः । "ना शोत्स्यन्मैथिली लोके नाऽऽचरिष्यदिदं यदि ॥
नाऽमोक्ष्याम वयं शङ्का- मिहाधास्यन्न चेद्भवान् । किं वा चित्रमिदं युक्तं भवान्यदकरिष्यत ॥
प्रावर्तिष्यन्त चेष्टाश्चेद्-याथातथ्य-वत्तव ।अनुशास्ये त्वया लोके रामाऽवर्त्स्यंस्तरां ततः ॥
प्राणमन्तम्ततो राममुक्तवानिति शङ्करः । "किं नारायणमात्मानं नाऽभोत्स्यत भवानजम् ॥
को न्योऽकर्त्स्यदिह प्राणान्दृप्तानां च सुर-द्विषाम् । को वा विश्वजनीनेषु कर्मसु प्राघटिष्यत ॥
दैत्य-क्षये महा-राज ! यच्च यत्राऽघटिष्यथाः । समाप्तिं जातु तत्रापि किं नाऽनेष्यस्त्वमीहितम् ॥
तातं प्रसाद्य कैयेय्या भरताय प्रपीडितम् । सहस्र-चक्षुषं रामो निनंसुः परिदृष्टवान् ॥
प्रेता वरेण शक्रस्य प्राणन्तः कपयस्ततः । संजाताः फलिनाऽऽनम्र-रोचिष्णु-द्रुम-सद्रवः ॥
भ्रमर कुलाऽऽकुलोल्बण-सुगन्धि-पुष्प-तरुस्तरुण-मधूक-सम्भव-पिशङ्गित-तुङ्ग-शिखः । शिखर-शिलाऽन्तराल-परिक्wxल्क़्क़्प्त-जलाऽवसरः स-रस-फल-श्रियं स विततान सुवेल-गिरिः ॥
संवाद्भिः स-कुसुम-रेणुभिः समीरै- रानम्रैर्बहु-फल-धारिभिर्वनाऽन्तैः । श्च्योतद्भिर्मधु-पटलैश्च वानराणामाप्यानो रिपु-वध-सम्भवः प्रमोदः ॥
आयान्त्यः स्व-फल-भरेण भङ्गुरत्वं भृङ्गाऽऽली-निचय-चिता लतास्तरूणाम् । साऽऽमोदाः क्षिति-तल-संस्थिताऽवलोप्या भोक्त्णां ष्रममदयं न नीतवत्यः ॥